Ṛgveda · Maṇḍala 1 · Sūkta 179
Ṛk 1.179.2
Saṃhitā
ये चि॒द्धि पूर्व॑ ऋत॒साप॒ आस॑न्त्सा॒कं दे॒वेभि॒रव॑दन्नृ॒तानि॑ ।
ते चि॒दवा॑सुर्न॒ह्यंत॑मा॒पुः समू॒ नु पत्नी॒र्वृष॑भिर्जगम्युः ॥
ये चिद् धि पूर्व ऋतसाप आसन् साकं देवेभिर् अवदन्न् ऋतानि |
ते चिद् अवासुर् नह्य् अन्तम् आपुः सम् ऊ नु पत्नीर् वृषभिर् जगम्युः ||
yé ciddhí pū́rva ṛtasā́pa ā́santsākám devébhirávadannṛtā́ni ǀ
té cidávāsurnahyántamāpúḥ sámū nú pátnīrvṛ́ṣabhirjagamyuḥ ǁ
ye cid dhi pūrva ṛtasāpa āsan sākaṃ devebhir avadann ṛtāni |
te cid avāsur nahy antam āpuḥ sam ū nu patnīr vṛṣabhir jagamyuḥ ||
Padapāṭha
ये । चि॒त् । हि । पूर्वे॑ । ऋ॒त॒ऽसापः॑ । आस॑न् । सा॒कम् । दे॒वेभिः॑ । अव॑दन् । ऋ॒तानि॑ ।
ते । चि॒त् । अव॑ । अ॒सुः॒ । न॒हि । अन्त॑म् । आ॒पुः । सम् । ऊं॒ इति॑ । नु । पत्नीः॑ । वृष॑ऽभिः । ज॒ग॒म्युः॒ ॥
ये । चित् । हि । पूर्वे । ऋतऽसापः । आसन् । साकम् । देवेभिः । अवदन् । ऋतानि ।
ते । चित् । अव । असुः । नहि । अन्तम् । आपुः । सम् । ऊं इति । नु । पत्नीः । वृषऽभिः । जगम्युः ॥
yé ǀ cit ǀ hí ǀ pū́rve ǀ ṛta-sā́paḥ ǀ ā́san ǀ sākám ǀ devébhiḥ ǀ ávadan ǀ ṛtā́ni ǀ
té ǀ cit ǀ áva ǀ asuḥ ǀ nahí ǀ ántam ǀ āpúḥ ǀ sám ǀ ūṃ íti ǀ nú ǀ pátnīḥ ǀ vṛ́ṣa-bhiḥ ǀ jagamyuḥ ǁ
ye ǀ cit ǀ hi ǀ pūrve ǀ ṛta-sāpaḥ ǀ āsan ǀ sākam ǀ devebhiḥ ǀ avadan ǀ ṛtāni ǀ
te ǀ cit ǀ ava ǀ asuḥ ǀ nahi ǀ antam ǀ āpuḥ ǀ sam ǀ ūṃ iti ǀ nu ǀ patnīḥ ǀ vṛṣa-bhiḥ ǀ jagamyuḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.179.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.4.22.02
- Maṇḍala · Anuvāka · Ṛk
- 1.23.120
- Devatā देवता
- 1, 2, 4: Agastya; 3, 5, 6: Lopamudrā
- Ṛṣi ऋषि
- 1, 2, 4: Lopamudrā; 3, 5, 6: Agastya Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh, Bṛhatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.