Ṛgveda · Maṇḍala 1

Sūkta 179

Agastya · Lopamudrā · 1, 2, 4: Lopamudrā; 3, 5, 6: Agastya Maitrāvaruṇi · 6 ṛks

Link
Devatā देवता
1, 2, 4: Agastya; 3, 5, 6: Lopamudrā
Ṛṣi ऋषि
1, 2, 4: Lopamudrā; 3, 5, 6: Agastya Maitrāvaruṇi
Chandas छन्दस्
Triṣṭubh, Bṛhatī
Metres by ṛk

1st set of styles triṣṭup (1, 4); nicṛttriṣṭup (2, 3); nicṛdbṛhatī (5); virāṭtrisṭup (6)

2nd set of styles triṣṭubh (1-4, 6); bṛhatī (5)

  1. Ṛk 1

    पू॒र्वीर॒हं श॒रदः॑ शश्रमा॒णा दो॒षा वस्तो॑रु॒षसो॑ ज॒रयं॑तीः ।
    मि॒नाति॒ श्रियं॑ जरि॒मा त॒नूना॒मप्यू॒ नु पत्नी॒र्वृष॑णो जगम्युः ॥

    पूर्वीर् अहं शरदः शश्रमाणा दोषा वस्तोर् उषसो जरयन्तीः |
    मिनाति श्रियं जरिमा तनूनाम् अप्य् ऊ नु पत्नीर् वृषणो जगम्युः ||

    pūrvī́rahám śarádaḥ śaśramāṇā́ doṣā́ vástoruṣáso jaráyantīḥ ǀ
    minā́ti śríyam jarimā́ tanū́nāmápyū nú pátnīrvṛ́ṣaṇo jagamyuḥ ǁ

    pūrvīr ahaṃ śaradaḥ śaśramāṇā doṣā vastor uṣaso jarayantīḥ |
    mināti śriyaṃ jarimā tanūnām apy ū nu patnīr vṛṣaṇo jagamyuḥ ||

    पू॒र्वीः । अ॒हम् । श॒रदः॑ । श॒श्र॒मा॒णा । दो॒षाः । वस्तोः॑ । उ॒षसः॑ । ज॒रय॑न्तीः ।
    मि॒नाति॑ । श्रिय॑म् । ज॒रि॒मा । त॒नूना॑म् । अपि॑ । ऊं॒ इति॑ । नु । पत्नीः॑ । वृष॑णः । ज॒ग॒म्युः॒ ॥

    पूर्वीः । अहम् । शरदः । शश्रमाणा । दोषाः । वस्तोः । उषसः । जरयन्तीः ।
    मिनाति । श्रियम् । जरिमा । तनूनाम् । अपि । ऊं इति । नु । पत्नीः । वृषणः । जगम्युः ॥

    pūrvī́ḥ ǀ ahám ǀ śarádaḥ ǀ śaśramāṇā́ ǀ doṣā́ḥ ǀ vástoḥ ǀ uṣásaḥ ǀ jaráyantīḥ ǀ
    minā́ti ǀ śríyam ǀ jarimā́ ǀ tanū́nām ǀ ápi ǀ ūṃ íti ǀ nú ǀ pátnīḥ ǀ vṛ́ṣaṇaḥ ǀ jagamyuḥ ǁ

    pūrvīḥ ǀ aham ǀ śaradaḥ ǀ śaśramāṇā ǀ doṣāḥ ǀ vastoḥ ǀ uṣasaḥ ǀ jarayantīḥ ǀ
    mināti ǀ śriyam ǀ jarimā ǀ tanūnām ǀ api ǀ ūṃ iti ǀ nu ǀ patnīḥ ǀ vṛṣaṇaḥ ǀ jagamyuḥ ǁ

    1.179.1 Aṣṭaka 2.4.22.1Anuvāka 1.23.119

  2. Ṛk 2

    ये चि॒द्धि पूर्व॑ ऋत॒साप॒ आस॑न्त्सा॒कं दे॒वेभि॒रव॑दन्नृ॒तानि॑ ।
    ते चि॒दवा॑सुर्न॒ह्यंत॑मा॒पुः समू॒ नु पत्नी॒र्वृष॑भिर्जगम्युः ॥

    ये चिद् धि पूर्व ऋतसाप आसन् साकं देवेभिर् अवदन्न् ऋतानि |
    ते चिद् अवासुर् नह्य् अन्तम् आपुः सम् ऊ नु पत्नीर् वृषभिर् जगम्युः ||

    yé ciddhí pū́rva ṛtasā́pa ā́santsākám devébhirávadannṛtā́ni ǀ
    té cidávāsurnahyántamāpúḥ sámū nú pátnīrvṛ́ṣabhirjagamyuḥ ǁ

    ye cid dhi pūrva ṛtasāpa āsan sākaṃ devebhir avadann ṛtāni |
    te cid avāsur nahy antam āpuḥ sam ū nu patnīr vṛṣabhir jagamyuḥ ||

