Ṛgveda · Maṇḍala 1

Sūkta 30

Indra · Aśvins · Uṣas · Śunaḥśepa Ājīgarti · 22 ṛks

Link
Devatā देवता
1-16: Indra; 17-19: Aśvins; 20-22: Uṣas
Ṛṣi ऋषि
Śunaḥśepa Ājīgarti
Chandas छन्दस्
Gāyatrī, Pādanicṛt, Triṣṭubh
Metres by ṛk

1st set of styles nicṛdgāyatrī (2, 5, 6, 9, 10, 15, 18, 20); gāyatrī (1, 4, 7, 8, 12, 13); virāḍgāyatrī (3, 14, 17, 19, 22); gāyatrī (pādanicṛdgāyatrī) (11, 21); triṣṭup (16)

2nd set of styles gāyatrī (1-10, 12-15, 17-22); pādanicṛt (11); triṣṭubh (16)

  1. Ṛk 1

    आ व॒ इंद्रं॒ क्रिविं॑ यथा वाज॒यंतः॑ श॒तक्र॑तुं ।
    मंहि॑ष्ठं सिंच॒ इंदु॑भिः ॥

    आ व इन्द्रं क्रिविं यथा वाजयन्तः शतक्रतुम् |
    मंहिष्ठं सिञ्च इन्दुभिः ||

    ā́ va índram krívim yathā vājayántaḥ śatákratum ǀ
    máṃhiṣṭham siñca índubhiḥ ǁ

    ā va indraṃ kriviṃ yathā vājayantaḥ śatakratum |
    maṃhiṣṭhaṃ siñca indubhiḥ ||

    आ । वः॒ । इन्द्र॑म् । क्रिवि॑म् । य॒था॒ । वा॒ज॒ऽयन्तः॑ । श॒तऽक्र॑तुम् ।
    मंहि॑ष्ठम् । सि॒ञ्चे॒ । इन्दु॑ऽभिः ॥

    आ । वः । इन्द्रम् । क्रिविम् । यथा । वाजऽयन्तः । शतऽक्रतुम् ।
    मंहिष्ठम् । सिञ्चे । इन्दुऽभिः ॥

    ā́ ǀ vaḥ ǀ índram ǀ krívim ǀ yathā ǀ vāja-yántaḥ ǀ śatá-kratum ǀ
    máṃhiṣṭham ǀ siñce ǀ índu-bhiḥ ǁ

    ā ǀ vaḥ ǀ indram ǀ krivim ǀ yathā ǀ vāja-yantaḥ ǀ śata-kratum ǀ
    maṃhiṣṭham ǀ siñce ǀ indu-bhiḥ ǁ

    1.30.1 Aṣṭaka 1.2.28.1Anuvāka 1.6.76

  2. Ṛk 2

    श॒तं वा॒ यः शुची॑नां स॒हस्रं॑ वा॒ समा॑शिरां ।
    एदु॑ नि॒म्नं न री॑यते ॥

    शतं वा यः शुचीनां सहस्रं वा समाशिराम् |
    एद् उ निम्नं न रीयते ||

    śatám vā yáḥ śúcīnām sahásram vā sámāśirām ǀ
    édu nimnám ná rīyate ǁ

    śataṃ vā yaḥ śucīnāṃ sahasraṃ vā samāśirām |
    ed u nimnaṃ na rīyate ||

    श॒तम् । वा॒ । यः । शुची॑नाम् । स॒हस्र॑म् । वा॒ । सम्ऽआ॑शिराम् ।
    आ । इत् । ऊं॒ इति॑ । नि॒म्नम् । न । री॒य॒ते॒ ॥

    शतम् । वा । यः । शुचीनाम् । सहस्रम् । वा । सम्ऽआशिराम् ।
    आ । इत् । ऊं इति । निम्नम् । न । रीयते ॥

    śatám ǀ vā ǀ yáḥ ǀ śúcīnām ǀ sahásram ǀ vā ǀ sám-āśirām ǀ
    ā́ ǀ ít ǀ ūṃ íti ǀ nimnám ǀ ná ǀ rīyate ǁ

