Sūkta 120
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Kakṣīvat Dairghatamasa
- Chandas छन्दस्
- Gāyatrī, Kakubh, Kavirāj, Naṣṭarūpī, Tanuśirā, Uṣṇih, Viṣṭārabṛhatī, Kṛti, Virāj
Metres by ṛk
1st set of styles pipīlikāmadhyānicṛdgāyatrī (1, 12); bhuriggāyatrī (2); svarāṭkakubuṣṇik (3); ārṣyanuṣṭup (4); ārṣyuṣṇik (5); virāḍārṣyuṣṇik (6); svarāḍārṣyanuṣṭup (7); bhuriguṣṇik (8); bhuriganuṣṭup (9); gāyatrī (10); pipīlikāmadhyāvirāḍgāyatrī (11)
2nd set of styles gāyatrī (1, 10-12); kakubh (2); kavirāj (3); naṣṭarūpī (4); tanuśirā (5); uṣṇih (6); viṣṭārabṛhatī (7); kṛti (8); virāj (9)
-
Ṛk 1
का रा॑ध॒द्धोत्रा॑श्विना वां॒ को वां॒ जोष॑ उ॒भयोः॑ ।
क॒था वि॑धा॒त्यप्र॑चेताः ॥का राधद् धोत्राश्विना वां को वां जोष उभयोः |
कथा विधात्य् अप्रचेताः ||kā́ rādhaddhótrāśvinā vām kó vām jóṣa ubháyoḥ ǀ
kathā́ vidhātyápracetāḥ ǁkā rādhad dhotrāśvinā vāṃ ko vāṃ joṣa ubhayoḥ |
kathā vidhāty apracetāḥ ||का । रा॒ध॒त् । होत्रा॑ । अ॒श्वि॒ना॒ । वा॒म् । कः । वा॒म् । जोषे॑ । उ॒भयोः॑ ।
क॒था । वि॒धा॒ति॒ । अप्र॑ऽचेताः ॥का । राधत् । होत्रा । अश्विना । वाम् । कः । वाम् । जोषे । उभयोः ।
कथा । विधाति । अप्रऽचेताः ॥kā́ ǀ rādhat ǀ hótrā ǀ aśvinā ǀ vām ǀ káḥ ǀ vām ǀ jóṣe ǀ ubháyoḥ ǀ
kathā́ ǀ vidhāti ǀ ápra-cetāḥ ǁkā ǀ rādhat ǀ hotrā ǀ aśvinā ǀ vām ǀ kaḥ ǀ vām ǀ joṣe ǀ ubhayoḥ ǀ
kathā ǀ vidhāti ǀ apra-cetāḥ ǁ1.120.1 Aṣṭaka 1.8.22.1Anuvāka 1.17.72
-
Ṛk 2
वि॒द्वांसा॒विद्दुरः॑ पृच्छे॒दवि॑द्वानि॒त्थाप॑रो अचे॒ताः ।
नू चि॒न्नु मर्ते॒ अक्रौ॑ ॥विद्वांसाव् इद् दुरः पृच्छेद् अविद्वान् इत्थापरो अचेताः |
नू चिन् नु मर्ते अक्रौ ||vidvā́ṃsāvíddúraḥ pṛcchedávidvānitthā́paro acetā́ḥ ǀ
nū́ cinnú márte ákrau ǁvidvāṃsāv id duraḥ pṛcched avidvān itthāparo acetāḥ |
nū cin nu marte akrau ||वि॒द्वांसौ॑ । इत् । दुरः॑ । पृ॒च्छे॒त् । अवि॑द्वान् । इ॒त्था । अप॑रः । अ॒चे॒ताः ।
