Sūkta 39
- Devatā देवता
- Maruts
- Ṛṣi ऋषि
- Kaṇva Ghaura
- Chandas छन्दस्
- Bṛhatī, Satobṛhatī
Metres by ṛk
1st set of styles virāṭsataḥpaṅkti (2, 6, 8, 10); pathyāvṛhatī (1, 5, 9); anuṣṭup (3); nicṛtpaṅkti (4); upariṣṭādvirāḍ bṛhatī (7)
2nd set of styles bṛhatī (1, 3, 5, 7, 9); satobṛhatī (2, 4, 6, 8, 10)
-
Ṛk 1
प्र यदि॒त्था प॑रा॒वतः॑ शो॒चिर्न मान॒मस्य॑थ ।
कस्य॒ क्रत्वा॑ मरुतः॒ कस्य॒ वर्प॑सा॒ कं या॑थ॒ कं ह॑ धूतयः ॥प्र यद् इत्था परावतः शोचिर् न मानम् अस्यथ |
कस्य क्रत्वा मरुतः कस्य वर्पसा कं याथ कं ह धूतयः ||prá yáditthā́ parāvátaḥ śocírná mā́namásyatha ǀ
kásya krátvā marutaḥ kásya várpasā kám yātha kám ha dhūtayaḥ ǁpra yad itthā parāvataḥ śocir na mānam asyatha |
kasya kratvā marutaḥ kasya varpasā kaṃ yātha kaṃ ha dhūtayaḥ ||प्र । यत् । इ॒त्था । प॒रा॒ऽवतः॑ । शो॒चिः । न । मान॑म् । अस्य॑थ ।
कस्य॑ । क्रत्वा॑ । म॒रु॒तः॒ । कस्य॑ । वर्प॑सा । कम् । या॒थ॒ । कम् । ह॒ । धू॒त॒यः॒ ॥प्र । यत् । इत्था । पराऽवतः । शोचिः । न । मानम् । अस्यथ ।
कस्य । क्रत्वा । मरुतः । कस्य । वर्पसा । कम् । याथ । कम् । ह । धूतयः ॥prá ǀ yát ǀ itthā́ ǀ parā-vátaḥ ǀ śocíḥ ǀ ná ǀ mā́nam ǀ ásyatha ǀ
kásya ǀ krátvā ǀ marutaḥ ǀ kásya ǀ várpasā ǀ kám ǀ yātha ǀ kám ǀ ha ǀ dhūtayaḥ ǁpra ǀ yat ǀ itthā ǀ parā-vataḥ ǀ śociḥ ǀ na ǀ mānam ǀ asyatha ǀ
kasya ǀ kratvā ǀ marutaḥ ǀ kasya ǀ varpasā ǀ kam ǀ yātha ǀ kam ǀ ha ǀ dhūtayaḥ ǁ1.39.1 Aṣṭaka 1.3.18.1Anuvāka 1.8.51
-
Ṛk 2
स्थि॒रा वः॑ सं॒त्वायु॑धा परा॒णुदे॑ वी॒ळू उ॒त प्र॑ति॒ष्कभे॑ ।
यु॒ष्माक॑मस्तु॒ तवि॑षी॒ पनी॑यसी॒ मा मर्त्य॑स्य मा॒यिनः॑ ॥स्थिरा वः सन्त्व् आयुधा पराणुदे वीऌऊ उत प्रतिष्कभे |
युष्माकम् अस्तु तविषी पनीयसी मा मर्त्यस्य मायिनः ||sthirā́ vaḥ santvā́yudhā parāṇúde vīḷū́ utá pratiṣkábhe ǀ
yuṣmā́kamastu táviṣī pánīyasī mā́ mártyasya māyínaḥ ǁsthirā vaḥ santv āyudhā parāṇude vīḷū uta pratiṣkabhe |