    śatam ǀ vā ǀ yaḥ ǀ śucīnām ǀ sahasram ǀ vā ǀ sam-āśirām ǀ
    ā ǀ it ǀ ūṃ iti ǀ nimnam ǀ na ǀ rīyate ǁ

    1.30.2 Aṣṭaka 1.2.28.2Anuvāka 1.6.77

  3. Ṛk 3

    सं यन्मदा॑य शु॒ष्मिण॑ ए॒ना ह्य॑स्यो॒दरे॑ ।
    स॒मु॒द्रो न व्यचो॑ द॒धे ॥

    सं यन् मदाय शुष्मिण एना ह्य् अस्योदरे |
    समुद्रो न व्यचो दधे ||

    sám yánmádāya śuṣmíṇa enā́ hyásyodáre ǀ
    samudró ná vyáco dadhé ǁ

    saṃ yan madāya śuṣmiṇa enā hy asyodare |
    samudro na vyaco dadhe ||

    सम् । यत् । मदा॑य । शु॒ष्मिणे॑ । ए॒ना । हि । अ॒स्य॒ । उ॒दरे॑ ।
    स॒मु॒द्रः । न । व्यचः॑ । द॒धे ॥

    सम् । यत् । मदाय । शुष्मिणे । एना । हि । अस्य । उदरे ।
    समुद्रः । न । व्यचः । दधे ॥

    sám ǀ yát ǀ mádāya ǀ śuṣmíṇe ǀ enā́ ǀ hí ǀ asya ǀ udáre ǀ
    samudráḥ ǀ ná ǀ vyácaḥ ǀ dadhé ǁ

    sam ǀ yat ǀ madāya ǀ śuṣmiṇe ǀ enā ǀ hi ǀ asya ǀ udare ǀ
    samudraḥ ǀ na ǀ vyacaḥ ǀ dadhe ǁ

    1.30.3 Aṣṭaka 1.2.28.3Anuvāka 1.6.78

  4. Ṛk 4

    अ॒यमु॑ ते॒ सम॑तसि क॒पोत॑ इव गर्भ॒धिं ।
    वच॒स्तच्चि॑न्न ओहसे ॥

    अयम् उ ते सम् अतसि कपोत इव गर्भधिम् |
    वचस् तच् चिन् न ओहसे ||

    ayámu te sámatasi kapóta iva garbhadhím ǀ
    vácastáccinna ohase ǁ

    ayam u te sam atasi kapota iva garbhadhim |
    vacas tac cin na ohase ||

    अ॒यम् । ऊं॒ इति॑ । ते॒ । सम् । अ॒त॒सि॒ । क॒पोतः॑ऽइव । ग॒र्भ॒ऽधिम् ।
    वचः॑ । तत् । चि॒त् । नः॒ । ओ॒ह॒से॒ ॥

    अयम् । ऊं इति । ते । सम् । अतसि । कपोतःऽइव । गर्भऽधिम् ।
    वचः । तत् । चित् । नः । ओहसे ॥

    ayám ǀ ūṃ íti ǀ te ǀ sám ǀ atasi ǀ kapótaḥ-iva ǀ garbha-dhím ǀ
    vácaḥ ǀ tát ǀ cit ǀ naḥ ǀ ohase ǁ

    ayam ǀ ūṃ iti ǀ te ǀ sam ǀ atasi ǀ kapotaḥ-iva ǀ garbha-dhim ǀ
    vacaḥ ǀ tat ǀ cit ǀ naḥ ǀ ohase ǁ