नु । चि॒त् । नु । मर्ते॑ । अक्रौ॑ ॥विद्वांसौ । इत् । दुरः । पृच्छेत् । अविद्वान् । इत्था । अपरः । अचेताः ।
नु । चित् । नु । मर्ते । अक्रौ ॥vidvā́ṃsau ǀ ít ǀ dúraḥ ǀ pṛcchet ǀ ávidvān ǀ itthā́ ǀ áparaḥ ǀ acetā́ḥ ǀ
nú ǀ cit ǀ nú ǀ márte ǀ ákrau ǁvidvāṃsau ǀ it ǀ duraḥ ǀ pṛcchet ǀ avidvān ǀ itthā ǀ aparaḥ ǀ acetāḥ ǀ
nu ǀ cit ǀ nu ǀ marte ǀ akrau ǁ1.120.2 Aṣṭaka 1.8.22.2Anuvāka 1.17.73
-
Ṛk 3
ता वि॒द्वांसा॑ हवामहे वां॒ ता नो॑ वि॒द्वांसा॒ मन्म॑ वोचेतम॒द्य ।
प्रार्च॒द्दय॑मानो यु॒वाकुः॑ ॥ता विद्वांसा हवामहे वां ता नो विद्वांसा मन्म वोचेतम् अद्य |
प्रार्चद् दयमानो युवाकुः ||tā́ vidvā́ṃsā havāmahe vām tā́ no vidvā́ṃsā mánma vocetamadyá ǀ
prā́rcaddáyamāno yuvā́kuḥ ǁtā vidvāṃsā havāmahe vāṃ tā no vidvāṃsā manma vocetam adya |
prārcad dayamāno yuvākuḥ ||ता । वि॒द्वांसा॑ । ह॒वा॒म॒हे॒ । वा॒म् । ता । नः॒ । वि॒द्वांसा॑ । मन्म॑ । वो॒चे॒त॒म् । अ॒द्य ।
प्र । आ॒र्च॒त् । दय॑मानः । यु॒वाकुः॑ ॥ता । विद्वांसा । हवामहे । वाम् । ता । नः । विद्वांसा । मन्म । वोचेतम् । अद्य ।
प्र । आर्चत् । दयमानः । युवाकुः ॥tā́ ǀ vidvā́ṃsā ǀ havāmahe ǀ vām ǀ tā́ ǀ naḥ ǀ vidvā́ṃsā ǀ mánma ǀ vocetam ǀ adyá ǀ
prá ǀ ārcat ǀ dáyamānaḥ ǀ yuvā́kuḥ ǁtā ǀ vidvāṃsā ǀ havāmahe ǀ vām ǀ tā ǀ naḥ ǀ vidvāṃsā ǀ manma ǀ vocetam ǀ adya ǀ
pra ǀ ārcat ǀ dayamānaḥ ǀ yuvākuḥ ǁ1.120.3 Aṣṭaka 1.8.22.3Anuvāka 1.17.74
-
Ṛk 4
वि पृ॑च्छामि पा॒क्या॒३॒॑ न दे॒वान्वष॑ट्कृतस्याद्भु॒तस्य॑ दस्रा ।
पा॒तं च॒ सह्य॑सो यु॒वं च॒ रभ्य॑सो नः ॥वि पृच्छामि पाक्या न देवान् वषट्कृतस्याद्भुतस्य दस्रा |
पातं च सह्यसो युवं च रभ्यसो नः ||ví pṛcchāmi pākyā́ ná devā́nváṣaṭkṛtasyādbhutásya dasrā ǀ
pātám ca sáhyaso yuvám ca rábhyaso naḥ ǁvi pṛcchāmi pākyā na devān vaṣaṭkṛtasyādbhutasya dasrā |
pātaṃ ca sahyaso yuvaṃ ca rabhyaso naḥ ||वि । पृ॒च्छा॒मि॒ । पा॒क्या॑ । न । दे॒वान् । वष॑ट्ऽकृतस्य । अ॒द्भु॒तस्य॑ । द॒स्रा॒ ।
