Sūkta 81
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Gotama Rāhūgaṇa
- Chandas छन्दस्
- Paṅkti
Metres by ṛk
1st set of styles virāṭpaṅkti (1, 2, 7-9); nicṛdāstārapaṅkti (3, 5); paṅktiḥ (4, 6)
2nd set of styles paṅkti
-
Ṛk 1
इंद्रो॒ मदा॑य वावृधे॒ शव॑से वृत्र॒हा नृभिः॑ ।
तमिन्म॒हत्स्वा॒जिषू॒तेमर्भे॑ हवामहे॒ स वाजे॑षु॒ प्र नो॑ऽविषत् ॥इन्द्रो मदाय वावृधे शवसे वृत्रहा नृभिः |
तम् इन् महत्स्व् आजिषूतेम् अर्भे हवामहे स वाजेषु प्र नो ऽविषत् ||índro mádāya vāvṛdhe śávase vṛtrahā́ nṛ́bhiḥ ǀ
támínmahátsvājíṣūtémárbhe havāmahe sá vā́jeṣu prá no’viṣat ǁindro madāya vāvṛdhe śavase vṛtrahā nṛbhiḥ |
tam in mahatsv ājiṣūtem arbhe havāmahe sa vājeṣu pra no 'viṣat ||इन्द्रः॑ । मदा॑य । व॒वृ॒धे॒ । शव॑से । वृ॒त्र॒ऽहा । नृऽभिः॑ ।
तम् । इत् । म॒हत्ऽसु॑ । आ॒जिषु॑ । उ॒त । ई॒म् । अर्भे॑ । ह॒वा॒म॒हे॒ । सः । वाजे॑षु । प्र । नः॒ । अ॒वि॒ष॒त् ॥इन्द्रः । मदाय । ववृधे । शवसे । वृत्रऽहा । नृऽभिः ।
तम् । इत् । महत्ऽसु । आजिषु । उत । ईम् । अर्भे । हवामहे । सः । वाजेषु । प्र । नः । अविषत् ॥índraḥ ǀ mádāya ǀ vavṛdhe ǀ śávase ǀ vṛtra-hā́ ǀ nṛ́-bhiḥ ǀ
tám ǀ ít ǀ mahát-su ǀ ājíṣu ǀ utá ǀ īm ǀ árbhe ǀ havāmahe ǀ sáḥ ǀ vā́jeṣu ǀ prá ǀ naḥ ǀ aviṣat ǁindraḥ ǀ madāya ǀ vavṛdhe ǀ śavase ǀ vṛtra-hā ǀ nṛ-bhiḥ ǀ
tam ǀ it ǀ mahat-su ǀ ājiṣu ǀ uta ǀ īm ǀ arbhe ǀ havāmahe ǀ saḥ ǀ vājeṣu ǀ pra ǀ naḥ ǀ aviṣat ǁ1.81.1 Aṣṭaka 1.6.1.0
-
Ṛk 2
असि॒ हि वी॑र॒ सेन्योऽसि॒ भूरि॑ पराद॒दिः ।
असि॑ द॒भ्रस्य॑ चिद्वृ॒धो यज॑मानाय शिक्षसि सुन्व॒ते भूरि॑ ते॒ वसु॑ ॥असि हि वीर सेन्यो ऽसि भूरि पराददिः |
असि दभ्रस्य चिद् वृधो यजमानाय शिक्षसि सुन्वते भूरि ते वसु ||ási hí vīra sényó’si bhū́ri parādadíḥ ǀ
ási dabhrásya cidvṛdhó yájamānāya śikṣasi sunvaté bhū́ri te vásu ǁasi hi vīra senyo 'si bhūri parādadiḥ |
asi dabhrasya cid vṛdho yajamānāya śikṣasi sunvate bhūri te vasu ||असि॑ । हि । वी॒र॒ । सेन्यः॑ । असि॑ । भूरि॑ । प॒रा॒ऽद॒दिः ।
असि॑ । द॒भ्रस्य॑ । चि॒त् । वृ॒धः । यज॑मानाय । शि॒क्ष॒सि॒ । सु॒न्व॒ते । भूरि॑ । ते॒ । वसु॑ ॥असि । हि । वीर । सेन्यः । असि । भूरि । पराऽददिः ।
