Ṛgveda · Maṇḍala 1

Sūkta 46

Aśvins · Praskaṇva Kāṇva · 15 ṛks

Link
Devatā देवता
Aśvins
Ṛṣi ऋषि
Praskaṇva Kāṇva
Chandas छन्दस्
Gāyatrī
Metres by ṛk

1st set of styles nicṛdgāyatrī (2, 4, 5, 7-9, 13, 15); gāyatrī (3, 6, 11, 12, 14); virāḍgāyatrī (1, 10)

2nd set of styles gāyatrī

  1. Ṛk 1

    ए॒षो उ॒षा अपू॑र्व्या॒ व्यु॑च्छति प्रि॒या दि॒वः ।
    स्तु॒षे वा॑मश्विना बृ॒हत् ॥

    एषो उषा अपूर्व्या व्य् उच्छति प्रिया दिवः |
    स्तुषे वाम् अश्विना बृहत् ||

    eṣó uṣā́ ápūrvyā vyúcchati priyā́ diváḥ ǀ
    stuṣé vāmaśvinā bṛhát ǁ

    eṣo uṣā apūrvyā vy ucchati priyā divaḥ |
    stuṣe vām aśvinā bṛhat ||

    ए॒षो इति॑ । उ॒षाः । अपू॑र्व्या । वि । उ॒च्छ॒ति॒ । प्रि॒या । दि॒वः ।
    स्तु॒षे । वा॒म् । अ॒श्वि॒ना॒ । बृ॒हत् ॥

    एषो इति । उषाः । अपूर्व्या । वि । उच्छति । प्रिया । दिवः ।
    स्तुषे । वाम् । अश्विना । बृहत् ॥

    eṣó íti ǀ uṣā́ḥ ǀ ápūrvyā ǀ ví ǀ ucchati ǀ priyā́ ǀ diváḥ ǀ
    stuṣé ǀ vām ǀ aśvinā ǀ bṛhát ǁ

    eṣo iti ǀ uṣāḥ ǀ apūrvyā ǀ vi ǀ ucchati ǀ priyā ǀ divaḥ ǀ
    stuṣe ǀ vām ǀ aśvinā ǀ bṛhat ǁ

    1.46.1 Aṣṭaka 1.3.33.1Anuvāka 1.9.25

  2. Ṛk 2

    या द॒स्रा सिंधु॑मातरा मनो॒तरा॑ रयी॒णां ।
    धि॒या दे॒वा व॑सु॒विदा॑ ॥

    या दस्रा सिन्धुमातरा मनोतरा रयीणाम् |
    धिया देवा वसुविदा ||

    yā́ dasrā́ síndhumātarā manotárā rayīṇā́m ǀ
    dhiyā́ devā́ vasuvídā ǁ

    yā dasrā sindhumātarā manotarā rayīṇām |
    dhiyā devā vasuvidā ||

    या । द॒स्रा । सिन्धु॑ऽमातरा । म॒नो॒तरा॑ । र॒यी॒णाम् ।
    धि॒या । दे॒वा । व॒सु॒ऽविदा॑ ॥

    या । दस्रा । सिन्धुऽमातरा । मनोतरा । रयीणाम् ।
    धिया । देवा । वसुऽविदा ॥

    yā́ ǀ dasrā́ ǀ síndhu-mātarā ǀ manotárā ǀ rayīṇā́m ǀ
    dhiyā́ ǀ devā́ ǀ vasu-vídā ǁ

    yā ǀ dasrā ǀ sindhu-mātarā ǀ manotarā ǀ rayīṇām ǀ
    dhiyā ǀ devā ǀ vasu-vidā ǁ

    1.46.2 Aṣṭaka 1.3.33.2Anuvāka 1.9.26

  3. Ṛk 3

    व॒च्यंते॑ वां ककु॒हासो॑ जू॒र्णाया॒मधि॑ वि॒ष्टपि॑ ।
    यद्वां॒ रथो॒ विभि॒ष्पता॑त् ॥