पा॒तम् । च॒ । सह्य॑सः । यु॒वम् । च॒ । रभ्य॑सः । नः॒ ॥वि । पृच्छामि । पाक्या । न । देवान् । वषट्ऽकृतस्य । अद्भुतस्य । दस्रा ।
पातम् । च । सह्यसः । युवम् । च । रभ्यसः । नः ॥ví ǀ pṛcchāmi ǀ pākyā́ ǀ ná ǀ devā́n ǀ váṣaṭ-kṛtasya ǀ adbhutásya ǀ dasrā ǀ
pātám ǀ ca ǀ sáhyasaḥ ǀ yuvám ǀ ca ǀ rábhyasaḥ ǀ naḥ ǁvi ǀ pṛcchāmi ǀ pākyā ǀ na ǀ devān ǀ vaṣaṭ-kṛtasya ǀ adbhutasya ǀ dasrā ǀ
pātam ǀ ca ǀ sahyasaḥ ǀ yuvam ǀ ca ǀ rabhyasaḥ ǀ naḥ ǁ1.120.4 Aṣṭaka 1.8.22.4Anuvāka 1.17.75
-
Ṛk 5
प्र या घोषे॒ भृग॑वाणे॒ न शोभे॒ यया॑ वा॒चा यज॑ति पज्रि॒यो वां॑ ।
प्रैष॒युर्न वि॒द्वान् ॥प्र या घोषे भृगवाणे न शोभे यया वाचा यजति पज्रियो वाम् |
प्रैषयुर् न विद्वान् ||prá yā́ ghóṣe bhṛ́gavāṇe ná śóbhe yáyā vācā́ yájati pajriyó vām ǀ
práiṣayúrná vidvā́n ǁpra yā ghoṣe bhṛgavāṇe na śobhe yayā vācā yajati pajriyo vām |
praiṣayur na vidvān ||प्र । या । घोषे॑ । भृग॑वाणे । न । शोभे॑ । यया॑ । वा॒चा । यज॑ति । प॒ज्रि॒यः । वा॒म् ।
प्र । इ॒ष॒ऽयुः । न । वि॒द्वान् ॥प्र । या । घोषे । भृगवाणे । न । शोभे । यया । वाचा । यजति । पज्रियः । वाम् ।
प्र । इषऽयुः । न । विद्वान् ॥prá ǀ yā́ ǀ ghóṣe ǀ bhṛ́gavāṇe ǀ ná ǀ śóbhe ǀ yáyā ǀ vācā́ ǀ yájati ǀ pajriyáḥ ǀ vām ǀ
prá ǀ iṣa-yúḥ ǀ ná ǀ vidvā́n ǁpra ǀ yā ǀ ghoṣe ǀ bhṛgavāṇe ǀ na ǀ śobhe ǀ yayā ǀ vācā ǀ yajati ǀ pajriyaḥ ǀ vām ǀ
pra ǀ iṣa-yuḥ ǀ na ǀ vidvān ǁ1.120.5 Aṣṭaka 1.8.22.5Anuvāka 1.17.76
-
Ṛk 6
श्रु॒तं गा॑य॒त्रं तक॑वानस्या॒हं चि॒द्धि रि॒रेभा॑श्विना वां ।
आक्षी शु॑भस्पती॒ दन् ॥श्रुतं गायत्रं तकवानस्याहं चिद् धि रिरेभाश्विना वाम् |
आक्षी शुभस् पती दन् ||śrutám gāyatrám tákavānasyāhám ciddhí rirébhāśvinā vām ǀ
ā́kṣī́ śubhaspatī dán ǁśrutaṃ gāyatraṃ takavānasyāhaṃ cid dhi rirebhāśvinā vām |
ākṣī śubhas patī dan ||श्रु॒तम् । गा॒य॒त्रम् । तक॑वानस्य । अ॒हम् । चि॒त् । हि । रि॒रेभ॑ । अ॒श्वि॒ना॒ । वा॒म् ।