असि । दभ्रस्य । चित् । वृधः । यजमानाय । शिक्षसि । सुन्वते । भूरि । ते । वसु ॥ási ǀ hí ǀ vīra ǀ sényaḥ ǀ ási ǀ bhū́ri ǀ parā-dadíḥ ǀ
ási ǀ dabhrásya ǀ cit ǀ vṛdháḥ ǀ yájamānāya ǀ śikṣasi ǀ sunvaté ǀ bhū́ri ǀ te ǀ vásu ǁasi ǀ hi ǀ vīra ǀ senyaḥ ǀ asi ǀ bhūri ǀ parā-dadiḥ ǀ
asi ǀ dabhrasya ǀ cit ǀ vṛdhaḥ ǀ yajamānāya ǀ śikṣasi ǀ sunvate ǀ bhūri ǀ te ǀ vasu ǁ1.81.2 Aṣṭaka 1.6.1.0
-
Ṛk 3
यदु॒दीर॑त आ॒जयो॑ धृ॒ष्णवे॑ धीयते॒ धना॑ ।
यु॒क्ष्वा म॑द॒च्युता॒ हरी॒ कं हनः॒ कं वसौ॑ दधो॒ऽस्माँ इं॑द्र॒ वसौ॑ दधः ॥यद् उदीरत आजयो धृष्णवे धीयते धना |
युक्ष्वा मदच्युता हरी कं हनः कं वसौ दधो ऽस्मां इन्द्र वसौ दधः ||yádudī́rata ājáyo dhṛṣṇáve dhīyate dhánā ǀ
yukṣvā́ madacyútā hárī kám hánaḥ kám vásau dadho’smā́m̐ indra vásau dadhaḥ ǁyad udīrata ājayo dhṛṣṇave dhīyate dhanā |
yukṣvā madacyutā harī kaṃ hanaḥ kaṃ vasau dadho 'smāṃ indra vasau dadhaḥ ||यत् । उ॒त्ऽईर॑ते । आ॒जयः॑ । धृ॒ष्णवे॑ । धी॒य॒ते॒ । धना॑ ।
यु॒क्ष्व । म॒द॒ऽच्युता॑ । हरी॒ इति॑ । कम् । हनः॑ । कम् । वसौ॑ । द॒धः॒ । अ॒स्मान् । इ॒न्द्र॒ । वसौ॑ । द॒धः॒ ॥यत् । उत्ऽईरते । आजयः । धृष्णवे । धीयते । धना ।
युक्ष्व । मदऽच्युता । हरी इति । कम् । हनः । कम् । वसौ । दधः । अस्मान् । इन्द्र । वसौ । दधः ॥yát ǀ ut-ī́rate ǀ ājáyaḥ ǀ dhṛṣṇáve ǀ dhīyate ǀ dhánā ǀ
yukṣvá ǀ mada-cyútā ǀ hárī íti ǀ kám ǀ hánaḥ ǀ kám ǀ vásau ǀ dadhaḥ ǀ asmā́n ǀ indra ǀ vásau ǀ dadhaḥ ǁyat ǀ ut-īrate ǀ ājayaḥ ǀ dhṛṣṇave ǀ dhīyate ǀ dhanā ǀ
yukṣva ǀ mada-cyutā ǀ harī iti ǀ kam ǀ hanaḥ ǀ kam ǀ vasau ǀ dadhaḥ ǀ asmān ǀ indra ǀ vasau ǀ dadhaḥ ǁ1.81.3 Aṣṭaka 1.6.1.0
-
Ṛk 4
क्रत्वा॑ म॒हाँ अ॑नुष्व॒धं भी॒म आ वा॑वृधे॒ शवः॑ ।
श्रि॒य ऋ॒ष्व उ॑पा॒कयो॒र्नि शि॒प्री हरि॑वांदधे॒ हस्त॑यो॒र्वज्र॑माय॒सं ॥क्रत्वा महां अनुष्वधम् भीम आ वावृधे शवः |
श्रिय ऋष्व उपाकयोर् नि शिप्री हरिवान् दधे हस्तयोर् वज्रम् आयसम् ||krátvā mahā́m̐ anuṣvadhám bhīmá ā́ vāvṛdhe śávaḥ ǀ
śriyá ṛṣvá upākáyorní śiprī́ hárivāndadhe hástayorvájramāyasám ǁkratvā mahāṃ anuṣvadham bhīma ā vāvṛdhe śavaḥ |
śriya ṛṣva upākayor ni śiprī harivān dadhe hastayor vajram āyasam ||क्रत्वा॑ । म॒हान् । अ॒नु॒ऽस्व॒धम् । भी॒मः । आ । व॒वृ॒धे॒ । शवः॑ ।