yuṣmākam astu taviṣī panīyasī mā martyasya māyinaḥ ||स्थि॒रा । वः॒ । स॒न्तु॒ । आयु॑धा । प॒रा॒ऽनुदे॑ । वी॒ळु । उ॒त । प्र॒ति॒ऽस्कभे॑ ।
यु॒ष्माक॑म् । अ॒स्तु॒ । तवि॑षी । पनी॑यसी । मा । मर्त्य॑स्य । मा॒यिनः॑ ॥स्थिरा । वः । सन्तु । आयुधा । पराऽनुदे । वीळु । उत । प्रतिऽस्कभे ।
युष्माकम् । अस्तु । तविषी । पनीयसी । मा । मर्त्यस्य । मायिनः ॥sthirā́ ǀ vaḥ ǀ santu ǀ ā́yudhā ǀ parā-núde ǀ vīḷú ǀ utá ǀ prati-skábhe ǀ
yuṣmā́kam ǀ astu ǀ táviṣī ǀ pánīyasī ǀ mā́ ǀ mártyasya ǀ māyínaḥ ǁsthirā ǀ vaḥ ǀ santu ǀ āyudhā ǀ parā-nude ǀ vīḷu ǀ uta ǀ prati-skabhe ǀ
yuṣmākam ǀ astu ǀ taviṣī ǀ panīyasī ǀ mā ǀ martyasya ǀ māyinaḥ ǁ1.39.2 Aṣṭaka 1.3.18.2Anuvāka 1.8.52
-
Ṛk 3
परा॑ ह॒ यत्स्थि॒रं ह॒थ नरो॑ व॒र्तय॑था गु॒रु ।
वि या॑थन व॒निनः॑ पृथि॒व्या व्याशाः॒ पर्व॑तानां ॥परा ह यत् स्थिरं हथ नरो वर्तयथा गुरु |
वि याथन वनिनः पृथिव्या व्य् आशाः पर्वतानाम् ||párā ha yátsthirám hathá náro vartáyathā gurú ǀ
ví yāthana vanínaḥ pṛthivyā́ vyā́śāḥ párvatānām ǁparā ha yat sthiraṃ hatha naro vartayathā guru |
vi yāthana vaninaḥ pṛthivyā vy āśāḥ parvatānām ||परा॑ । ह॒ । यत् । स्थि॒रम् । ह॒थ । नरः॑ । व॒र्तय॑थ । गु॒रु ।
वि । या॒थ॒न॒ । व॒निनः॑ । पृ॒थि॒व्याः । वि । आशाः॑ । पर्व॑तानाम् ॥परा । ह । यत् । स्थिरम् । हथ । नरः । वर्तयथ । गुरु ।
वि । याथन । वनिनः । पृथिव्याः । वि । आशाः । पर्वतानाम् ॥párā ǀ ha ǀ yát ǀ sthirám ǀ hathá ǀ náraḥ ǀ vartáyatha ǀ gurú ǀ
ví ǀ yāthana ǀ vanínaḥ ǀ pṛthivyā́ḥ ǀ ví ǀ ā́śāḥ ǀ párvatānām ǁparā ǀ ha ǀ yat ǀ sthiram ǀ hatha ǀ naraḥ ǀ vartayatha ǀ guru ǀ
vi ǀ yāthana ǀ vaninaḥ ǀ pṛthivyāḥ ǀ vi ǀ āśāḥ ǀ parvatānām ǁ1.39.3 Aṣṭaka 1.3.18.3Anuvāka 1.8.53
-
Ṛk 4
न॒हि वः॒ शत्रु॑र्विवि॒दे अधि॒ द्यवि॒ न भूम्यां॑ रिशादसः ।
यु॒ष्माक॑मस्तु॒ तवि॑षी॒ तना॑ यु॒जा रुद्रा॑सो॒ नू चि॑दा॒धृषे॑ ॥नहि वः शत्रुर् विविदे अधि द्यवि न भूम्यां रिशादसः |