आ । अ॒क्षी इति॑ । शु॒भः॒ । प॒ती॒ इति॑ । दन् ॥श्रुतम् । गायत्रम् । तकवानस्य । अहम् । चित् । हि । रिरेभ । अश्विना । वाम् ।
आ । अक्षी इति । शुभः । पती इति । दन् ॥śrutám ǀ gāyatrám ǀ tákavānasya ǀ ahám ǀ cit ǀ hí ǀ rirébha ǀ aśvinā ǀ vām ǀ
ā́ ǀ akṣī́ íti ǀ śubhaḥ ǀ patī íti ǀ dán ǁśrutam ǀ gāyatram ǀ takavānasya ǀ aham ǀ cit ǀ hi ǀ rirebha ǀ aśvinā ǀ vām ǀ
ā ǀ akṣī iti ǀ śubhaḥ ǀ patī iti ǀ dan ǁ1.120.6 Aṣṭaka 1.8.23.1Anuvāka 1.17.77
-
Ṛk 7
यु॒वं ह्यास्तं॑ म॒हो रन्यु॒वं वा॒ यन्नि॒रत॑तंसतं ।
ता नो॑ वसू सुगो॒पा स्या॑तं पा॒तं नो॒ वृका॑दघा॒योः ॥युवं ह्य् आस्तम् महो रन् युवं वा यन् निरततंसतम् |
ता नो वसू सुगोपा स्यातम् पातं नो वृकाद् अघायोः ||yuvám hyā́stam mahó rányuvám vā yánnirátataṃsatam ǀ
tā́ no vasū sugopā́ syātam pātám no vṛ́kādaghāyóḥ ǁyuvaṃ hy āstam maho ran yuvaṃ vā yan niratataṃsatam |
tā no vasū sugopā syātam pātaṃ no vṛkād aghāyoḥ ||यु॒वम् । हि । आस्त॑म् । म॒हः । रन् । यु॒वम् । वा॒ । यत् । निः॒ऽअत॑तंसतम् ।
ता । नः॒ । व॒सू॒ इति॑ । सु॒ऽगो॒पा । स्या॒त॒म् । पा॒तम् । नः॒ । वृका॑त् । अ॒घ॒ऽयोः ॥युवम् । हि । आस्तम् । महः । रन् । युवम् । वा । यत् । निःऽअततंसतम् ।
ता । नः । वसू इति । सुऽगोपा । स्यातम् । पातम् । नः । वृकात् । अघऽयोः ॥yuvám ǀ hí ǀ ā́stam ǀ maháḥ ǀ rán ǀ yuvám ǀ vā ǀ yát ǀ niḥ-átataṃsatam ǀ
tā́ ǀ naḥ ǀ vasū íti ǀ su-gopā́ ǀ syātam ǀ pātám ǀ naḥ ǀ vṛ́kāt ǀ agha-yóḥ ǁyuvam ǀ hi ǀ āstam ǀ mahaḥ ǀ ran ǀ yuvam ǀ vā ǀ yat ǀ niḥ-atataṃsatam ǀ
tā ǀ naḥ ǀ vasū iti ǀ su-gopā ǀ syātam ǀ pātam ǀ naḥ ǀ vṛkāt ǀ agha-yoḥ ǁ1.120.7 Aṣṭaka 1.8.23.2Anuvāka 1.17.78
-
Ṛk 8
मा कस्मै॑ धातम॒भ्य॑मि॒त्रिणे॑ नो॒ माकुत्रा॑ नो गृ॒हेभ्यो॑ धे॒नवो॑ गुः ।
स्त॒ना॒भुजो॒ अशि॑श्वीः ॥मा कस्मै धातम् अभ्य् अमित्रिणे नो माकुत्रा नो गृहेभ्यो धेनवो गुः |
स्तनाभुजो अशिश्वीः ||mā́ kásmai dhātamabhyámitríṇe no mā́kútrā no gṛhébhyo dhenávo guḥ ǀ