श्रि॒ये । ऋ॒ष्वः । उ॒पा॒कयोः॑ । नि । शि॒प्री । हरि॑ऽवान् । द॒धे॒ । हस्त॑योः । वज्र॑म् । आ॒य॒सम् ॥क्रत्वा । महान् । अनुऽस्वधम् । भीमः । आ । ववृधे । शवः ।
श्रिये । ऋष्वः । उपाकयोः । नि । शिप्री । हरिऽवान् । दधे । हस्तयोः । वज्रम् । आयसम् ॥krátvā ǀ mahā́n ǀ anu-svadhám ǀ bhīmáḥ ǀ ā́ ǀ vavṛdhe ǀ śávaḥ ǀ
śriyé ǀ ṛṣváḥ ǀ upākáyoḥ ǀ ní ǀ śiprī́ ǀ hári-vān ǀ dadhe ǀ hástayoḥ ǀ vájram ǀ āyasám ǁkratvā ǀ mahān ǀ anu-svadham ǀ bhīmaḥ ǀ ā ǀ vavṛdhe ǀ śavaḥ ǀ
śriye ǀ ṛṣvaḥ ǀ upākayoḥ ǀ ni ǀ śiprī ǀ hari-vān ǀ dadhe ǀ hastayoḥ ǀ vajram ǀ āyasam ǁ1.81.4 Aṣṭaka 1.6.1.0
-
Ṛk 5
आ प॑प्रौ॒ पार्थि॑वं॒ रजो॑ बद्ब॒धे रो॑च॒ना दि॒वि ।
न त्वावाँ॑ इंद्र॒ कश्च॒न न जा॒तो न ज॑निष्य॒तेऽति॒ विश्वं॑ ववक्षिथ ॥आ पप्रौ पार्थिवं रजो बद्बधे रोचना दिवि |
न त्वावां इन्द्र कश् चन न जातो न जनिष्यते ऽति विश्वं ववक्षिथ ||ā́ paprau pā́rthivam rájo badbadhé rocanā́ diví ǀ
ná tvā́vām̐ indra káścaná ná jātó ná janiṣyaté’ti víśvam vavakṣitha ǁā paprau pārthivaṃ rajo badbadhe rocanā divi |
na tvāvāṃ indra kaś cana na jāto na janiṣyate 'ti viśvaṃ vavakṣitha ||आ । प॒प्रौ॒ । पार्थि॑वम् । रजः॑ । ब॒द्ब॒धे । रो॒च॒ना । दि॒वि ।
न । त्वाऽवा॑न् । इ॒न्द्र॒ । कः । च॒न । न । जा॒तः । न । ज॒नि॒ष्य॒ते॒ । अति॑ । विश्व॑म् । व॒व॒क्षि॒थ॒ ॥आ । पप्रौ । पार्थिवम् । रजः । बद्बधे । रोचना । दिवि ।
न । त्वाऽवान् । इन्द्र । कः । चन । न । जातः । न । जनिष्यते । अति । विश्वम् । ववक्षिथ ॥ā́ ǀ paprau ǀ pā́rthivam ǀ rájaḥ ǀ badbadhé ǀ rocanā́ ǀ diví ǀ
ná ǀ tvā́-vān ǀ indra ǀ káḥ ǀ caná ǀ ná ǀ jātáḥ ǀ ná ǀ janiṣyate ǀ áti ǀ víśvam ǀ vavakṣitha ǁā ǀ paprau ǀ pārthivam ǀ rajaḥ ǀ badbadhe ǀ rocanā ǀ divi ǀ
na ǀ tvā-vān ǀ indra ǀ kaḥ ǀ cana ǀ na ǀ jātaḥ ǀ na ǀ janiṣyate ǀ ati ǀ viśvam ǀ vavakṣitha ǁ1.81.5 Aṣṭaka 1.6.1.0
-
Ṛk 6
यो अ॒र्यो म॑र्त॒भोज॑नं परा॒ददा॑ति दा॒शुषे॑ ।
इंद्रो॑ अ॒स्मभ्यं॑ शिक्षतु॒ वि भ॑जा॒ भूरि॑ ते॒ वसु॑ भक्षी॒य तव॒ राध॑सः ॥यो अर्यो मर्तभोजनम् पराददाति दाशुषे |
इन्द्रो अस्मभ्यं शिक्षतु वि भजा भूरि ते वसु भक्षीय तव राधसः ||yó aryó martabhójanam parādádāti dāśúṣe ǀ
