Sūkta 106
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Kutsa Āṅgirasa
- Chandas छन्दस्
- Jagatī, Triṣṭubh
Metres by ṛk
1st set of styles jagatī (1-6); nicṛttriṣṭup (7)
2nd set of styles jagatī (1-6); triṣṭubh (7)
-
Ṛk 1
इंद्रं॑ मि॒त्रं वरु॑णम॒ग्निमू॒तये॒ मारु॑तं॒ शर्धो॒ अदि॑तिं हवामहे ।
रथं॒ न दु॒र्गाद्व॑सवः सुदानवो॒ विश्व॑स्मान्नो॒ अंह॑सो॒ निष्पि॑पर्तन ॥इन्द्रम् मित्रं वरुणम् अग्निम् ऊतये मारुतं शर्धो अदितिं हवामहे |
रथं न दुर्गाद् वसवः सुदानवो विश्वस्मान् नो अंहसो निष् पिपर्तन ||índram mitrám váruṇamagnímūtáye mā́rutam śárdho áditim havāmahe ǀ
rátham ná durgā́dvasavaḥ sudānavo víśvasmānno áṃhaso níṣpipartana ǁindram mitraṃ varuṇam agnim ūtaye mārutaṃ śardho aditiṃ havāmahe |
rathaṃ na durgād vasavaḥ sudānavo viśvasmān no aṃhaso niṣ pipartana ||इन्द्र॑म् । मि॒त्रम् । वरु॑णम् । अ॒ग्निम् । ऊ॒तये॑ । मारु॑तम् । शर्धः॑ । अदि॑तिम् । ह॒वा॒म॒हे॒ ।
रथ॑म् । न । दुः॒ऽगात् । व॒स॒वः॒ । सु॒ऽदा॒न॒वः॒ । विश्व॑स्मात् । नः॒ । अंह॑सः । निः । पि॒प॒र्त॒न॒ ॥इन्द्रम् । मित्रम् । वरुणम् । अग्निम् । ऊतये । मारुतम् । शर्धः । अदितिम् । हवामहे ।
रथम् । न । दुःऽगात् । वसवः । सुऽदानवः । विश्वस्मात् । नः । अंहसः । निः । पिपर्तन ॥índram ǀ mitrám ǀ váruṇam ǀ agním ǀ ūtáye ǀ mā́rutam ǀ śárdhaḥ ǀ áditim ǀ havāmahe ǀ
rátham ǀ ná ǀ duḥ-gā́t ǀ vasavaḥ ǀ su-dānavaḥ ǀ víśvasmāt ǀ naḥ ǀ áṃhasaḥ ǀ níḥ ǀ pipartana ǁindram ǀ mitram ǀ varuṇam ǀ agnim ǀ ūtaye ǀ mārutam ǀ śardhaḥ ǀ aditim ǀ havāmahe ǀ
ratham ǀ na ǀ duḥ-gāt ǀ vasavaḥ ǀ su-dānavaḥ ǀ viśvasmāt ǀ naḥ ǀ aṃhasaḥ ǀ niḥ ǀ pipartana ǁ1.106.1 Aṣṭaka 1.7.24.1Anuvāka 1.16.1
-
Ṛk 2
त आ॑दित्या॒ आ ग॑ता स॒र्वता॑तये भू॒त दे॑वा वृत्र॒तूर्ये॑षु शं॒भुवः॑ ।
रथं॒ न दु॒र्गाद्व॑सवः सुदानवो॒ विश्व॑स्मान्नो॒ अंह॑सो॒ निष्पि॑पर्तन ॥त आदित्या आ गता सर्वतातये भूत देवा वृत्रतूर्येषु शम्भुवः |
रथं न दुर्गाद् वसवः सुदानवो विश्वस्मान् नो अंहसो निष् पिपर्तन ||tá ādityā ā́ gatā sarvátātaye bhūtá devā vṛtratū́ryeṣu śambhúvaḥ ǀ