stanābhújo áśiśvīḥ ǁmā kasmai dhātam abhy amitriṇe no mākutrā no gṛhebhyo dhenavo guḥ |
stanābhujo aśiśvīḥ ||मा । कस्मै॑ । धा॒त॒म् । अ॒भि । अ॒मि॒त्रिणे॑ । नः॒ । मा । अ॒कुत्र॑ । नः॒ । गृ॒हेभ्यः॑ । धे॒नवः॑ । गुः॒ ।
स्त॒न॒ऽभुजः॑ । अशि॑श्वीः ॥मा । कस्मै । धातम् । अभि । अमित्रिणे । नः । मा । अकुत्र । नः । गृहेभ्यः । धेनवः । गुः ।
स्तनऽभुजः । अशिश्वीः ॥mā́ ǀ kásmai ǀ dhātam ǀ abhí ǀ amitríṇe ǀ naḥ ǀ mā́ ǀ akútra ǀ naḥ ǀ gṛhébhyaḥ ǀ dhenávaḥ ǀ guḥ ǀ
stana-bhújaḥ ǀ áśiśvīḥ ǁmā ǀ kasmai ǀ dhātam ǀ abhi ǀ amitriṇe ǀ naḥ ǀ mā ǀ akutra ǀ naḥ ǀ gṛhebhyaḥ ǀ dhenavaḥ ǀ guḥ ǀ
stana-bhujaḥ ǀ aśiśvīḥ ǁ1.120.8 Aṣṭaka 1.8.23.3Anuvāka 1.17.79
-
Ṛk 9
दु॒ही॒यन्मि॒त्रधि॑तये यु॒वाकु॑ रा॒ये च॑ नो मिमी॒तं वाज॑वत्यै ।
इ॒षे च॑ नो मिमीतं धेनु॒मत्यै॑ ॥दुहीयन् मित्रधितये युवाकु राये च नो मिमीतं वाजवत्यै |
इषे च नो मिमीतं धेनुमत्यै ||duhīyánmitrádhitaye yuvā́ku rāyé ca no mimītám vā́javatyai ǀ
iṣé ca no mimītam dhenumátyai ǁduhīyan mitradhitaye yuvāku rāye ca no mimītaṃ vājavatyai |
iṣe ca no mimītaṃ dhenumatyai ||दु॒ही॒यन् । मि॒त्रऽधि॑तये । यु॒वाकु॑ । रा॒ये । च॒ । नः॒ । मि॒मी॒तम् । वाज॑ऽवत्यै ।
इ॒षे । च॒ । नः॒ । मि॒मी॒त॒म् । धेनु॒ऽमत्यै॑ ॥दुहीयन् । मित्रऽधितये । युवाकु । राये । च । नः । मिमीतम् । वाजऽवत्यै ।
इषे । च । नः । मिमीतम् । धेनुऽमत्यै ॥duhīyán ǀ mitrá-dhitaye ǀ yuvā́ku ǀ rāyé ǀ ca ǀ naḥ ǀ mimītám ǀ vā́ja-vatyai ǀ
iṣé ǀ ca ǀ naḥ ǀ mimītam ǀ dhénu-mátyai ǁduhīyan ǀ mitra-dhitaye ǀ yuvāku ǀ rāye ǀ ca ǀ naḥ ǀ mimītam ǀ vāja-vatyai ǀ
iṣe ǀ ca ǀ naḥ ǀ mimītam ǀ dhenu-matyai ǁ1.120.9 Aṣṭaka 1.8.23.4Anuvāka 1.17.80
-
Ṛk 10
अ॒श्विनो॑रसनं॒ रथ॑मन॒श्वं वा॒जिनी॑वतोः ।
तेना॒हं भूरि॑ चाकन ॥अश्विनोर् असनं रथम् अनश्वं वाजिनीवतोः |
तेनाहम् भूरि चाकन ||aśvínorasanam ráthamanaśvám vājínīvatoḥ ǀ
ténāhám bhū́ri cākana ǁaśvinor asanaṃ ratham anaśvaṃ vājinīvatoḥ |