    वच्यन्ते वां ककुहासो जूर्णायाम् अधि विष्टपि |
    यद् वां रथो विभिष् पतात् ||

    vacyánte vām kakuhā́so jūrṇā́yāmádhi viṣṭápi ǀ
    yádvām rátho víbhiṣpátāt ǁ

    vacyante vāṃ kakuhāso jūrṇāyām adhi viṣṭapi |
    yad vāṃ ratho vibhiṣ patāt ||

    व॒च्यन्ते॑ । वा॒म् । क॒कु॒हासः॑ । जू॒र्णाया॑म् । अधि॑ । वि॒ष्टपि॑ ।
    यत् । वा॒म् । रथः॑ । विऽभिः॑ । पता॑त् ॥

    वच्यन्ते । वाम् । ककुहासः । जूर्णायाम् । अधि । विष्टपि ।
    यत् । वाम् । रथः । विऽभिः । पतात् ॥

    vacyánte ǀ vām ǀ kakuhā́saḥ ǀ jūrṇā́yām ǀ ádhi ǀ viṣṭápi ǀ
    yát ǀ vām ǀ ráthaḥ ǀ ví-bhiḥ ǀ pátāt ǁ

    vacyante ǀ vām ǀ kakuhāsaḥ ǀ jūrṇāyām ǀ adhi ǀ viṣṭapi ǀ
    yat ǀ vām ǀ rathaḥ ǀ vi-bhiḥ ǀ patāt ǁ

    1.46.3 Aṣṭaka 1.3.33.3Anuvāka 1.9.27

  4. Ṛk 4

    ह॒विषा॑ जा॒रो अ॒पां पिप॑र्ति॒ पपु॑रिर्नरा ।
    पि॒ता कुट॑स्य चर्ष॒णिः ॥

    हविषा जारो अपाम् पिपर्ति पपुरिर् नरा |
    पिता कुटस्य चर्षणिः ||

    havíṣā jāró apā́m píparti pápurirnarā ǀ
    pitā́ kúṭasya carṣaṇíḥ ǁ

    haviṣā jāro apām piparti papurir narā |
    pitā kuṭasya carṣaṇiḥ ||

    ह॒विषा॑ । जा॒रः । अ॒पाम् । पिप॑र्ति । पपु॑रिः । न॒रा॒ ।
    पि॒ता । कुट॑स्य । च॒र्ष॒णिः ॥

    हविषा । जारः । अपाम् । पिपर्ति । पपुरिः । नरा ।
    पिता । कुटस्य । चर्षणिः ॥

    havíṣā ǀ jāráḥ ǀ apā́m ǀ píparti ǀ pápuriḥ ǀ narā ǀ
    pitā́ ǀ kúṭasya ǀ carṣaṇíḥ ǁ

    haviṣā ǀ jāraḥ ǀ apām ǀ piparti ǀ papuriḥ ǀ narā ǀ
    pitā ǀ kuṭasya ǀ carṣaṇiḥ ǁ

    1.46.4 Aṣṭaka 1.3.33.4Anuvāka 1.9.28

  5. Ṛk 5

    आ॒दा॒रो वां॑ मती॒नां नास॑त्या मतवचसा ।
    पा॒तं सोम॑स्य धृष्णु॒या ॥

    आदारो वाम् मतीनां नासत्या मतवचसा |
    पातं सोमस्य धृष्णुया ||

    ādāró vām matīnā́m nā́satyā matavacasā ǀ
    pātám sómasya dhṛṣṇuyā́ ǁ

    ādāro vām matīnāṃ nāsatyā matavacasā |
    pātaṃ somasya dhṛṣṇuyā ||

    आ॒दा॒रः । वा॒म् । म॒ती॒नाम् । नास॑त्या । म॒त॒ऽव॒च॒सा॒ ।
    पा॒तम् । सोम॑स्य । धृ॒ष्णु॒ऽया ॥

    आदारः । वाम् । मतीनाम् । नासत्या । मतऽवचसा ।
    पातम् । सोमस्य । धृष्णुऽया ॥

    ādāráḥ ǀ vām ǀ matīnā́m ǀ nā́satyā ǀ mata-vacasā ǀ
    pātám ǀ sómasya ǀ dhṛṣṇu-yā́ ǁ