युष्माकम् अस्तु तविषी तना युजा रुद्रासो नू चिद् आधृषे ||nahí vaḥ śátrurvividé ádhi dyávi ná bhū́myām riśādasaḥ ǀ
yuṣmā́kamastu táviṣī tánā yujā́ rúdrāso nū́ cidādhṛ́ṣe ǁnahi vaḥ śatrur vivide adhi dyavi na bhūmyāṃ riśādasaḥ |
yuṣmākam astu taviṣī tanā yujā rudrāso nū cid ādhṛṣe ||न॒हि । वः॒ । शत्रुः॑ । वि॒वि॒दे । अधि॑ । द्यवि॑ । न । भूम्या॑म् । रि॒शा॒द॒सः॒ ।
यु॒ष्माक॑म् । अ॒स्तु॒ । तवि॑षी । तना॑ । यु॒जा । रुद्रा॑सः । नु । चि॒त् । आ॒ऽधृषे॑ ॥नहि । वः । शत्रुः । विविदे । अधि । द्यवि । न । भूम्याम् । रिशादसः ।
युष्माकम् । अस्तु । तविषी । तना । युजा । रुद्रासः । नु । चित् । आऽधृषे ॥nahí ǀ vaḥ ǀ śátruḥ ǀ vividé ǀ ádhi ǀ dyávi ǀ ná ǀ bhū́myām ǀ riśādasaḥ ǀ
yuṣmā́kam ǀ astu ǀ táviṣī ǀ tánā ǀ yujā́ ǀ rúdrāsaḥ ǀ nú ǀ cit ǀ ā-dhṛ́ṣe ǁnahi ǀ vaḥ ǀ śatruḥ ǀ vivide ǀ adhi ǀ dyavi ǀ na ǀ bhūmyām ǀ riśādasaḥ ǀ
yuṣmākam ǀ astu ǀ taviṣī ǀ tanā ǀ yujā ǀ rudrāsaḥ ǀ nu ǀ cit ǀ ā-dhṛṣe ǁ1.39.4 Aṣṭaka 1.3.18.4Anuvāka 1.8.54
-
Ṛk 5
प्र वे॑पयंति॒ पर्व॑ता॒न्वि विं॑चंति॒ वन॒स्पती॑न् ।
प्रो आ॑रत मरुतो दु॒र्मदा॑ इव॒ देवा॑सः॒ सर्व॑या वि॒शा ॥प्र वेपयन्ति पर्वतान् वि विञ्चन्ति वनस्पतीन् |
प्रो आरत मरुतो दुर्मदा इव देवासः सर्वया विशा ||prá vepayanti párvatānví viñcanti vánaspátīn ǀ
pró ārata maruto durmádā iva dévāsaḥ sárvayā viśā́ ǁpra vepayanti parvatān vi viñcanti vanaspatīn |
pro ārata maruto durmadā iva devāsaḥ sarvayā viśā ||प्र । वे॒प॒य॒न्ति॒ । पर्व॑तान् । वि । वि॒ञ्च॒न्ति॒ । वन॒स्पती॑न् ।
प्रो इति॑ । आ॒र॒त॒ । म॒रु॒तः॒ । दु॒र्मदाः॑ऽइव । देवा॑सः । सर्व॑या । वि॒शा ॥प्र । वेपयन्ति । पर्वतान् । वि । विञ्चन्ति । वनस्पतीन् ।
प्रो इति । आरत । मरुतः । दुर्मदाःऽइव । देवासः । सर्वया । विशा ॥prá ǀ vepayanti ǀ párvatān ǀ ví ǀ viñcanti ǀ vánaspátīn ǀ
pró íti ǀ ārata ǀ marutaḥ ǀ durmádāḥ-iva ǀ dévāsaḥ ǀ sárvayā ǀ viśā́ ǁpra ǀ vepayanti ǀ parvatān ǀ vi ǀ viñcanti ǀ vanaspatīn ǀ