índro asmábhyam śikṣatu ví bhajā bhū́ri te vásu bhakṣīyá táva rā́dhasaḥ ǁyo aryo martabhojanam parādadāti dāśuṣe |
indro asmabhyaṃ śikṣatu vi bhajā bhūri te vasu bhakṣīya tava rādhasaḥ ||यः । अ॒र्यः । म॒र्त॒ऽभोज॑नम् । प॒रा॒ऽददा॑ति । दा॒शुषे॑ ।
इन्द्रः॑ । अ॒स्मभ्य॑म् । शि॒क्ष॒तु॒ । वि । भ॒ज॒ । भूरि॑ । ते॒ । वसु॑ । भ॒क्षी॒य । तव॑ । राध॑सः ॥यः । अर्यः । मर्तऽभोजनम् । पराऽददाति । दाशुषे ।
इन्द्रः । अस्मभ्यम् । शिक्षतु । वि । भज । भूरि । ते । वसु । भक्षीय । तव । राधसः ॥yáḥ ǀ aryáḥ ǀ marta-bhójanam ǀ parā-dádāti ǀ dāśúṣe ǀ
índraḥ ǀ asmábhyam ǀ śikṣatu ǀ ví ǀ bhaja ǀ bhū́ri ǀ te ǀ vásu ǀ bhakṣīyá ǀ táva ǀ rā́dhasaḥ ǁyaḥ ǀ aryaḥ ǀ marta-bhojanam ǀ parā-dadāti ǀ dāśuṣe ǀ
indraḥ ǀ asmabhyam ǀ śikṣatu ǀ vi ǀ bhaja ǀ bhūri ǀ te ǀ vasu ǀ bhakṣīya ǀ tava ǀ rādhasaḥ ǁ1.81.6 Aṣṭaka 1.6.2.0
-
Ṛk 7
मदे॑मदे॒ हि नो॑ द॒दिर्यू॒था गवा॑मृजु॒क्रतुः॑ ।
सं गृ॑भाय पु॒रू श॒तोभ॑याह॒स्त्या वसु॑ शिशी॒हि रा॒य आ भ॑र ॥मदे-मदे हि नो ददिर् यूथा गवाम् ऋजुक्रतुः |
सं गृभाय पुरू शतोभयाहस्त्या वसु शिशीहि राय आ भर ||mádemade hí no dadíryūthā́ gávāmṛjukrátuḥ ǀ
sám gṛbhāya purū́ śatóbhayāhastyā́ vásu śiśīhí rāyá ā́ bhara ǁmade-made hi no dadir yūthā gavām ṛjukratuḥ |
saṃ gṛbhāya purū śatobhayāhastyā vasu śiśīhi rāya ā bhara ||मदे॑ऽमदे । हि । नः॒ । द॒दिः । यू॒था । गवा॑म् । ऋ॒जु॒ऽक्रतुः॑ ।
सम् । गृ॒भा॒य॒ । पु॒रु । श॒ता । उ॒भ॒या॒ह॒स्त्या । वसु॑ । शि॒शी॒हि । रा॒यः । आ । भ॒र॒ ॥मदेऽमदे । हि । नः । ददिः । यूथा । गवाम् । ऋजुऽक्रतुः ।
सम् । गृभाय । पुरु । शता । उभयाहस्त्या । वसु । शिशीहि । रायः । आ । भर ॥máde-made ǀ hí ǀ naḥ ǀ dadíḥ ǀ yūthā́ ǀ gávām ǀ ṛju-krátuḥ ǀ
sám ǀ gṛbhāya ǀ purú ǀ śatā́ ǀ ubhayāhastyā́ ǀ vásu ǀ śiśīhí ǀ rāyáḥ ǀ ā́ ǀ bhara ǁmade-made ǀ hi ǀ naḥ ǀ dadiḥ ǀ yūthā ǀ gavām ǀ ṛju-kratuḥ ǀ
sam ǀ gṛbhāya ǀ puru ǀ śatā ǀ ubhayāhastyā ǀ vasu ǀ śiśīhi ǀ rāyaḥ ǀ ā ǀ bhara ǁ1.81.7 Aṣṭaka 1.6.2.0
-
Ṛk 8
मा॒दय॑स्व सु॒ते सचा॒ शव॑से शूर॒ राध॑से ।
वि॒द्मा हि त्वा॑ पुरू॒वसु॒मुप॒ कामा॑न्त्ससृ॒ज्महेऽथा॑ नोऽवि॒ता भ॑व ॥मादयस्व सुते सचा शवसे शूर राधसे |