    ādāraḥ ǀ vām ǀ matīnām ǀ nāsatyā ǀ mata-vacasā ǀ
    pātam ǀ somasya ǀ dhṛṣṇu-yā ǁ

    1.46.5 Aṣṭaka 1.3.33.5Anuvāka 1.9.29

  6. Ṛk 6

    या नः॒ पीप॑रदश्विना॒ ज्योति॑ष्मती॒ तम॑स्ति॒रः ।
    ताम॒स्मे रा॑साथा॒मिषं॑ ॥

    या नः पीपरद् अश्विना ज्योतिष्मती तमस् तिरः |
    ताम् अस्मे रासाथाम् इषम् ||

    yā́ naḥ pī́paradaśvinā jyótiṣmatī támastiráḥ ǀ
    tā́masmé rāsāthāmíṣam ǁ

    yā naḥ pīparad aśvinā jyotiṣmatī tamas tiraḥ |
    tām asme rāsāthām iṣam ||

    या । नः॒ । पीप॑रत् । अ॒श्वि॒ना॒ । ज्योति॑ष्मती । तमः॑ । ति॒रः ।
    ताम् । अ॒स्मे इति॑ । रा॒सा॒था॒म् । इष॑म् ॥

    या । नः । पीपरत् । अश्विना । ज्योतिष्मती । तमः । तिरः ।
    ताम् । अस्मे इति । रासाथाम् । इषम् ॥

    yā́ ǀ naḥ ǀ pī́parat ǀ aśvinā ǀ jyótiṣmatī ǀ támaḥ ǀ tiráḥ ǀ
    tā́m ǀ asmé íti ǀ rāsāthām ǀ íṣam ǁ

    yā ǀ naḥ ǀ pīparat ǀ aśvinā ǀ jyotiṣmatī ǀ tamaḥ ǀ tiraḥ ǀ
    tām ǀ asme iti ǀ rāsāthām ǀ iṣam ǁ

    1.46.6 Aṣṭaka 1.3.34.1Anuvāka 1.9.30

  7. Ṛk 7

    आ नो॑ ना॒वा म॑ती॒नां या॒तं पा॒राय॒ गंत॑वे ।
    युं॒जाथा॑मश्विना॒ रथं॑ ॥

    आ नो नावा मतीनां यातम् पाराय गन्तवे |
    युञ्जाथाम् अश्विना रथम् ||

    ā́ no nāvā́ matīnā́m yātám pārā́ya gántave ǀ
    yuñjā́thāmaśvinā rátham ǁ

    ā no nāvā matīnāṃ yātam pārāya gantave |
    yuñjāthām aśvinā ratham ||

    आ । नः॒ । ना॒वा । म॒ती॒नाम् । या॒तम् । पा॒राय॑ । गन्त॑वे ।
    यु॒ञ्जाथा॑म् । अ॒श्वि॒ना॒ । रथ॑म् ॥

    आ । नः । नावा । मतीनाम् । यातम् । पाराय । गन्तवे ।
    युञ्जाथाम् । अश्विना । रथम् ॥

    ā́ ǀ naḥ ǀ nāvā́ ǀ matīnā́m ǀ yātám ǀ pārā́ya ǀ gántave ǀ
    yuñjā́thām ǀ aśvinā ǀ rátham ǁ

    ā ǀ naḥ ǀ nāvā ǀ matīnām ǀ yātam ǀ pārāya ǀ gantave ǀ
    yuñjāthām ǀ aśvinā ǀ ratham ǁ