pro iti ǀ ārata ǀ marutaḥ ǀ durmadāḥ-iva ǀ devāsaḥ ǀ sarvayā ǀ viśā ǁ1.39.5 Aṣṭaka 1.3.18.5Anuvāka 1.8.55
-
Ṛk 6
उपो॒ रथे॑षु॒ पृष॑तीरयुग्ध्वं॒ प्रष्टि॑र्वहति॒ रोहि॑तः ।
आ वो॒ यामा॑य पृथि॒वी चि॑दश्रो॒दबी॑भयंत॒ मानु॑षाः ॥उपो रथेषु पृषतीर् अयुग्ध्वम् प्रष्टिर् वहति रोहितः |
आ वो यामाय पृथिवी चिद् अश्रोद् अबीभयन्त मानुषाः ||úpo rátheṣu pṛ́ṣatīrayugdhvam práṣṭirvahati róhitaḥ ǀ
ā́ vo yā́māya pṛthivī́ cidaśrodábībhayanta mā́nuṣāḥ ǁupo ratheṣu pṛṣatīr ayugdhvam praṣṭir vahati rohitaḥ |
ā vo yāmāya pṛthivī cid aśrod abībhayanta mānuṣāḥ ||उपो॒ इति॑ । रथे॑षु । पृष॑तीः । अ॒यु॒ग्ध्व॒म् । प्रष्टिः॑ । व॒ह॒ति॒ । रोहि॑तः ।
आ । वः॒ । यामा॑य । पृ॒थि॒वी । चि॒त् । अ॒श्रो॒त् । अबी॑भयन्त । मानु॑षाः ॥उपो इति । रथेषु । पृषतीः । अयुग्ध्वम् । प्रष्टिः । वहति । रोहितः ।
आ । वः । यामाय । पृथिवी । चित् । अश्रोत् । अबीभयन्त । मानुषाः ॥úpo íti ǀ rátheṣu ǀ pṛ́ṣatīḥ ǀ ayugdhvam ǀ práṣṭiḥ ǀ vahati ǀ róhitaḥ ǀ
ā́ ǀ vaḥ ǀ yā́māya ǀ pṛthivī́ ǀ cit ǀ aśrot ǀ ábībhayanta ǀ mā́nuṣāḥ ǁupo iti ǀ ratheṣu ǀ pṛṣatīḥ ǀ ayugdhvam ǀ praṣṭiḥ ǀ vahati ǀ rohitaḥ ǀ
ā ǀ vaḥ ǀ yāmāya ǀ pṛthivī ǀ cit ǀ aśrot ǀ abībhayanta ǀ mānuṣāḥ ǁ1.39.6 Aṣṭaka 1.3.19.1Anuvāka 1.8.56
-
Ṛk 7
आ वो॑ म॒क्षू तना॑य॒ कं रुद्रा॒ अवो॑ वृणीमहे ।
गंता॑ नू॒नं नोऽव॑सा॒ यथा॑ पु॒रेत्था कण्वा॑य बि॒भ्युषे॑ ॥आ वो मक्षू तनाय कं रुद्रा अवो वृणीमहे |
गन्ता नूनं नो ऽवसा यथा पुरेत्था कण्वाय बिभ्युषे ||ā́ vo makṣū́ tánāya kám rúdrā ávo vṛṇīmahe ǀ
gántā nūnám nó’vasā yáthā purétthā́ káṇvāya bibhyúṣe ǁā vo makṣū tanāya kaṃ rudrā avo vṛṇīmahe |
gantā nūnaṃ no 'vasā yathā puretthā kaṇvāya bibhyuṣe ||आ । वः॒ । म॒क्षु । तना॑य । कम् । रुद्राः॑ । अवः॑ । वृ॒णी॒म॒हे॒ ।
गन्त॑ । नू॒नम् । नः॒ । अव॑सा । यथा॑ । पु॒रा । इ॒त्था । कण्वा॑य । बि॒भ्युषे॑ ॥आ । वः । मक्षु । तनाय । कम् । रुद्राः । अवः । वृणीमहे ।