rátham ná durgā́dvasavaḥ sudānavo víśvasmānno áṃhaso níṣpipartana ǁta ādityā ā gatā sarvatātaye bhūta devā vṛtratūryeṣu śambhuvaḥ |
rathaṃ na durgād vasavaḥ sudānavo viśvasmān no aṃhaso niṣ pipartana ||ते । आ॒दि॒त्याः॒ । आ । ग॒त॒ । स॒र्वऽता॑तये । भू॒त । दे॒वाः॒ । वृ॒त्र॒ऽतूर्ये॑षु । श॒म्ऽभुवः॑ ।
रथ॑म् । न । दुः॒ऽगात् । व॒स॒वः॒ । सु॒ऽदा॒न॒वः॒ । विश्व॑स्मात् । नः॒ । अंह॑सः । निः । पि॒प॒र्त॒न॒ ॥ते । आदित्याः । आ । गत । सर्वऽतातये । भूत । देवाः । वृत्रऽतूर्येषु । शम्ऽभुवः ।
रथम् । न । दुःऽगात् । वसवः । सुऽदानवः । विश्वस्मात् । नः । अंहसः । निः । पिपर्तन ॥té ǀ ādityāḥ ǀ ā́ ǀ gata ǀ sarvá-tātaye ǀ bhūtá ǀ devāḥ ǀ vṛtra-tū́ryeṣu ǀ śam-bhúvaḥ ǀ
rátham ǀ ná ǀ duḥ-gā́t ǀ vasavaḥ ǀ su-dānavaḥ ǀ víśvasmāt ǀ naḥ ǀ áṃhasaḥ ǀ níḥ ǀ pipartana ǁte ǀ ādityāḥ ǀ ā ǀ gata ǀ sarva-tātaye ǀ bhūta ǀ devāḥ ǀ vṛtra-tūryeṣu ǀ śam-bhuvaḥ ǀ
ratham ǀ na ǀ duḥ-gāt ǀ vasavaḥ ǀ su-dānavaḥ ǀ viśvasmāt ǀ naḥ ǀ aṃhasaḥ ǀ niḥ ǀ pipartana ǁ1.106.2 Aṣṭaka 1.7.24.2Anuvāka 1.16.2
-
Ṛk 3
अवं॑तु नः पि॒तरः॑ सुप्रवाच॒ना उ॒त दे॒वी दे॒वपु॑त्रे ऋता॒वृधा॑ ।
रथं॒ न दु॒र्गाद्व॑सवः सुदानवो॒ विश्व॑स्मान्नो॒ अंह॑सो॒ निष्पि॑पर्तन ॥अवन्तु नः पितरः सुप्रवाचना उत देवी देवपुत्रे ऋतावृधा |
रथं न दुर्गाद् वसवः सुदानवो विश्वस्मान् नो अंहसो निष् पिपर्तन ||ávantu naḥ pitáraḥ supravācanā́ utá devī́ deváputre ṛtāvṛ́dhā ǀ
rátham ná durgā́dvasavaḥ sudānavo víśvasmānno áṃhaso níṣpipartana ǁavantu naḥ pitaraḥ supravācanā uta devī devaputre ṛtāvṛdhā |
rathaṃ na durgād vasavaḥ sudānavo viśvasmān no aṃhaso niṣ pipartana ||अव॑न्तु । नः॒ । पि॒तरः॑ । सु॒ऽप्र॒वा॒च॒नाः । उ॒त । दे॒वी इति॑ । दे॒वपु॑त्रे॒ इति॑ दे॒वऽपु॑त्रे । ऋ॒त॒ऽवृधा॑ ।
रथ॑म् । न । दुः॒ऽगात् । व॒स॒वः॒ । सु॒ऽदा॒न॒वः॒ । विश्व॑स्मात् । नः॒ । अंह॑सः । निः । पि॒प॒र्त॒न॒ ॥अवन्तु । नः । पितरः । सुऽप्रवाचनाः । उत । देवी इति । देवपुत्रे इति देवऽपुत्रे । ऋतऽवृधा ।
रथम् । न । दुःऽगात् । वसवः । सुऽदानवः । विश्वस्मात् । नः । अंहसः । निः । पिपर्तन ॥ávantu ǀ naḥ ǀ pitáraḥ ǀ su-pravācanā́ḥ ǀ utá ǀ devī́ íti ǀ deváputre íti devá-putre ǀ ṛta-vṛ́dhā ǀ