    1.46.7 Aṣṭaka 1.3.34.2Anuvāka 1.9.31

  8. Ṛk 8

    अ॒रित्रं॑ वां दि॒वस्पृ॒थु ती॒र्थे सिंधू॑नां॒ रथः॑ ।
    धि॒या यु॑युज्र॒ इंद॑वः ॥

    अरित्रं वां दिवस् पृथु तीर्थे सिन्धूनां रथः |
    धिया युयुज्र इन्दवः ||

    arítram vām diváspṛthú tīrthé síndhūnām ráthaḥ ǀ
    dhiyā́ yuyujra índavaḥ ǁ

    aritraṃ vāṃ divas pṛthu tīrthe sindhūnāṃ rathaḥ |
    dhiyā yuyujra indavaḥ ||

    अ॒रित्र॑म् । वा॒म् । दि॒वः । पृ॒थु । ती॒र्थे । सिन्धू॑नाम् । रथः॑ ।
    धि॒या । यु॒यु॒ज्रे॒ । इन्द॑वः ॥

    अरित्रम् । वाम् । दिवः । पृथु । तीर्थे । सिन्धूनाम् । रथः ।
    धिया । युयुज्रे । इन्दवः ॥

    arítram ǀ vām ǀ diváḥ ǀ pṛthú ǀ tīrthé ǀ síndhūnām ǀ ráthaḥ ǀ
    dhiyā́ ǀ yuyujre ǀ índavaḥ ǁ

    aritram ǀ vām ǀ divaḥ ǀ pṛthu ǀ tīrthe ǀ sindhūnām ǀ rathaḥ ǀ
    dhiyā ǀ yuyujre ǀ indavaḥ ǁ

    1.46.8 Aṣṭaka 1.3.34.3Anuvāka 1.9.32

  9. Ṛk 9

    दि॒वस्क॑ण्वास॒ इंद॑वो॒ वसु॒ सिंधू॑नां प॒दे ।
    स्वं व॒व्रिं कुह॑ धित्सथः ॥

    दिवस् कण्वास इन्दवो वसु सिन्धूनाम् पदे |
    स्वं वव्रिं कुह धित्सथः ||

    diváskaṇvāsa índavo vásu síndhūnām padé ǀ
    svám vavrím kúha dhitsathaḥ ǁ

    divas kaṇvāsa indavo vasu sindhūnām pade |
    svaṃ vavriṃ kuha dhitsathaḥ ||

    दि॒वः । क॒ण्वा॒सः॒ । इन्द॑वः । वसु॑ । सिन्धू॑नाम् । प॒दे ।
    स्वम् । व॒व्रिम् । कुह॑ । धि॒त्स॒थः॒ ॥

    दिवः । कण्वासः । इन्दवः । वसु । सिन्धूनाम् । पदे ।
    स्वम् । वव्रिम् । कुह । धित्सथः ॥

    diváḥ ǀ kaṇvāsaḥ ǀ índavaḥ ǀ vásu ǀ síndhūnām ǀ padé ǀ
    svám ǀ vavrím ǀ kúha ǀ dhitsathaḥ ǁ

    divaḥ ǀ kaṇvāsaḥ ǀ indavaḥ ǀ vasu ǀ sindhūnām ǀ pade ǀ
    svam ǀ vavrim ǀ kuha ǀ dhitsathaḥ ǁ

    1.46.9 Aṣṭaka 1.3.34.4Anuvāka 1.9.33

  10. Ṛk 10

    अभू॑दु॒ भा उ॑ अं॒शवे॒ हिर॑ण्यं॒ प्रति॒ सूर्यः॑ ।
    व्य॑ख्यज्जि॒ह्वयासि॑तः ॥

    अभूद् उ भा उ अंशवे हिरण्यम् प्रति सूर्यः |
    व्य् अख्यज् जिह्वयासितः ||

    ábhūdu bhā́ u aṃśáve híraṇyam práti sū́ryaḥ ǀ
    vyákhyajjihváyā́sitaḥ ǁ

    abhūd u bhā u aṃśave hiraṇyam prati sūryaḥ |
    vy akhyaj jihvayāsitaḥ ||

    अभू॑त् । ऊं॒ इति॑ । भाः । ऊं॒ इति॑ । अं॒शवे॑ । हिर॑ण्यम् । प्रति॑ । सूर्यः॑ ।
    वि । अ॒ख्य॒त् । जि॒ह्वया॑ । असि॑तः ॥