    1.30.4 Aṣṭaka 1.2.28.4Anuvāka 1.6.79

  5. Ṛk 5

    स्तो॒त्रं रा॑धानां पते॒ गिर्वा॑हो वीर॒ यस्य॑ ते ।
    विभू॑तिरस्तु सू॒नृता॑ ॥

    स्तोत्रं राधानाम् पते गिर्वाहो वीर यस्य ते |
    विभूतिर् अस्तु सूनृता ||

    stotrám rādhānām pate gírvāho vīra yásya te ǀ
    víbhūtirastu sūnṛ́tā ǁ

    stotraṃ rādhānām pate girvāho vīra yasya te |
    vibhūtir astu sūnṛtā ||

    स्तो॒त्रम् । रा॒धा॒ना॒म् । प॒ते॒ । गिर्वा॑हः । वी॒र॒ । यस्य॑ । ते॒ ।
    विऽभू॑तिः । अ॒स्तु॒ । सू॒नृता॑ ॥

    स्तोत्रम् । राधानाम् । पते । गिर्वाहः । वीर । यस्य । ते ।
    विऽभूतिः । अस्तु । सूनृता ॥

    stotrám ǀ rādhānām ǀ pate ǀ gírvāhaḥ ǀ vīra ǀ yásya ǀ te ǀ
    ví-bhūtiḥ ǀ astu ǀ sūnṛ́tā ǁ

    stotram ǀ rādhānām ǀ pate ǀ girvāhaḥ ǀ vīra ǀ yasya ǀ te ǀ
    vi-bhūtiḥ ǀ astu ǀ sūnṛtā ǁ

    1.30.5 Aṣṭaka 1.2.28.5Anuvāka 1.6.80

  6. Ṛk 6

    ऊ॒र्ध्वस्ति॑ष्ठा न ऊ॒तये॒ऽस्मिन्वाजे॑ शतक्रतो ।
    सम॒न्येषु॑ ब्रवावहै ॥

    ऊर्ध्वस् तिष्ठा न ऊतये ऽस्मिन् वाजे शतक्रतो |
    सम् अन्येषु ब्रवावहै ||

    ūrdhvástiṣṭhā na ūtáye’smínvā́je śatakrato ǀ
    sámanyéṣu bravāvahai ǁ

    ūrdhvas tiṣṭhā na ūtaye 'smin vāje śatakrato |
    sam anyeṣu bravāvahai ||

    ऊ॒र्ध्वः । ति॒ष्ठ॒ । नः॒ । ऊ॒तये॑ । अ॒स्मिन् । वाजे॑ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।
    सम् । अ॒न्येषु॑ । ब्र॒वा॒व॒है॒ ॥

    ऊर्ध्वः । तिष्ठ । नः । ऊतये । अस्मिन् । वाजे । शतक्रतो इति शतऽक्रतो ।
    सम् । अन्येषु । ब्रवावहै ॥

    ūrdhváḥ ǀ tiṣṭha ǀ naḥ ǀ ūtáye ǀ asmín ǀ vā́je ǀ śatakrato íti śata-krato ǀ
    sám ǀ anyéṣu ǀ bravāvahai ǁ

    ūrdhvaḥ ǀ tiṣṭha ǀ naḥ ǀ ūtaye ǀ asmin ǀ vāje ǀ śatakrato iti śata-krato ǀ
    sam ǀ anyeṣu ǀ bravāvahai ǁ

    1.30.6 Aṣṭaka 1.2.29.1Anuvāka 1.6.81

  7. Ṛk 7

    योगे॑योगे त॒वस्त॑रं॒ वाजे॑वाजे हवामहे ।
    सखा॑य॒ इंद्र॑मू॒तये॑ ॥

    योगे-योगे तवस्तरं वाजे-वाजे हवामहे |
    सखाय इन्द्रम् ऊतये ||

    yógeyoge tavástaram vā́jevāje havāmahe ǀ
    sákhāya índramūtáye ǁ

    yoge-yoge tavastaraṃ vāje-vāje havāmahe |
    sakhāya indram ūtaye ||

    योगे॑ऽयोगे । त॒वःऽत॑रम् । वाजे॑ऽवाजे । ह॒वा॒म॒हे॒ ।
    सखा॑यः । इन्द्र॑म् । ऊ॒तये॑ ॥