गन्त । नूनम् । नः । अवसा । यथा । पुरा । इत्था । कण्वाय । बिभ्युषे ॥ā́ ǀ vaḥ ǀ makṣú ǀ tánāya ǀ kám ǀ rúdrāḥ ǀ ávaḥ ǀ vṛṇīmahe ǀ
gánta ǀ nūnám ǀ naḥ ǀ ávasā ǀ yáthā ǀ purā́ ǀ itthā́ ǀ káṇvāya ǀ bibhyúṣe ǁā ǀ vaḥ ǀ makṣu ǀ tanāya ǀ kam ǀ rudrāḥ ǀ avaḥ ǀ vṛṇīmahe ǀ
ganta ǀ nūnam ǀ naḥ ǀ avasā ǀ yathā ǀ purā ǀ itthā ǀ kaṇvāya ǀ bibhyuṣe ǁ1.39.7 Aṣṭaka 1.3.19.2Anuvāka 1.8.57
-
Ṛk 8
यु॒ष्मेषि॑तो मरुतो॒ मर्त्ये॑षित॒ आ यो नो॒ अभ्व॒ ईष॑ते ।
वि तं यु॑योत॒ शव॑सा॒ व्योज॑सा॒ वि यु॒ष्माका॑भिरू॒तिभिः॑ ॥युष्मेषितो मरुतो मर्त्येषित आ यो नो अभ्व ईषते |
वि तं युयोत शवसा व्य् ओजसा वि युष्माकाभिर् ऊतिभिः ||yuṣméṣito maruto mártyeṣita ā́ yó no ábhva ī́ṣate ǀ
ví tám yuyota śávasā vyójasā ví yuṣmā́kābhirūtíbhiḥ ǁyuṣmeṣito maruto martyeṣita ā yo no abhva īṣate |
vi taṃ yuyota śavasā vy ojasā vi yuṣmākābhir ūtibhiḥ ||यु॒ष्माऽइ॑षितः । म॒रु॒तः॒ । मर्त्य॑ऽइषितः । आ । यः । नः॒ । अभ्वः॑ । ईष॑ते ।
वि । तम् । यु॒यो॒त॒ । शव॑सा । वि । ओज॑सा । वि । यु॒ष्माका॑भिः । ऊ॒तिऽभिः॑ ॥युष्माऽइषितः । मरुतः । मर्त्यऽइषितः । आ । यः । नः । अभ्वः । ईषते ।
वि । तम् । युयोत । शवसा । वि । ओजसा । वि । युष्माकाभिः । ऊतिऽभिः ॥yuṣmā́-iṣitaḥ ǀ marutaḥ ǀ mártya-iṣitaḥ ǀ ā́ ǀ yáḥ ǀ naḥ ǀ ábhvaḥ ǀ ī́ṣate ǀ
ví ǀ tám ǀ yuyota ǀ śávasā ǀ ví ǀ ójasā ǀ ví ǀ yuṣmā́kābhiḥ ǀ ūtí-bhiḥ ǁyuṣmā-iṣitaḥ ǀ marutaḥ ǀ martya-iṣitaḥ ǀ ā ǀ yaḥ ǀ naḥ ǀ abhvaḥ ǀ īṣate ǀ
vi ǀ tam ǀ yuyota ǀ śavasā ǀ vi ǀ ojasā ǀ vi ǀ yuṣmākābhiḥ ǀ ūti-bhiḥ ǁ1.39.8 Aṣṭaka 1.3.19.3Anuvāka 1.8.58
-
Ṛk 9
असा॑मि॒ हि प्र॑यज्यवः॒ कण्वं॑ द॒द प्र॑चेतसः ।
असा॑मिभिर्मरुत॒ आ न॑ ऊ॒तिभि॒र्गंता॑ वृ॒ष्टिं न वि॒द्युतः॑ ॥असामि हि प्रयज्यवः कण्वं दद प्रचेतसः |
असामिभिर् मरुत आ न ऊतिभिर् गन्ता वृष्टिं न विद्युतः ||ásāmi hí prayajyavaḥ káṇvam dadá pracetasaḥ ǀ