    अभूत् । ऊं इति । भाः । ऊं इति । अंशवे । हिरण्यम् । प्रति । सूर्यः ।
    वि । अख्यत् । जिह्वया । असितः ॥

    ábhūt ǀ ūṃ íti ǀ bhā́ḥ ǀ ūṃ íti ǀ aṃśáve ǀ híraṇyam ǀ práti ǀ sū́ryaḥ ǀ
    ví ǀ akhyat ǀ jihváyā ǀ ásitaḥ ǁ

    abhūt ǀ ūṃ iti ǀ bhāḥ ǀ ūṃ iti ǀ aṃśave ǀ hiraṇyam ǀ prati ǀ sūryaḥ ǀ
    vi ǀ akhyat ǀ jihvayā ǀ asitaḥ ǁ

    1.46.10 Aṣṭaka 1.3.34.5Anuvāka 1.9.34

  11. Ṛk 11

    अभू॑दु पा॒रमेत॑वे॒ पंथा॑ ऋ॒तस्य॑ साधु॒या ।
    अद॑र्शि॒ वि स्रु॒तिर्दि॒वः ॥

    अभूद् उ पारम् एतवे पन्था ऋतस्य साधुया |
    अदर्शि वि स्रुतिर् दिवः ||

    ábhūdu pārámétave pánthā ṛtásya sādhuyā́ ǀ
    ádarśi ví srutírdiváḥ ǁ

    abhūd u pāram etave panthā ṛtasya sādhuyā |
    adarśi vi srutir divaḥ ||

    अभू॑त् । ऊं॒ इति॑ । पा॒रम् । एत॑वे । पन्थाः॑ । ऋ॒तस्य॑ । सा॒धु॒ऽया ।
    अद॑र्शि । वि । स्रु॒तिः । दि॒वः ॥

    अभूत् । ऊं इति । पारम् । एतवे । पन्थाः । ऋतस्य । साधुऽया ।
    अदर्शि । वि । स्रुतिः । दिवः ॥

    ábhūt ǀ ūṃ íti ǀ pārám ǀ étave ǀ pánthāḥ ǀ ṛtásya ǀ sādhu-yā́ ǀ
    ádarśi ǀ ví ǀ srutíḥ ǀ diváḥ ǁ

    abhūt ǀ ūṃ iti ǀ pāram ǀ etave ǀ panthāḥ ǀ ṛtasya ǀ sādhu-yā ǀ
    adarśi ǀ vi ǀ srutiḥ ǀ divaḥ ǁ

    1.46.11 Aṣṭaka 1.3.35.1Anuvāka 1.9.35

  12. Ṛk 12

    तत्त॒दिद॒श्विनो॒रवो॑ जरि॒ता प्रति॑ भूषति ।
    मदे॒ सोम॑स्य॒ पिप्र॑तोः ॥

    तत्-तद् इद् अश्विनोर् अवो जरिता प्रति भूषति |
    मदे सोमस्य पिप्रतोः ||

    táttadídaśvínorávo jaritā́ práti bhūṣati ǀ
    máde sómasya pípratoḥ ǁ

    tat-tad id aśvinor avo jaritā prati bhūṣati |
    made somasya pipratoḥ ||

    तत्ऽत॑त् । इत् । अ॒श्विनोः॑ । अवः॑ । ज॒रि॒ता । प्रति॑ । भू॒ष॒ति॒ ।
    मदे॑ । सोम॑स्य । पिप्र॑तोः ॥

    तत्ऽतत् । इत् । अश्विनोः । अवः । जरिता । प्रति । भूषति ।
    मदे । सोमस्य । पिप्रतोः ॥

    tát-tat ǀ ít ǀ aśvínoḥ ǀ ávaḥ ǀ jaritā́ ǀ práti ǀ bhūṣati ǀ
    máde ǀ sómasya ǀ pípratoḥ ǁ

    tat-tat ǀ it ǀ aśvinoḥ ǀ avaḥ ǀ jaritā ǀ prati ǀ bhūṣati ǀ
    made ǀ somasya ǀ pipratoḥ ǁ