tenāham bhūri cākana ||अ॒श्विनोः॑ । अ॒स॒न॒म् । रथ॑म् । अ॒न॒श्वम् । वा॒जिनी॑ऽवतोः ।
तेन॑ । अ॒हम् । भूरि॑ । चा॒क॒न॒ ॥अश्विनोः । असनम् । रथम् । अनश्वम् । वाजिनीऽवतोः ।
तेन । अहम् । भूरि । चाकन ॥aśvínoḥ ǀ asanam ǀ rátham ǀ anaśvám ǀ vājínī-vatoḥ ǀ
téna ǀ ahám ǀ bhū́ri ǀ cākana ǁaśvinoḥ ǀ asanam ǀ ratham ǀ anaśvam ǀ vājinī-vatoḥ ǀ
tena ǀ aham ǀ bhūri ǀ cākana ǁ1.120.10 Aṣṭaka 1.8.23.5Anuvāka 1.17.81
-
Ṛk 11
अ॒यं स॑मह मा तनू॒ह्याते॒ जनाँ॒ अनु॑ ।
सो॒म॒पेयं॑ सु॒खो रथः॑ ॥अयं समह मा तनूह्याते जनां अनु |
सोमपेयं सुखो रथः ||ayám samaha mā tanūhyā́te jánām̐ ánu ǀ
somapéyam sukhó ráthaḥ ǁayaṃ samaha mā tanūhyāte janāṃ anu |
somapeyaṃ sukho rathaḥ ||अ॒यम् । स॒म॒ह॒ । मा॒ । त॒नु॒ । ऊ॒ह्याते॑ । जना॑न् । अनु॑ ।
सो॒म॒ऽपेय॑म् । सु॒ऽखः । रथः॑ ॥अयम् । समह । मा । तनु । ऊह्याते । जनान् । अनु ।
सोमऽपेयम् । सुऽखः । रथः ॥ayám ǀ samaha ǀ mā ǀ tanu ǀ ūhyā́te ǀ jánān ǀ ánu ǀ
soma-péyam ǀ su-kháḥ ǀ ráthaḥ ǁayam ǀ samaha ǀ mā ǀ tanu ǀ ūhyāte ǀ janān ǀ anu ǀ
soma-peyam ǀ su-khaḥ ǀ rathaḥ ǁ1.120.11 Aṣṭaka 1.8.23.6Anuvāka 1.17.82
-
Ṛk 12
अध॒ स्वप्न॑स्य॒ निर्वि॒देऽभुं॑जतश्च रे॒वतः॑ ।
उ॒भा ता बस्रि॑ नश्यतः ॥अध स्वप्नस्य निर् विदे ऽभुञ्जतश् च रेवतः |
उभा ता बस्रि नश्यतः ||ádha svápnasya nírvidé’bhuñjataśca revátaḥ ǀ
ubhā́ tā́ básri naśyataḥ ǁadha svapnasya nir vide 'bhuñjataś ca revataḥ |
ubhā tā basri naśyataḥ ||अध॑ । स्वप्न॑स्य । निः । वि॒दे॒ । अभु॑ञ्जतः । च॒ । रे॒वतः॑ ।
उ॒भा । ता । बस्रि॑ । न॒श्य॒तः॒ ॥अध । स्वप्नस्य । निः । विदे । अभुञ्जतः । च । रेवतः ।
उभा । ता । बस्रि । नश्यतः ॥ádha ǀ svápnasya ǀ níḥ ǀ vide ǀ ábhuñjataḥ ǀ ca ǀ revátaḥ ǀ
ubhā́ ǀ tā́ ǀ básri ǀ naśyataḥ ǁadha ǀ svapnasya ǀ niḥ ǀ vide ǀ abhuñjataḥ ǀ ca ǀ revataḥ ǀ
ubhā ǀ tā ǀ basri ǀ naśyataḥ ǁ1.120.12 Aṣṭaka 1.8.23.7Anuvāka 1.17.83
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.