    योगेऽयोगे । तवःऽतरम् । वाजेऽवाजे । हवामहे ।
    सखायः । इन्द्रम् । ऊतये ॥

    yóge-yoge ǀ taváḥ-taram ǀ vā́je-vāje ǀ havāmahe ǀ
    sákhāyaḥ ǀ índram ǀ ūtáye ǁ

    yoge-yoge ǀ tavaḥ-taram ǀ vāje-vāje ǀ havāmahe ǀ
    sakhāyaḥ ǀ indram ǀ ūtaye ǁ

    1.30.7 Aṣṭaka 1.2.29.2Anuvāka 1.6.82

  8. Ṛk 8

    आ घा॑ गम॒द्यदि॒ श्रव॑त्सह॒स्रिणी॑भिरू॒तिभिः॑ ।
    वाजे॑भि॒रुप॑ नो॒ हवं॑ ॥

    आ घा गमद् यदि श्रवत् सहस्रिणीभिर् ऊतिभिः |
    वाजेभिर् उप नो हवम् ||

    ā́ ghā gamadyádi śrávatsahasríṇībhirūtíbhiḥ ǀ
    vā́jebhirúpa no hávam ǁ

    ā ghā gamad yadi śravat sahasriṇībhir ūtibhiḥ |
    vājebhir upa no havam ||

    आ । घ॒ । ग॒म॒त् । यदि॑ । श्रव॑त् । स॒ह॒स्रिणी॑भिः । ऊ॒तिऽभिः॑ ।
    वाजे॑भिः । उप॑ । नः॒ । हव॑म् ॥

    आ । घ । गमत् । यदि । श्रवत् । सहस्रिणीभिः । ऊतिऽभिः ।
    वाजेभिः । उप । नः । हवम् ॥

    ā́ ǀ gha ǀ gamat ǀ yádi ǀ śrávat ǀ sahasríṇībhiḥ ǀ ūtí-bhiḥ ǀ
    vā́jebhiḥ ǀ úpa ǀ naḥ ǀ hávam ǁ

    ā ǀ gha ǀ gamat ǀ yadi ǀ śravat ǀ sahasriṇībhiḥ ǀ ūti-bhiḥ ǀ
    vājebhiḥ ǀ upa ǀ naḥ ǀ havam ǁ

    1.30.8 Aṣṭaka 1.2.29.3Anuvāka 1.6.83

  9. Ṛk 9

    अनु॑ प्र॒त्नस्यौक॑सो हु॒वे तु॑विप्र॒तिं नरं॑ ।
    यं ते॒ पूर्वं॑ पि॒ता हु॒वे ॥

    अनु प्रत्नस्यौकसो हुवे तुविप्रतिं नरम् |
    यं ते पूर्वम् पिता हुवे ||

    ánu pratnásyáukaso huvé tuvipratím náram ǀ
    yám te pū́rvam pitā́ huvé ǁ

    anu pratnasyaukaso huve tuvipratiṃ naram |
    yaṃ te pūrvam pitā huve ||

    अनु॑ । प्र॒त्नस्य॑ । ओक॑सः । हु॒वे । तु॒वि॒ऽप्र॒तिम् । नर॑म् ।
    यम् । ते॒ । पूर्व॑म् । पि॒ता । हु॒वे ॥

    अनु । प्रत्नस्य । ओकसः । हुवे । तुविऽप्रतिम् । नरम् ।
    यम् । ते । पूर्वम् । पिता । हुवे ॥

    ánu ǀ pratnásya ǀ ókasaḥ ǀ huvé ǀ tuvi-pratím ǀ náram ǀ
    yám ǀ te ǀ pū́rvam ǀ pitā́ ǀ huvé ǁ

    anu ǀ pratnasya ǀ okasaḥ ǀ huve ǀ tuvi-pratim ǀ naram ǀ
    yam ǀ te ǀ pūrvam ǀ pitā ǀ huve ǁ