    1.46.12 Aṣṭaka 1.3.35.2Anuvāka 1.9.36

  13. Ṛk 13

    वा॒व॒सा॒ना वि॒वस्व॑ति॒ सोम॑स्य पी॒त्या गि॒रा ।
    म॒नु॒ष्वच्छं॑भू॒ आ ग॑तं ॥

    वावसाना विवस्वति सोमस्य पीत्या गिरा |
    मनुष्वच् छम्भू आ गतम् ||

    vāvasānā́ vivásvati sómasya pītyā́ girā́ ǀ
    manuṣvácchambhū ā́ gatam ǁ

    vāvasānā vivasvati somasya pītyā girā |
    manuṣvac chambhū ā gatam ||

    व॒व॒सा॒ना । वि॒वस्व॑ति । सोम॑स्य । पी॒त्या । गि॒रा ।
    म॒नु॒ष्वत् । श॒म्भू॒ इति॑ शम्ऽभू । आ । ग॒त॒म् ॥

    ववसाना । विवस्वति । सोमस्य । पीत्या । गिरा ।
    मनुष्वत् । शम्भू इति शम्ऽभू । आ । गतम् ॥

    vavasānā́ ǀ vivásvati ǀ sómasya ǀ pītyā́ ǀ girā́ ǀ
    manuṣvát ǀ śambhū íti śam-bhū ǀ ā́ ǀ gatam ǁ

    vavasānā ǀ vivasvati ǀ somasya ǀ pītyā ǀ girā ǀ
    manuṣvat ǀ śambhū iti śam-bhū ǀ ā ǀ gatam ǁ

    1.46.13 Aṣṭaka 1.3.35.3Anuvāka 1.9.37

  14. Ṛk 14

    यु॒वोरु॒षा अनु॒ श्रियं॒ परि॑ज्मनोरु॒पाच॑रत् ।
    ऋ॒ता व॑नथो अ॒क्तुभिः॑ ॥

    युवोर् उषा अनु श्रियम् परिज्मनोर् उपाचरत् |
    ऋता वनथो अक्तुभिः ||

    yuvóruṣā́ ánu śríyam párijmanorupā́carat ǀ
    ṛtā́ vanatho aktúbhiḥ ǁ

    yuvor uṣā anu śriyam parijmanor upācarat |
    ṛtā vanatho aktubhiḥ ||

    यु॒वोः । उ॒षाः । अनु॑ । श्रिय॑म् । परि॑ऽज्मनोः । उ॒प॒ऽआच॑रत् ।
    ऋ॒ता । व॒न॒थः॒ । अ॒क्तुऽभिः॑ ॥

    युवोः । उषाः । अनु । श्रियम् । परिऽज्मनोः । उपऽआचरत् ।
    ऋता । वनथः । अक्तुऽभिः ॥

    yuvóḥ ǀ uṣā́ḥ ǀ ánu ǀ śríyam ǀ pári-jmanoḥ ǀ upa-ā́carat ǀ
    ṛtā́ ǀ vanathaḥ ǀ aktú-bhiḥ ǁ

    yuvoḥ ǀ uṣāḥ ǀ anu ǀ śriyam ǀ pari-jmanoḥ ǀ upa-ācarat ǀ
    ṛtā ǀ vanathaḥ ǀ aktu-bhiḥ ǁ

    1.46.14 Aṣṭaka 1.3.35.4Anuvāka 1.9.38

  15. Ṛk 15

    उ॒भा पि॑बतमश्विनो॒भा नः॒ शर्म॑ यच्छतं ।
    अ॒वि॒द्रि॒याभि॑रू॒तिभिः॑ ॥

    उभा पिबतम् अश्विनोभा नः शर्म यच्छतम् |
    अविद्रियाभिर् ऊतिभिः ||

    ubhā́ pibatamaśvinobhā́ naḥ śárma yacchatam ǀ
    avidriyā́bhirūtíbhiḥ ǁ

    ubhā pibatam aśvinobhā naḥ śarma yacchatam |
    avidriyābhir ūtibhiḥ ||

    उ॒भा । पि॒ब॒त॒म् । अ॒श्वि॒ना॒ । उ॒भा । नः॒ । शर्म॑ । य॒च्छ॒त॒म् ।
    अ॒वि॒द्रि॒याभिः॑ । ऊ॒तिऽभिः॑ ॥