    ये । चि॒त् । हि । पूर्वे॑ । ऋ॒त॒ऽसापः॑ । आस॑न् । सा॒कम् । दे॒वेभिः॑ । अव॑दन् । ऋ॒तानि॑ ।
    ते । चि॒त् । अव॑ । अ॒सुः॒ । न॒हि । अन्त॑म् । आ॒पुः । सम् । ऊं॒ इति॑ । नु । पत्नीः॑ । वृष॑ऽभिः । ज॒ग॒म्युः॒ ॥

    ये । चित् । हि । पूर्वे । ऋतऽसापः । आसन् । साकम् । देवेभिः । अवदन् । ऋतानि ।
    ते । चित् । अव । असुः । नहि । अन्तम् । आपुः । सम् । ऊं इति । नु । पत्नीः । वृषऽभिः । जगम्युः ॥

    yé ǀ cit ǀ hí ǀ pū́rve ǀ ṛta-sā́paḥ ǀ ā́san ǀ sākám ǀ devébhiḥ ǀ ávadan ǀ ṛtā́ni ǀ
    té ǀ cit ǀ áva ǀ asuḥ ǀ nahí ǀ ántam ǀ āpúḥ ǀ sám ǀ ūṃ íti ǀ nú ǀ pátnīḥ ǀ vṛ́ṣa-bhiḥ ǀ jagamyuḥ ǁ

    ye ǀ cit ǀ hi ǀ pūrve ǀ ṛta-sāpaḥ ǀ āsan ǀ sākam ǀ devebhiḥ ǀ avadan ǀ ṛtāni ǀ
    te ǀ cit ǀ ava ǀ asuḥ ǀ nahi ǀ antam ǀ āpuḥ ǀ sam ǀ ūṃ iti ǀ nu ǀ patnīḥ ǀ vṛṣa-bhiḥ ǀ jagamyuḥ ǁ

    1.179.2 Aṣṭaka 2.4.22.2Anuvāka 1.23.120

  3. Ṛk 3

    न मृषा॑ श्रां॒तं यदवं॑ति दे॒वा विश्वा॒ इत्स्पृधो॑ अ॒भ्य॑श्नवाव ।
    जया॒वेदत्र॑ श॒तनी॑थमा॒जिं यत्स॒म्यंचा॑ मिथु॒नाव॒भ्यजा॑व ॥

    न मृषा श्रान्तं यद् अवन्ति देवा विश्वा इत् स्पृधो अभ्य् अश्नवाव |
    जयावेद् अत्र शतनीथम् आजिं यत् सम्यञ्चा मिथुनाव् अभ्य् अजाव ||

    ná mṛ́ṣā śrāntám yádávanti devā́ víśvā ítspṛ́dho abhyáśnavāva ǀ
    jáyāvédátra śatánīthamājím yátsamyáñcā mithunā́vabhyájāva ǁ

    na mṛṣā śrāntaṃ yad avanti devā viśvā it spṛdho abhy aśnavāva |
    jayāved atra śatanītham ājiṃ yat samyañcā mithunāv abhy ajāva ||

    न । मृषा॑ । श्रा॒न्तम् । यत् । अव॑न्ति । दे॒वाः । विश्वाः॑ । इत् । स्पृधः॑ । अ॒भि । अ॒श्न॒वा॒व॒ ।
    जया॑व । इत् । अत्र॑ । श॒तऽनी॑थम् । आ॒जिम् । यत् । स॒म्यञ्चा॑ । मि॒थु॒नौ । अ॒भि । अजा॑व ॥

    न । मृषा । श्रान्तम् । यत् । अवन्ति । देवाः । विश्वाः । इत् । स्पृधः । अभि । अश्नवाव ।
    जयाव । इत् । अत्र । शतऽनीथम् । आजिम् । यत् । सम्यञ्चा । मिथुनौ । अभि । अजाव ॥

    ná ǀ mṛ́ṣā ǀ śrāntám ǀ yát ǀ ávanti ǀ devā́ḥ ǀ víśvāḥ ǀ ít ǀ spṛ́dhaḥ ǀ abhí ǀ aśnavāva ǀ
    jáyāva ǀ ít ǀ átra ǀ śatá-nītham ǀ ājím ǀ yát ǀ samyáñcā ǀ mithunáu ǀ abhí ǀ ájāva ǁ

    na ǀ mṛṣā ǀ śrāntam ǀ yat ǀ avanti ǀ devāḥ ǀ viśvāḥ ǀ it ǀ spṛdhaḥ ǀ abhi ǀ aśnavāva ǀ
    jayāva ǀ it ǀ atra ǀ śata-nītham ǀ ājim ǀ yat ǀ samyañcā ǀ mithunau ǀ abhi ǀ ajāva ǁ