विद्मा हि त्वा पुरूवसुम् उप कामान् ससृज्महे ऽथा नो ऽविता भव ||mādáyasva suté sácā śávase śūra rā́dhase ǀ
vidmā́ hí tvā purūvásumúpa kā́māntsasṛjmáhé’thā no’vitā́ bhava ǁmādayasva sute sacā śavase śūra rādhase |
vidmā hi tvā purūvasum upa kāmān sasṛjmahe 'thā no 'vitā bhava ||मा॒दय॑स्व । सु॒ते । सचा॑ । शव॑से । शू॒र॒ । राध॑से ।
वि॒द्म । हि । त्वा॒ । पु॒रु॒ऽवसु॑म् । उप॑ । कामा॑न् । स॒सृ॒ज्महे॑ । अथ॑ । नः॒ । अ॒वि॒ता । भ॒व॒ ॥मादयस्व । सुते । सचा । शवसे । शूर । राधसे ।
विद्म । हि । त्वा । पुरुऽवसुम् । उप । कामान् । ससृज्महे । अथ । नः । अविता । भव ॥mādáyasva ǀ suté ǀ sácā ǀ śávase ǀ śūra ǀ rā́dhase ǀ
vidmá ǀ hí ǀ tvā ǀ puru-vásum ǀ úpa ǀ kā́mān ǀ sasṛjmáhe ǀ átha ǀ naḥ ǀ avitā́ ǀ bhava ǁmādayasva ǀ sute ǀ sacā ǀ śavase ǀ śūra ǀ rādhase ǀ
vidma ǀ hi ǀ tvā ǀ puru-vasum ǀ upa ǀ kāmān ǀ sasṛjmahe ǀ atha ǀ naḥ ǀ avitā ǀ bhava ǁ1.81.8 Aṣṭaka 1.6.2.0
-
Ṛk 9
ए॒ते त॑ इंद्र जं॒तवो॒ विश्वं॑ पुष्यंति॒ वार्यं॑ ।
अं॒तर्हि ख्यो जना॑नाम॒र्यो वेदो॒ अदा॑शुषां॒ तेषां॑ नो॒ वेद॒ आ भ॑र ॥एते त इन्द्र जन्तवो विश्वम् पुष्यन्ति वार्यम् |
अन्तर् हि ख्यो जनानाम् अर्यो वेदो अदाशुषां तेषां नो वेद आ भर ||eté ta indra jantávo víśvam puṣyanti vā́ryam ǀ
antárhí khyó jánānāmaryó védo ádāśuṣām téṣām no véda ā́ bhara ǁete ta indra jantavo viśvam puṣyanti vāryam |
antar hi khyo janānām aryo vedo adāśuṣāṃ teṣāṃ no veda ā bhara ||ए॒ते । ते॒ । इ॒न्द्र॒ । ज॒न्तवः॑ । विश्व॑म् । पु॒ष्य॒न्ति॒ । वार्य॑म् ।
अ॒न्तः । हि । ख्यः । जना॑नाम् । अ॒र्यः । वेदः॑ । अदा॑शुषाम् । तेषा॑म् । नः॒ । वेदः॑ । आ । भ॒र॒ ॥एते । ते । इन्द्र । जन्तवः । विश्वम् । पुष्यन्ति । वार्यम् ।
अन्तः । हि । ख्यः । जनानाम् । अर्यः । वेदः । अदाशुषाम् । तेषाम् । नः । वेदः । आ । भर ॥eté ǀ te ǀ indra ǀ jantávaḥ ǀ víśvam ǀ puṣyanti ǀ vā́ryam ǀ
antáḥ ǀ hí ǀ khyáḥ ǀ jánānām ǀ aryáḥ ǀ védaḥ ǀ ádāśuṣām ǀ téṣām ǀ naḥ ǀ védaḥ ǀ ā́ ǀ bhara ǁete ǀ te ǀ indra ǀ jantavaḥ ǀ viśvam ǀ puṣyanti ǀ vāryam ǀ
antaḥ ǀ hi ǀ khyaḥ ǀ janānām ǀ aryaḥ ǀ vedaḥ ǀ adāśuṣām ǀ teṣām ǀ naḥ ǀ vedaḥ ǀ ā ǀ bhara ǁ1.81.9 Aṣṭaka 1.6.2.0
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.