Ṛk 1.81.4
Saṃhitā
क्रत्वा॑ म॒हाँ अ॑नुष्व॒धं भी॒म आ वा॑वृधे॒ शवः॑ ।
श्रि॒य ऋ॒ष्व उ॑पा॒कयो॒र्नि शि॒प्री हरि॑वांदधे॒ हस्त॑यो॒र्वज्र॑माय॒सं ॥
क्रत्वा महां अनुष्वधम् भीम आ वावृधे शवः |
श्रिय ऋष्व उपाकयोर् नि शिप्री हरिवान् दधे हस्तयोर् वज्रम् आयसम् ||
krátvā mahā́m̐ anuṣvadhám bhīmá ā́ vāvṛdhe śávaḥ ǀ
śriyá ṛṣvá upākáyorní śiprī́ hárivāndadhe hástayorvájramāyasám ǁ
kratvā mahāṃ anuṣvadham bhīma ā vāvṛdhe śavaḥ |
śriya ṛṣva upākayor ni śiprī harivān dadhe hastayor vajram āyasam ||
Padapāṭha
क्रत्वा॑ । म॒हान् । अ॒नु॒ऽस्व॒धम् । भी॒मः । आ । व॒वृ॒धे॒ । शवः॑ ।
श्रि॒ये । ऋ॒ष्वः । उ॒पा॒कयोः॑ । नि । शि॒प्री । हरि॑ऽवान् । द॒धे॒ । हस्त॑योः । वज्र॑म् । आ॒य॒सम् ॥
क्रत्वा । महान् । अनुऽस्वधम् । भीमः । आ । ववृधे । शवः ।
श्रिये । ऋष्वः । उपाकयोः । नि । शिप्री । हरिऽवान् । दधे । हस्तयोः । वज्रम् । आयसम् ॥
krátvā ǀ mahā́n ǀ anu-svadhám ǀ bhīmáḥ ǀ ā́ ǀ vavṛdhe ǀ śávaḥ ǀ
śriyé ǀ ṛṣváḥ ǀ upākáyoḥ ǀ ní ǀ śiprī́ ǀ hári-vān ǀ dadhe ǀ hástayoḥ ǀ vájram ǀ āyasám ǁ
kratvā ǀ mahān ǀ anu-svadham ǀ bhīmaḥ ǀ ā ǀ vavṛdhe ǀ śavaḥ ǀ
śriye ǀ ṛṣvaḥ ǀ upākayoḥ ǀ ni ǀ śiprī ǀ hari-vān ǀ dadhe ǀ hastayoḥ ǀ vajram ǀ āyasam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.081.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.6.01.00
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Gotama Rāhūgaṇa
- Chandas छन्दस्
- Paṅkti
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.