    उभा । पिबतम् । अश्विना । उभा । नः । शर्म । यच्छतम् ।
    अविद्रियाभिः । ऊतिऽभिः ॥

    ubhā́ ǀ pibatam ǀ aśvinā ǀ ubhā́ ǀ naḥ ǀ śárma ǀ yacchatam ǀ
    avidriyā́bhiḥ ǀ ūtí-bhiḥ ǁ

    ubhā ǀ pibatam ǀ aśvinā ǀ ubhā ǀ naḥ ǀ śarma ǀ yacchatam ǀ
    avidriyābhiḥ ǀ ūti-bhiḥ ǁ

    1.46.15 Aṣṭaka 1.3.35.5Anuvāka 1.9.39

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 1.46 · Aśvins

Interpretations

Sri Aurobindo

Ṛk 1

Both together drink, O Ashwins, both together extend to us the peace by expandings whose wholeness remain untorn.” (SABCL. Vol.10, p. 124)

Ṛk 2

"Lo, the Dawn than which there is none higher, opens out full of delight in the Heavens; O Ashwins, the Vast of you I affirm, ye of whom the Ocean is the mother, accomplishers of the work who pass beyond through the mind to the felicities and divine, find that substance by the thought....

Ṛk 5

O Lords of the Voyage, who mentalise the word, this is the dissolver of your thinkings, -- drink ye of the Soma violently; give to us that impulsion, O Ashwins which, luminous, carries us through beyond the darkness. (SABCL. Vol.10, p. 124)

Ṛk 6

Travel for us in your ship to reach the other shore beyond the thoughts of the mind. Yoke, O Ashwins, your car, --your car that becomes the vast oared ship in Heaven, in the crossing of its rivers. By the thought the powers of Delight have been yoked. (SABCL. Vol.10, p. 124)

Ṛk 7

Travel for us in your ship to reach the other shore beyond the thoughts of the mind. Yoke, O Ashwins, your car, --your car that becomes the vast oared ship in Heaven, in the crossing of its rivers. By the thought the powers of Delight have been yoked. (SABCL. Vol.10, p. 124)

Ṛk 8

Travel for us in your ship to reach the other shore beyond the thoughts of the mind. Yoke, O Ashwins, your car, --your car that becomes the vast oared ship in Heaven, in the crossing of its rivers. By the thought the powers of Delight have been yoked.

Ṛk 9

The Soma-powers of delight in heaven are that substance in the place of the Waters. But where shall you

cast aside the veil you have made to conceal you? (SABCL. Vol.10, p. 124)

Ṛk 10

Nay, Light has been born for the joy of the Soma; -- the Sun that was dark has shot out its tongue towards the Gold. (SABCL. Vol.10, p. 124)

Ṛk 11

The path of the Truth has come into being by which we shall travel to that other shore; seen is all the wide

way through Heaven. (SABCL. Vol.10, p. 124)

Ṛk 12

The seeker grows in his being towards increasing manifestation after manifestation of the Ashwins when they find satisfaction in the ecstasy of the Soma. (SABCL. Vol.10, p. 124)

Ṛk 13

Do ye, dwelling (or, shining) in the all-luminous Sun, by the drinking of the Soma, by the Word come as creators of the bliss into our humanity. (SABCL. Vol.10, p. 124)

Ṛk 14

Dawn comes to us according to your glory when you pervade all our worlds and you win the Truths out of the Nights. (SABCL. Vol.10, p. 124)

Ṛk 15

Both together drink, O Ashwins, both together extend to us the peace by expandings whose wholeness remain untorn.” (SABCL. Vol.10, p. 124)