Ṛk 1.81.5
Saṃhitā
आ प॑प्रौ॒ पार्थि॑वं॒ रजो॑ बद्ब॒धे रो॑च॒ना दि॒वि ।
न त्वावाँ॑ इंद्र॒ कश्च॒न न जा॒तो न ज॑निष्य॒तेऽति॒ विश्वं॑ ववक्षिथ ॥
आ पप्रौ पार्थिवं रजो बद्बधे रोचना दिवि |
न त्वावां इन्द्र कश् चन न जातो न जनिष्यते ऽति विश्वं ववक्षिथ ||
ā́ paprau pā́rthivam rájo badbadhé rocanā́ diví ǀ
ná tvā́vām̐ indra káścaná ná jātó ná janiṣyaté’ti víśvam vavakṣitha ǁ
ā paprau pārthivaṃ rajo badbadhe rocanā divi |
na tvāvāṃ indra kaś cana na jāto na janiṣyate 'ti viśvaṃ vavakṣitha ||
Padapāṭha
आ । प॒प्रौ॒ । पार्थि॑वम् । रजः॑ । ब॒द्ब॒धे । रो॒च॒ना । दि॒वि ।
न । त्वाऽवा॑न् । इ॒न्द्र॒ । कः । च॒न । न । जा॒तः । न । ज॒नि॒ष्य॒ते॒ । अति॑ । विश्व॑म् । व॒व॒क्षि॒थ॒ ॥
आ । पप्रौ । पार्थिवम् । रजः । बद्बधे । रोचना । दिवि ।
न । त्वाऽवान् । इन्द्र । कः । चन । न । जातः । न । जनिष्यते । अति । विश्वम् । ववक्षिथ ॥
ā́ ǀ paprau ǀ pā́rthivam ǀ rájaḥ ǀ badbadhé ǀ rocanā́ ǀ diví ǀ
ná ǀ tvā́-vān ǀ indra ǀ káḥ ǀ caná ǀ ná ǀ jātáḥ ǀ ná ǀ janiṣyate ǀ áti ǀ víśvam ǀ vavakṣitha ǁ
ā ǀ paprau ǀ pārthivam ǀ rajaḥ ǀ badbadhe ǀ rocanā ǀ divi ǀ
na ǀ tvā-vān ǀ indra ǀ kaḥ ǀ cana ǀ na ǀ jātaḥ ǀ na ǀ janiṣyate ǀ ati ǀ viśvam ǀ vavakṣitha ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.081.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.6.01.00
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Gotama Rāhūgaṇa
- Chandas छन्दस्
- Paṅkti
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.