    1.30.9 Aṣṭaka 1.2.29.4Anuvāka 1.6.84

  10. Ṛk 10

    तं त्वा॑ व॒यं वि॑श्ववा॒रा शा॑स्महे पुरुहूत ।
    सखे॑ वसो जरि॒तृभ्यः॑ ॥

    तं त्वा वयं विश्ववारा शास्महे पुरुहूत |
    सखे वसो जरितृभ्यः ||

    tám tvā vayám viśvavārā́ śāsmahe puruhūta ǀ
    sákhe vaso jaritṛ́bhyaḥ ǁ

    taṃ tvā vayaṃ viśvavārā śāsmahe puruhūta |
    sakhe vaso jaritṛbhyaḥ ||

    तम् । त्वा॒ । व॒यम् । वि॒श्व॒ऽवा॒र॒ । आ । शा॒स्म॒हे॒ । पु॒रु॒ऽहू॒त॒ ।
    सखे॑ । व॒सो॒ इति॑ । ज॒रि॒तृऽभ्यः॑ ॥

    तम् । त्वा । वयम् । विश्वऽवार । आ । शास्महे । पुरुऽहूत ।
    सखे । वसो इति । जरितृऽभ्यः ॥

    tám ǀ tvā ǀ vayám ǀ viśva-vāra ǀ ā́ ǀ śāsmahe ǀ puru-hūta ǀ
    sákhe ǀ vaso íti ǀ jaritṛ́-bhyaḥ ǁ

    tam ǀ tvā ǀ vayam ǀ viśva-vāra ǀ ā ǀ śāsmahe ǀ puru-hūta ǀ
    sakhe ǀ vaso iti ǀ jaritṛ-bhyaḥ ǁ

    1.30.10 Aṣṭaka 1.2.29.5Anuvāka 1.6.85

  11. Ṛk 11

    अ॒स्माकं॑ शि॒प्रिणी॑नां॒ सोम॑पाः सोम॒पाव्नां॑ ।
    सखे॑ वज्रि॒न्त्सखी॑नां ॥

    अस्माकं शिप्रिणीनां सोमपाः सोमपाव्नाम् |
    सखे वज्रिन् सखीनाम् ||

    asmā́kam śipríṇīnām sómapāḥ somapā́vnām ǀ
    sákhe vajrintsákhīnām ǁ

    asmākaṃ śipriṇīnāṃ somapāḥ somapāvnām |
    sakhe vajrin sakhīnām ||

    अ॒स्माक॑म् । शि॒प्रिणी॑नाम् । सोम॑ऽपाः । सो॒म॒ऽपाव्ना॑म् ।
    सखे॑ । व॒ज्रि॒न् । सखी॑नाम् ॥

    अस्माकम् । शिप्रिणीनाम् । सोमऽपाः । सोमऽपाव्नाम् ।
    सखे । वज्रिन् । सखीनाम् ॥

    asmā́kam ǀ śipríṇīnām ǀ sóma-pāḥ ǀ soma-pā́vnām ǀ
    sákhe ǀ vajrin ǀ sákhīnām ǁ

    asmākam ǀ śipriṇīnām ǀ soma-pāḥ ǀ soma-pāvnām ǀ
    sakhe ǀ vajrin ǀ sakhīnām ǁ

    1.30.11 Aṣṭaka 1.2.30.1Anuvāka 1.6.86

  12. Ṛk 12

    तथा॒ तद॑स्तु सोमपाः॒ सखे॑ वज्रिं॒तथा॑ कृणु ।
    यथा॑ त उ॒श्मसी॒ष्टये॑ ॥

    तथा तद् अस्तु सोमपाः सखे वज्रिन् तथा कृणु |
    यथा त उश्मसीष्टये ||

    táthā tádastu somapāḥ sákhe vajrintáthā kṛṇu ǀ
    yáthā ta uśmásīṣṭáye ǁ

    tathā tad astu somapāḥ sakhe vajrin tathā kṛṇu |
    yathā ta uśmasīṣṭaye ||

    तथा॑ । तत् । अ॒स्तु॒ । सो॒म॒ऽपाः॒ । सखे॑ । व॒ज्रि॒न् । तथा॑ । कृ॒णु॒ ।
    यथा॑ । ते॒ । उ॒श्मसि॑ । इ॒ष्टये॑ ॥

