Ṛgveda · Maṇḍala 1 · Sūkta 120
Ṛk 1.120.4
Saṃhitā
वि पृ॑च्छामि पा॒क्या॒३॒॑ न दे॒वान्वष॑ट्कृतस्याद्भु॒तस्य॑ दस्रा ।
पा॒तं च॒ सह्य॑सो यु॒वं च॒ रभ्य॑सो नः ॥
वि पृच्छामि पाक्या न देवान् वषट्कृतस्याद्भुतस्य दस्रा |
पातं च सह्यसो युवं च रभ्यसो नः ||
ví pṛcchāmi pākyā́ ná devā́nváṣaṭkṛtasyādbhutásya dasrā ǀ
pātám ca sáhyaso yuvám ca rábhyaso naḥ ǁ
vi pṛcchāmi pākyā na devān vaṣaṭkṛtasyādbhutasya dasrā |
pātaṃ ca sahyaso yuvaṃ ca rabhyaso naḥ ||
Padapāṭha
वि । पृ॒च्छा॒मि॒ । पा॒क्या॑ । न । दे॒वान् । वष॑ट्ऽकृतस्य । अ॒द्भु॒तस्य॑ । द॒स्रा॒ ।
पा॒तम् । च॒ । सह्य॑सः । यु॒वम् । च॒ । रभ्य॑सः । नः॒ ॥
वि । पृच्छामि । पाक्या । न । देवान् । वषट्ऽकृतस्य । अद्भुतस्य । दस्रा ।
पातम् । च । सह्यसः । युवम् । च । रभ्यसः । नः ॥
ví ǀ pṛcchāmi ǀ pākyā́ ǀ ná ǀ devā́n ǀ váṣaṭ-kṛtasya ǀ adbhutásya ǀ dasrā ǀ
pātám ǀ ca ǀ sáhyasaḥ ǀ yuvám ǀ ca ǀ rábhyasaḥ ǀ naḥ ǁ
vi ǀ pṛcchāmi ǀ pākyā ǀ na ǀ devān ǀ vaṣaṭ-kṛtasya ǀ adbhutasya ǀ dasrā ǀ
pātam ǀ ca ǀ sahyasaḥ ǀ yuvam ǀ ca ǀ rabhyasaḥ ǀ naḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.120.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.8.22.04
- Maṇḍala · Anuvāka · Ṛk
- 1.17.075
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Kakṣīvat Dairghatamasa
- Chandas छन्दस्
- Gāyatrī, Kakubh, Kavirāj, Naṣṭarūpī, Tanuśirā, Uṣṇih, Viṣṭārabṛhatī, Kṛti, Virāj
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.