    1.179.3 Aṣṭaka 2.4.22.3Anuvāka 1.23.121

  4. Ṛk 4

    न॒दस्य॑ मा रुध॒तः काम॒ आग॑न्नि॒त आजा॑तो अ॒मुतः॒ कुत॑श्चित् ।
    लोपा॑मुद्रा॒ वृष॑णं॒ नी रि॑णाति॒ धीर॒मधी॑रा धयति श्व॒संतं॑ ॥

    नदस्य मा रुधतः काम आगन्न् इत आजातो अमुतः कुतश् चित् |
    लोपामुद्रा वृषणं नी रिणाति धीरम् अधीरा धयति श्वसन्तम् ||

    nadásya mā rudhatáḥ kā́ma ā́gannitá ā́jāto amútaḥ kútaścit ǀ
    lópāmudrā vṛ́ṣaṇam nī́ riṇāti dhī́ramádhīrā dhayati śvasántam ǁ

    nadasya mā rudhataḥ kāma āgann ita ājāto amutaḥ kutaś cit |
    lopāmudrā vṛṣaṇaṃ nī riṇāti dhīram adhīrā dhayati śvasantam ||

    न॒दस्य॑ । मा॒ । रु॒ध॒तः । कामः॑ । आ । अ॒ग॒न् । इ॒तः । आऽजा॑तः । अ॒मुतः॑ । कुतः॑ । चि॒त् ।
    लोपा॑मुद्रा । वृष॑णम् । निः । रि॒णा॒ति॒ । धीर॑म् । अधी॑रा । ध॒य॒ति॒ । श्व॒सन्त॑म् ॥

    नदस्य । मा । रुधतः । कामः । आ । अगन् । इतः । आऽजातः । अमुतः । कुतः । चित् ।
    लोपामुद्रा । वृषणम् । निः । रिणाति । धीरम् । अधीरा । धयति । श्वसन्तम् ॥

    nadásya ǀ mā ǀ rudhatáḥ ǀ kā́maḥ ǀ ā́ ǀ agan ǀ itáḥ ǀ ā́-jātaḥ ǀ amútaḥ ǀ kútaḥ ǀ cit ǀ
    lópāmudrā ǀ vṛ́ṣaṇam ǀ níḥ ǀ riṇāti ǀ dhī́ram ǀ ádhīrā ǀ dhayati ǀ śvasántam ǁ

    nadasya ǀ mā ǀ rudhataḥ ǀ kāmaḥ ǀ ā ǀ agan ǀ itaḥ ǀ ā-jātaḥ ǀ amutaḥ ǀ kutaḥ ǀ cit ǀ
    lopāmudrā ǀ vṛṣaṇam ǀ niḥ ǀ riṇāti ǀ dhīram ǀ adhīrā ǀ dhayati ǀ śvasantam ǁ

    1.179.4 Aṣṭaka 2.4.22.4Anuvāka 1.23.122

  5. Ṛk 5

    इ॒मं नु सोम॒मंति॑तो हृ॒त्सु पी॒तमुप॑ ब्रुवे ।
    यत्सी॒माग॑श्चकृ॒मा तत्सु मृ॑ळतु पुलु॒कामो॒ हि मर्त्यः॑ ॥

    इमं नु सोमम् अन्तितो हृत्सु पीतम् उप ब्रुवे |
    यत् सीम् आगश् चकृमा तत् सु मृऌअतु पुलुकामो हि मर्त्यः ||

    imám nú sómamántito hṛtsú pītámúpa bruve ǀ
    yátsīmā́gaścakṛmā́ tátsú mṛḷatu pulukā́mo hí mártyaḥ ǁ

    imaṃ nu somam antito hṛtsu pītam upa bruve |
    yat sīm āgaś cakṛmā tat su mṛḷatu pulukāmo hi martyaḥ ||

    इ॒मम् । नु । सोम॑म् । अन्ति॑तः । हृ॒त्ऽसु । पी॒तम् । उप॑ । ब्रु॒वे॒ ।
    यत् । सी॒म् । आगः॑ । च॒कृ॒म । तत् । सु । मृ॒ळ॒तु॒ । पु॒लु॒ऽकामः॑ । हि । मर्त्यः॑ ॥