ásāmibhirmaruta ā́ na ūtíbhirgántā vṛṣṭím ná vidyútaḥ ǁasāmi hi prayajyavaḥ kaṇvaṃ dada pracetasaḥ |
asāmibhir maruta ā na ūtibhir gantā vṛṣṭiṃ na vidyutaḥ ||असा॑मि । हि । प्र॒ऽय॒ज्य॒वः॒ । कण्व॑म् । द॒द । प्र॒ऽचे॒त॒सः॒ ।
असा॑मिऽभिः । म॒रु॒तः॒ । आ । नः॒ । ऊ॒तिऽभिः॑ । गन्त॑ । वृ॒ष्टिम् । न । वि॒ऽद्युतः॑ ॥असामि । हि । प्रऽयज्यवः । कण्वम् । दद । प्रऽचेतसः ।
असामिऽभिः । मरुतः । आ । नः । ऊतिऽभिः । गन्त । वृष्टिम् । न । विऽद्युतः ॥ásāmi ǀ hí ǀ pra-yajyavaḥ ǀ káṇvam ǀ dadá ǀ pra-cetasaḥ ǀ
ásāmi-bhiḥ ǀ marutaḥ ǀ ā́ ǀ naḥ ǀ ūtí-bhiḥ ǀ gánta ǀ vṛṣṭím ǀ ná ǀ vi-dyútaḥ ǁasāmi ǀ hi ǀ pra-yajyavaḥ ǀ kaṇvam ǀ dada ǀ pra-cetasaḥ ǀ
asāmi-bhiḥ ǀ marutaḥ ǀ ā ǀ naḥ ǀ ūti-bhiḥ ǀ ganta ǀ vṛṣṭim ǀ na ǀ vi-dyutaḥ ǁ1.39.9 Aṣṭaka 1.3.19.4Anuvāka 1.8.59
-
Ṛk 10
असा॒म्योजो॑ बिभृथा सुदान॒वोऽसा॑मि धूतयः॒ शवः॑ ।
ऋ॒षि॒द्विषे॑ मरुतः परिम॒न्यव॒ इषुं॒ न सृ॑जत॒ द्विषं॑ ॥असाम्य् ओजो बिभृथा सुदानवो ऽसामि धूतयः शवः |
ऋषिद्विषे मरुतः परिमन्यव इषुं न सृजत द्विषम् ||ásāmyójo bibhṛthā sudānavó’sāmi dhūtayaḥ śávaḥ ǀ
ṛṣidvíṣe marutaḥ parimanyáva íṣum ná sṛjata dvíṣam ǁasāmy ojo bibhṛthā sudānavo 'sāmi dhūtayaḥ śavaḥ |
ṛṣidviṣe marutaḥ parimanyava iṣuṃ na sṛjata dviṣam ||असा॑मि । ओजः॑ । बि॒भृ॒थ॒ । सु॒ऽदा॒न॒वः॒ । असा॑मि । धू॒त॒यः॒ । शवः॑ ।
ऋ॒षि॒ऽद्विषे॑ । म॒रु॒तः॒ । प॒रि॒ऽम॒न्यवे॑ । इषु॑म् । न । सृ॒ज॒त॒ । द्विष॑म् ॥असामि । ओजः । बिभृथ । सुऽदानवः । असामि । धूतयः । शवः ।
ऋषिऽद्विषे । मरुतः । परिऽमन्यवे । इषुम् । न । सृजत । द्विषम् ॥ásāmi ǀ ójaḥ ǀ bibhṛtha ǀ su-dānavaḥ ǀ ásāmi ǀ dhūtayaḥ ǀ śávaḥ ǀ
ṛṣi-dvíṣe ǀ marutaḥ ǀ pari-manyáve ǀ íṣum ǀ ná ǀ sṛjata ǀ dvíṣam ǁasāmi ǀ ojaḥ ǀ bibhṛtha ǀ su-dānavaḥ ǀ asāmi ǀ dhūtayaḥ ǀ śavaḥ ǀ
ṛṣi-dviṣe ǀ marutaḥ ǀ pari-manyave ǀ iṣum ǀ na ǀ sṛjata ǀ dviṣam ǁ1.39.10 Aṣṭaka 1.3.19.5Anuvāka 1.8.60
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.