rátham ǀ ná ǀ duḥ-gā́t ǀ vasavaḥ ǀ su-dānavaḥ ǀ víśvasmāt ǀ naḥ ǀ áṃhasaḥ ǀ níḥ ǀ pipartana ǁavantu ǀ naḥ ǀ pitaraḥ ǀ su-pravācanāḥ ǀ uta ǀ devī iti ǀ devaputre iti deva-putre ǀ ṛta-vṛdhā ǀ
ratham ǀ na ǀ duḥ-gāt ǀ vasavaḥ ǀ su-dānavaḥ ǀ viśvasmāt ǀ naḥ ǀ aṃhasaḥ ǀ niḥ ǀ pipartana ǁ1.106.3 Aṣṭaka 1.7.24.3Anuvāka 1.16.3
-
Ṛk 4
नरा॒शंसं॑ वा॒जिनं॑ वा॒जय॑न्नि॒ह क्ष॒यद्वी॑रं पू॒षणं॑ सु॒म्नैरी॑महे ।
रथं॒ न दु॒र्गाद्व॑सवः सुदानवो॒ विश्व॑स्मान्नो॒ अंह॑सो॒ निष्पि॑पर्तन ॥नराशंसं वाजिनं वाजयन्न् इह क्षयद्वीरम् पूषणं सुम्नैर् ईमहे |
रथं न दुर्गाद् वसवः सुदानवो विश्वस्मान् नो अंहसो निष् पिपर्तन ||nárāśáṃsam vājínam vājáyannihá kṣayádvīram pūṣáṇam sumnáirīmahe ǀ
rátham ná durgā́dvasavaḥ sudānavo víśvasmānno áṃhaso níṣpipartana ǁnarāśaṃsaṃ vājinaṃ vājayann iha kṣayadvīram pūṣaṇaṃ sumnair īmahe |
rathaṃ na durgād vasavaḥ sudānavo viśvasmān no aṃhaso niṣ pipartana ||नरा॒शंस॑म् । वा॒जिन॑म् । वा॒जय॑न् । इ॒ह । क्ष॒यत्ऽवी॑रम् । पू॒षण॑म् । सु॒म्नैः । ई॒म॒हे॒ ।
रथ॑म् । न । दुः॒ऽगात् । व॒स॒वः॒ । सु॒ऽदा॒न॒वः॒ । विश्व॑स्मात् । नः॒ । अंह॑सः । निः । पि॒प॒र्त॒न॒ ॥नराशंसम् । वाजिनम् । वाजयन् । इह । क्षयत्ऽवीरम् । पूषणम् । सुम्नैः । ईमहे ।
रथम् । न । दुःऽगात् । वसवः । सुऽदानवः । विश्वस्मात् । नः । अंहसः । निः । पिपर्तन ॥nárāśáṃsam ǀ vājínam ǀ vājáyan ǀ ihá ǀ kṣayát-vīram ǀ pūṣáṇam ǀ sumnáiḥ ǀ īmahe ǀ
rátham ǀ ná ǀ duḥ-gā́t ǀ vasavaḥ ǀ su-dānavaḥ ǀ víśvasmāt ǀ naḥ ǀ áṃhasaḥ ǀ níḥ ǀ pipartana ǁnarāśaṃsam ǀ vājinam ǀ vājayan ǀ iha ǀ kṣayat-vīram ǀ pūṣaṇam ǀ sumnaiḥ ǀ īmahe ǀ
ratham ǀ na ǀ duḥ-gāt ǀ vasavaḥ ǀ su-dānavaḥ ǀ viśvasmāt ǀ naḥ ǀ aṃhasaḥ ǀ niḥ ǀ pipartana ǁ1.106.4 Aṣṭaka 1.7.24.4Anuvāka 1.16.4
-
Ṛk 5
बृह॑स्पते॒ सद॒मिन्नः॑ सु॒गं कृ॑धि॒ शं योर्यत्ते॒ मनु॑र्हितं॒ तदी॑महे ।
रथं॒ न दु॒र्गाद्व॑सवः सुदानवो॒ विश्व॑स्मान्नो॒ अंह॑सो॒ निष्पि॑पर्तन ॥बृहस्पते सदम् इन् नः सुगं कृधि शं योर् यत् ते मनुर्हितं तद् ईमहे |