    तथा । तत् । अस्तु । सोमऽपाः । सखे । वज्रिन् । तथा । कृणु ।
    यथा । ते । उश्मसि । इष्टये ॥

    táthā ǀ tát ǀ astu ǀ soma-pāḥ ǀ sákhe ǀ vajrin ǀ táthā ǀ kṛṇu ǀ
    yáthā ǀ te ǀ uśmási ǀ iṣṭáye ǁ

    tathā ǀ tat ǀ astu ǀ soma-pāḥ ǀ sakhe ǀ vajrin ǀ tathā ǀ kṛṇu ǀ
    yathā ǀ te ǀ uśmasi ǀ iṣṭaye ǁ

    1.30.12 Aṣṭaka 1.2.30.2Anuvāka 1.6.87

  13. Ṛk 13

    रे॒वती॑र्नः सध॒माद॒ इंद्रे॑ संतु तु॒विवा॑जाः ।
    क्षु॒मंतो॒ याभि॒र्मदे॑म ॥

    रेवतीर् नः सधमाद इन्द्रे सन्तु तुविवाजाः |
    क्षुमन्तो याभिर् मदेम ||

    revátīrnaḥ sadhamā́da índre santu tuvívājāḥ ǀ
    kṣumánto yā́bhirmádema ǁ

    revatīr naḥ sadhamāda indre santu tuvivājāḥ |
    kṣumanto yābhir madema ||

    रे॒वतीः॑ । नः॒ । स॒ध॒ऽमादे॑ । इन्द्रे॑ । स॒न्तु॒ । तु॒विऽवा॑जाः ।
    क्षु॒ऽमन्तः॑ । याभिः॑ । मदे॑म ॥

    रेवतीः । नः । सधऽमादे । इन्द्रे । सन्तु । तुविऽवाजाः ।
    क्षुऽमन्तः । याभिः । मदेम ॥

    revátīḥ ǀ naḥ ǀ sadha-mā́de ǀ índre ǀ santu ǀ tuví-vājāḥ ǀ
    kṣu-mántaḥ ǀ yā́bhiḥ ǀ mádema ǁ

    revatīḥ ǀ naḥ ǀ sadha-māde ǀ indre ǀ santu ǀ tuvi-vājāḥ ǀ
    kṣu-mantaḥ ǀ yābhiḥ ǀ madema ǁ

    1.30.13 Aṣṭaka 1.2.30.3Anuvāka 1.6.88

  14. Ṛk 14

    आ घ॒ त्वावां॒त्मना॒प्तः स्तो॒तृभ्यो॑ धृष्णविया॒नः ।
    ऋ॒णोरक्षं॒ न च॒क्र्योः॑ ॥

    आ घ त्वावान् त्मनाप्त स्तोतृभ्यो धृष्णव् इयानः |
    ऋणोर् अक्षं न चक्र्योः ||

    ā́ gha tvā́vāntmánāptáḥ stotṛ́bhyo dhṛṣṇaviyānáḥ ǀ
    ṛṇórákṣam ná cakryóḥ ǁ

    ā gha tvāvān tmanāpta stotṛbhyo dhṛṣṇav iyānaḥ |
    ṛṇor akṣaṃ na cakryoḥ ||

    आ । घ॒ । त्वाऽवा॑न् । त्मना॑ । आ॒प्तः । स्तो॒तृऽभ्यः॑ । धृ॒ष्णो॒ इति॑ । इ॒या॒नः ।
    ऋ॒णोः । अक्ष॑म् । न । च॒क्र्योः॑ ॥

    आ । घ । त्वाऽवान् । त्मना । आप्तः । स्तोतृऽभ्यः । धृष्णो इति । इयानः ।
    ऋणोः । अक्षम् । न । चक्र्योः ॥

    ā́ ǀ gha ǀ tvā́-vān ǀ tmánā ǀ āptáḥ ǀ stotṛ́-bhyaḥ ǀ dhṛṣṇo íti ǀ iyānáḥ ǀ
    ṛṇóḥ ǀ ákṣam ǀ ná ǀ cakryóḥ ǁ

