Ṛgveda · Maṇḍala 1 · Sūkta 179
Ṛk 1.179.5
Saṃhitā
इ॒मं नु सोम॒मंति॑तो हृ॒त्सु पी॒तमुप॑ ब्रुवे ।
यत्सी॒माग॑श्चकृ॒मा तत्सु मृ॑ळतु पुलु॒कामो॒ हि मर्त्यः॑ ॥
इमं नु सोमम् अन्तितो हृत्सु पीतम् उप ब्रुवे |
यत् सीम् आगश् चकृमा तत् सु मृऌअतु पुलुकामो हि मर्त्यः ||
imám nú sómamántito hṛtsú pītámúpa bruve ǀ
yátsīmā́gaścakṛmā́ tátsú mṛḷatu pulukā́mo hí mártyaḥ ǁ
imaṃ nu somam antito hṛtsu pītam upa bruve |
yat sīm āgaś cakṛmā tat su mṛḷatu pulukāmo hi martyaḥ ||
Padapāṭha
इ॒मम् । नु । सोम॑म् । अन्ति॑तः । हृ॒त्ऽसु । पी॒तम् । उप॑ । ब्रु॒वे॒ ।
यत् । सी॒म् । आगः॑ । च॒कृ॒म । तत् । सु । मृ॒ळ॒तु॒ । पु॒लु॒ऽकामः॑ । हि । मर्त्यः॑ ॥
इमम् । नु । सोमम् । अन्तितः । हृत्ऽसु । पीतम् । उप । ब्रुवे ।
यत् । सीम् । आगः । चकृम । तत् । सु । मृळतु । पुलुऽकामः । हि । मर्त्यः ॥
imám ǀ nú ǀ sómam ǀ ántitaḥ ǀ hṛt-sú ǀ pītám ǀ úpa ǀ bruve ǀ
yát ǀ sīm ǀ ā́gaḥ ǀ cakṛmá ǀ tát ǀ sú ǀ mṛḷatu ǀ pulu-kā́maḥ ǀ hí ǀ mártyaḥ ǁ
imam ǀ nu ǀ somam ǀ antitaḥ ǀ hṛt-su ǀ pītam ǀ upa ǀ bruve ǀ
yat ǀ sīm ǀ āgaḥ ǀ cakṛma ǀ tat ǀ su ǀ mṛḷatu ǀ pulu-kāmaḥ ǀ hi ǀ martyaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.179.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.4.22.05
- Maṇḍala · Anuvāka · Ṛk
- 1.23.123
- Devatā देवता
- 1, 2, 4: Agastya; 3, 5, 6: Lopamudrā
- Ṛṣi ऋषि
- 1, 2, 4: Lopamudrā; 3, 5, 6: Agastya Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh, Bṛhatī
- Svara स्वरः
- मध्यमः
Text and interpretations from the Ṛgveda database of theveda.org.in.