रथं न दुर्गाद् वसवः सुदानवो विश्वस्मान् नो अंहसो निष् पिपर्तन ||bṛ́haspate sádamínnaḥ sugám kṛdhi śám yóryátte mánurhitam tádīmahe ǀ
rátham ná durgā́dvasavaḥ sudānavo víśvasmānno áṃhaso níṣpipartana ǁbṛhaspate sadam in naḥ sugaṃ kṛdhi śaṃ yor yat te manurhitaṃ tad īmahe |
rathaṃ na durgād vasavaḥ sudānavo viśvasmān no aṃhaso niṣ pipartana ||बृह॑स्पते । सद॑म् । इत् । नः॒ । सु॒ऽगम् । कृ॒धि॒ । शम् । योः । यत् । ते॒ । मनुः॑ऽहितम् । तत् । ई॒म॒हे॒ ।
रथ॑म् । न । दुः॒ऽगात् । व॒स॒वः॒ । सु॒ऽदा॒न॒वः॒ । विश्व॑स्मात् । नः॒ । अंह॑सः । निः । पि॒प॒र्त॒न॒ ॥बृहस्पते । सदम् । इत् । नः । सुऽगम् । कृधि । शम् । योः । यत् । ते । मनुःऽहितम् । तत् । ईमहे ।
रथम् । न । दुःऽगात् । वसवः । सुऽदानवः । विश्वस्मात् । नः । अंहसः । निः । पिपर्तन ॥bṛ́haspate ǀ sádam ǀ ít ǀ naḥ ǀ su-gám ǀ kṛdhi ǀ śám ǀ yóḥ ǀ yát ǀ te ǀ mánuḥ-hitam ǀ tát ǀ īmahe ǀ
rátham ǀ ná ǀ duḥ-gā́t ǀ vasavaḥ ǀ su-dānavaḥ ǀ víśvasmāt ǀ naḥ ǀ áṃhasaḥ ǀ níḥ ǀ pipartana ǁbṛhaspate ǀ sadam ǀ it ǀ naḥ ǀ su-gam ǀ kṛdhi ǀ śam ǀ yoḥ ǀ yat ǀ te ǀ manuḥ-hitam ǀ tat ǀ īmahe ǀ
ratham ǀ na ǀ duḥ-gāt ǀ vasavaḥ ǀ su-dānavaḥ ǀ viśvasmāt ǀ naḥ ǀ aṃhasaḥ ǀ niḥ ǀ pipartana ǁ1.106.5 Aṣṭaka 1.7.24.5Anuvāka 1.16.5
-
Ṛk 6
इंद्रं॒ कुत्सो॑ वृत्र॒हणं॒ शची॒पतिं॑ का॒टे निबा॑ळ्ह॒ ऋषि॑रह्वदू॒तये॑ ।
रथं॒ न दु॒र्गाद्व॑सवः सुदानवो॒ विश्व॑स्मान्नो॒ अंह॑सो॒ निष्पि॑पर्तन ॥इन्द्रं कुत्सो वृत्रहणं शचीपतिं काटे निबाऌह ऋषिर् अह्वद् ऊतये |
रथं न दुर्गाद् वसवः सुदानवो विश्वस्मान् नो अंहसो निष् पिपर्तन ||índram kútso vṛtraháṇam śácīpátim kāṭé níbāḷha ṛ́ṣirahvadūtáye ǀ
rátham ná durgā́dvasavaḥ sudānavo víśvasmānno áṃhaso níṣpipartana ǁindraṃ kutso vṛtrahaṇaṃ śacīpatiṃ kāṭe nibāḷha ṛṣir ahvad ūtaye |
rathaṃ na durgād vasavaḥ sudānavo viśvasmān no aṃhaso niṣ pipartana ||इन्द्र॑म् । कुत्सः॑ । वृ॒त्र॒ऽहन॑म् । शची॒३॒॑ऽपति॑म् । का॒टे । निऽबा॑ळ्हः । ऋषिः॑ । अ॒ह्व॒त् । ऊ॒तये॑ ।