    ā ǀ gha ǀ tvā-vān ǀ tmanā ǀ āptaḥ ǀ stotṛ-bhyaḥ ǀ dhṛṣṇo iti ǀ iyānaḥ ǀ
    ṛṇoḥ ǀ akṣam ǀ na ǀ cakryoḥ ǁ

    1.30.14 Aṣṭaka 1.2.30.4Anuvāka 1.6.89

  15. Ṛk 15

    आ यद्दुवः॑ शतक्रत॒वा कामं॑ जरितॄ॒णां ।
    ऋ॒णोरक्षं॒ न शची॑भिः ॥

    आ यद् दुवः शतक्रतव् आ कामं जरितॄणाम् |
    ऋणोर् अक्षं न शचीभिः ||

    ā́ yáddúvaḥ śatakratavā́ kā́mam jaritṝṇā́m ǀ
    ṛṇórákṣam ná śácībhiḥ ǁ

    ā yad duvaḥ śatakratav ā kāmaṃ jaritṝṇām |
    ṛṇor akṣaṃ na śacībhiḥ ||

    आ । यत् । दुवः॑ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । आ । काम॑म् । ज॒रि॒तॄ॒णाम् ।
    ऋ॒णोः । अक्ष॑म् । न । शची॑भिः ॥

    आ । यत् । दुवः । शतक्रतो इति शतऽक्रतो । आ । कामम् । जरितॄणाम् ।
    ऋणोः । अक्षम् । न । शचीभिः ॥

    ā́ ǀ yát ǀ dúvaḥ ǀ śatakrato íti śata-krato ǀ ā́ ǀ kā́mam ǀ jaritṝṇā́m ǀ
    ṛṇóḥ ǀ ákṣam ǀ ná ǀ śácībhiḥ ǁ

    ā ǀ yat ǀ duvaḥ ǀ śatakrato iti śata-krato ǀ ā ǀ kāmam ǀ jaritṝṇām ǀ
    ṛṇoḥ ǀ akṣam ǀ na ǀ śacībhiḥ ǁ

    1.30.15 Aṣṭaka 1.2.30.5Anuvāka 1.6.90

  16. Ṛk 16

    शश्व॒दिंद्रः॒ पोप्रु॑थद्भिर्जिगाय॒ नान॑दद्भिः॒ शाश्व॑सद्भि॒र्धना॑नि ।
    स नो॑ हिरण्यर॒थं दं॒सना॑वा॒न्त्स नः॑ सनि॒ता स॒नये॒ स नो॑ऽदात् ॥

    शश्वद् इन्द्रः पोप्रुथद्भिर् जिगाय नानदद्भिः शाश्वसद्भिर् धनानि |
    स नो हिरण्यरथं दंसनावान् स नः सनिता सनये स नो ऽदात् ||

    śáśvadíndraḥ pópruthadbhirjigāya nā́nadadbhiḥ śā́śvasadbhirdhánāni ǀ
    sá no hiraṇyarathám daṃsánāvāntsá naḥ sanitā́ sanáye sá no’dāt ǁ

    śaśvad indraḥ popruthadbhir jigāya nānadadbhiḥ śāśvasadbhir dhanāni |
    sa no hiraṇyarathaṃ daṃsanāvān sa naḥ sanitā sanaye sa no 'dāt ||

    शश्व॑त् । इन्द्रः॑ । पोप्रु॑थत्ऽभिः । जि॒गा॒य॒ । नान॑दत्ऽभिः । शाश्व॑सत्ऽभिः । धना॑नि ।
    सः । नः॒ । हि॒र॒ण्य॒ऽर॒थम् । दं॒सना॑ऽवान् । सः । नः॒ । स॒नि॒ता । स॒नये॑ । सः । नः॒ । अ॒दा॒त् ॥