    इमम् । नु । सोमम् । अन्तितः । हृत्ऽसु । पीतम् । उप । ब्रुवे ।
    यत् । सीम् । आगः । चकृम । तत् । सु । मृळतु । पुलुऽकामः । हि । मर्त्यः ॥

    imám ǀ nú ǀ sómam ǀ ántitaḥ ǀ hṛt-sú ǀ pītám ǀ úpa ǀ bruve ǀ
    yát ǀ sīm ǀ ā́gaḥ ǀ cakṛmá ǀ tát ǀ sú ǀ mṛḷatu ǀ pulu-kā́maḥ ǀ hí ǀ mártyaḥ ǁ

    imam ǀ nu ǀ somam ǀ antitaḥ ǀ hṛt-su ǀ pītam ǀ upa ǀ bruve ǀ
    yat ǀ sīm ǀ āgaḥ ǀ cakṛma ǀ tat ǀ su ǀ mṛḷatu ǀ pulu-kāmaḥ ǀ hi ǀ martyaḥ ǁ

    1.179.5 Aṣṭaka 2.4.22.5Anuvāka 1.23.123

  6. Ṛk 6

    अ॒गस्त्यः॒ खन॑मानः ख॒नित्रैः॑ प्र॒जामप॑त्यं॒ बल॑मि॒च्छमा॑नः ।
    उ॒भौ वर्णा॒वृषि॑रु॒ग्रः पु॑पोष स॒त्या दे॒वेष्वा॒शिषो॑ जगाम ॥

    अगस्त्यः खनमानः खनित्रैः प्रजाम् अपत्यम् बलम् इच्छमानः |
    उभौ वर्णाव् ऋषिर् उग्रः पुपोष सत्या देवेष्व् आशिषो जगाम ||

    agástyaḥ khánamānaḥ khanítraiḥ prajā́mápatyam bálamicchámānaḥ ǀ
    ubháu várṇāvṛ́ṣirugráḥ pupoṣa satyā́ devéṣvāśíṣo jagāma ǁ

    agastyaḥ khanamānaḥ khanitraiḥ prajām apatyam balam icchamānaḥ |
    ubhau varṇāv ṛṣir ugraḥ pupoṣa satyā deveṣv āśiṣo jagāma ||

    अ॒गस्त्यः॑ । खन॑मानः । ख॒नित्रैः॑ । प्र॒ऽजाम् । अप॑त्यम् । बल॑म् । इ॒च्छमा॑नः ।
    उ॒भौ । वर्णौ॑ । ऋषिः॑ । उ॒ग्रः । पु॒पो॒ष॒ । स॒त्याः । दे॒वेषु॑ । आ॒ऽशिषः॑ । ज॒गा॒म॒ ॥

    अगस्त्यः । खनमानः । खनित्रैः । प्रऽजाम् । अपत्यम् । बलम् । इच्छमानः ।
    उभौ । वर्णौ । ऋषिः । उग्रः । पुपोष । सत्याः । देवेषु । आऽशिषः । जगाम ॥

    agástyaḥ ǀ khánamānaḥ ǀ khanítraiḥ ǀ pra-jā́m ǀ ápatyam ǀ bálam ǀ icchámānaḥ ǀ
    ubháu ǀ várṇau ǀ ṛ́ṣiḥ ǀ ugráḥ ǀ pupoṣa ǀ satyā́ḥ ǀ devéṣu ǀ ā-śíṣaḥ ǀ jagāma ǁ

    agastyaḥ ǀ khanamānaḥ ǀ khanitraiḥ ǀ pra-jām ǀ apatyam ǀ balam ǀ icchamānaḥ ǀ
    ubhau ǀ varṇau ǀ ṛṣiḥ ǀ ugraḥ ǀ pupoṣa ǀ satyāḥ ǀ deveṣu ǀ ā-śiṣaḥ ǀ jagāma ǁ

    1.179.6 Aṣṭaka 2.4.22.6Anuvāka 1.23.124

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 1.179 · Agastya · Lopamudrā

Interpretations

Sri Aurobindo

Ṛk 1

Many Autumns have I been toiling night and day, dawns aging me. Age is diminishing the glory of our bodies. Now let the males come to their spouses.

Ṛk 2

Even the men of old, who were wise of the Truth and they spoke with the gods the things of the Truth—even they cast (all) downward, yea, they reached not an end. Now let the males come17 to their spouses.

Ṛk 3

Not in vain is the labour which the gods protect. Let us have the taste18 of even all the contesting forces, let us conquer indeed even here, let us run19 this battle-race of a hundred leadings, a complete couple.

Ṛk 4

Let not20 desire come on me of the stream that stays me— desire born from here or from somewhere in those other worlds. Lopamudra goes in to her spouse; she drains deep her panting Lord, she ignorant, him the wise.

Ṛk 5

Now to this Soma I speak. Drunk near into our hearts, all the impurity we have done, that let its grace wholly forgive: for mortal man is a creature of many desires.

Ṛk 6

Agastya digging with spades, desiring offspring, the child and strength, he, the forceful Rishi, nourished both the Races (of either colour)21 and reached in the gods the true blessings.