रथ॑म् । न । दुः॒ऽगात् । व॒स॒वः॒ । सु॒ऽदा॒न॒वः॒ । विश्व॑स्मात् । नः॒ । अंह॑सः । निः । पि॒प॒र्त॒न॒ ॥इन्द्रम् । कुत्सः । वृत्रऽहनम् । शचीऽपतिम् । काटे । निऽबाळ्हः । ऋषिः । अह्वत् । ऊतये ।
रथम् । न । दुःऽगात् । वसवः । सुऽदानवः । विश्वस्मात् । नः । अंहसः । निः । पिपर्तन ॥índram ǀ kútsaḥ ǀ vṛtra-hánam ǀ śacī́-pátim ǀ kāṭé ǀ ní-bāḷhaḥ ǀ ṛ́ṣiḥ ǀ ahvat ǀ ūtáye ǀ
rátham ǀ ná ǀ duḥ-gā́t ǀ vasavaḥ ǀ su-dānavaḥ ǀ víśvasmāt ǀ naḥ ǀ áṃhasaḥ ǀ níḥ ǀ pipartana ǁindram ǀ kutsaḥ ǀ vṛtra-hanam ǀ śacī-patim ǀ kāṭe ǀ ni-bāḷhaḥ ǀ ṛṣiḥ ǀ ahvat ǀ ūtaye ǀ
ratham ǀ na ǀ duḥ-gāt ǀ vasavaḥ ǀ su-dānavaḥ ǀ viśvasmāt ǀ naḥ ǀ aṃhasaḥ ǀ niḥ ǀ pipartana ǁ1.106.6 Aṣṭaka 1.7.24.6Anuvāka 1.16.6
-
Ṛk 7
दे॒वैर्नो॑ दे॒व्यदि॑ति॒र्नि पा॑तु दे॒वस्त्रा॒ता त्रा॑यता॒मप्र॑युच्छन् ।
तन्नो॑ मि॒त्रो वरु॑णो मामहंता॒मदि॑तिः॒ सिंधुः॑ पृथि॒वी उ॒त द्यौः ॥देवैर् नो देव्य् अदितिर् नि पातु देवस् त्राता त्रायताम् अप्रयुच्छन् |
तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ||deváirno devyáditirní pātu devástrātā́ trāyatāmáprayucchan ǀ
tánno mitró váruṇo māmahantāmáditiḥ síndhuḥ pṛthivī́ utá dyáuḥ ǁdevair no devy aditir ni pātu devas trātā trāyatām aprayucchan |
tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ ||दे॒वैः । नः॒ । दे॒वी । अदि॑तिः । नि । पा॒तु॒ । दे॒वः । त्रा॒ता । त्रा॒य॒ता॒म् । अप्र॑ऽयुच्छन् ।
तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥देवैः । नः । देवी । अदितिः । नि । पातु । देवः । त्राता । त्रायताम् । अप्रऽयुच्छन् ।
तत् । नः । मित्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः ॥deváiḥ ǀ naḥ ǀ devī́ ǀ áditiḥ ǀ ní ǀ pātu ǀ deváḥ ǀ trātā́ ǀ trāyatām ǀ ápra-yucchan ǀ
tát ǀ naḥ ǀ mitráḥ ǀ váruṇaḥ ǀ mamahantām ǀ áditiḥ ǀ síndhuḥ ǀ pṛthivī́ ǀ utá ǀ dyáuḥ ǁdevaiḥ ǀ naḥ ǀ devī ǀ aditiḥ ǀ ni ǀ pātu ǀ devaḥ ǀ trātā ǀ trāyatām ǀ apra-yucchan ǀ
tat ǀ naḥ ǀ mitraḥ ǀ varuṇaḥ ǀ mamahantām ǀ aditiḥ ǀ sindhuḥ ǀ pṛthivī ǀ uta ǀ dyauḥ ǁ1.106.7 Aṣṭaka 1.7.24.7Anuvāka 1.16.7
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.