Ṛk 1.81.1
Saṃhitā
इंद्रो॒ मदा॑य वावृधे॒ शव॑से वृत्र॒हा नृभिः॑ ।
तमिन्म॒हत्स्वा॒जिषू॒तेमर्भे॑ हवामहे॒ स वाजे॑षु॒ प्र नो॑ऽविषत् ॥
इन्द्रो मदाय वावृधे शवसे वृत्रहा नृभिः |
तम् इन् महत्स्व् आजिषूतेम् अर्भे हवामहे स वाजेषु प्र नो ऽविषत् ||
índro mádāya vāvṛdhe śávase vṛtrahā́ nṛ́bhiḥ ǀ
támínmahátsvājíṣūtémárbhe havāmahe sá vā́jeṣu prá no’viṣat ǁ
indro madāya vāvṛdhe śavase vṛtrahā nṛbhiḥ |
tam in mahatsv ājiṣūtem arbhe havāmahe sa vājeṣu pra no 'viṣat ||
Padapāṭha
इन्द्रः॑ । मदा॑य । व॒वृ॒धे॒ । शव॑से । वृ॒त्र॒ऽहा । नृऽभिः॑ ।
तम् । इत् । म॒हत्ऽसु॑ । आ॒जिषु॑ । उ॒त । ई॒म् । अर्भे॑ । ह॒वा॒म॒हे॒ । सः । वाजे॑षु । प्र । नः॒ । अ॒वि॒ष॒त् ॥
इन्द्रः । मदाय । ववृधे । शवसे । वृत्रऽहा । नृऽभिः ।
तम् । इत् । महत्ऽसु । आजिषु । उत । ईम् । अर्भे । हवामहे । सः । वाजेषु । प्र । नः । अविषत् ॥
índraḥ ǀ mádāya ǀ vavṛdhe ǀ śávase ǀ vṛtra-hā́ ǀ nṛ́-bhiḥ ǀ
tám ǀ ít ǀ mahát-su ǀ ājíṣu ǀ utá ǀ īm ǀ árbhe ǀ havāmahe ǀ sáḥ ǀ vā́jeṣu ǀ prá ǀ naḥ ǀ aviṣat ǁ
indraḥ ǀ madāya ǀ vavṛdhe ǀ śavase ǀ vṛtra-hā ǀ nṛ-bhiḥ ǀ
tam ǀ it ǀ mahat-su ǀ ājiṣu ǀ uta ǀ īm ǀ arbhe ǀ havāmahe ǀ saḥ ǀ vājeṣu ǀ pra ǀ naḥ ǀ aviṣat ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.081.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.6.01.00
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Gotama Rāhūgaṇa
- Chandas छन्दस्
- Paṅkti
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.