    शश्वत् । इन्द्रः । पोप्रुथत्ऽभिः । जिगाय । नानदत्ऽभिः । शाश्वसत्ऽभिः । धनानि ।
    सः । नः । हिरण्यऽरथम् । दंसनाऽवान् । सः । नः । सनिता । सनये । सः । नः । अदात् ॥

    śáśvat ǀ índraḥ ǀ pópruthat-bhiḥ ǀ jigāya ǀ nā́nadat-bhiḥ ǀ śā́śvasat-bhiḥ ǀ dhánāni ǀ
    sáḥ ǀ naḥ ǀ hiraṇya-rathám ǀ daṃsánā-vān ǀ sáḥ ǀ naḥ ǀ sanitā́ ǀ sanáye ǀ sáḥ ǀ naḥ ǀ adāt ǁ

    śaśvat ǀ indraḥ ǀ popruthat-bhiḥ ǀ jigāya ǀ nānadat-bhiḥ ǀ śāśvasat-bhiḥ ǀ dhanāni ǀ
    saḥ ǀ naḥ ǀ hiraṇya-ratham ǀ daṃsanā-vān ǀ saḥ ǀ naḥ ǀ sanitā ǀ sanaye ǀ saḥ ǀ naḥ ǀ adāt ǁ

    1.30.16 Aṣṭaka 1.2.31.1Anuvāka 1.6.91

  17. Ṛk 17

    आश्वि॑ना॒वश्वा॑वत्ये॒षा या॑तं॒ शवी॑रया ।
    गोम॑द्दस्रा॒ हिर॑ण्यवत् ॥

    आश्विनाव् अश्वावत्येषा यातं शवीरया |
    गोमद् दस्रा हिरण्यवत् ||

    ā́śvināváśvāvatyeṣā́ yātam śávīrayā ǀ
    gómaddasrā híraṇyavat ǁ

    āśvināv aśvāvatyeṣā yātaṃ śavīrayā |
    gomad dasrā hiraṇyavat ||

    आ । अ॒श्वि॒नौ॒ । अश्व॑ऽवत्या । इ॒षा । या॒त॒म् । शवी॑रया ।
    गोऽम॑त् । द॒स्रा॒ । हिर॑ण्यऽवत् ॥

    आ । अश्विनौ । अश्वऽवत्या । इषा । यातम् । शवीरया ।
    गोऽमत् । दस्रा । हिरण्यऽवत् ॥

    ā́ ǀ aśvinau ǀ áśva-vatyā ǀ iṣā́ ǀ yātam ǀ śávīrayā ǀ
    gó-mat ǀ dasrā ǀ híraṇya-vat ǁ

    ā ǀ aśvinau ǀ aśva-vatyā ǀ iṣā ǀ yātam ǀ śavīrayā ǀ
    go-mat ǀ dasrā ǀ hiraṇya-vat ǁ

    1.30.17 Aṣṭaka 1.2.31.2Anuvāka 1.6.92

  18. Ṛk 18

    स॒मा॒नयो॑जनो॒ हि वां॒ रथो॑ दस्रा॒वम॑र्त्यः ।
    स॒मु॒द्रे अ॑श्वि॒नेय॑ते ॥

    समानयोजनो हि वां रथो दस्राव् अमर्त्यः |
    समुद्रे अश्विनेयते ||

    samānáyojano hí vām rátho dasrāvámartyaḥ ǀ
    samudré aśvinéyate ǁ

    samānayojano hi vāṃ ratho dasrāv amartyaḥ |
    samudre aśvineyate ||

    स॒मा॒नऽयो॑जनः । हि । वा॒म् । रथः॑ । द॒स्रौ॒ । अम॑र्त्यः ।
    स॒मु॒द्रे । अ॒श्वि॒ना॒ । ईय॑ते ॥

    समानऽयोजनः । हि । वाम् । रथः । दस्रौ । अमर्त्यः ।
    समुद्रे । अश्विना । ईयते ॥

    samāná-yojanaḥ ǀ hí ǀ vām ǀ ráthaḥ ǀ dasrau ǀ ámartyaḥ ǀ
    samudré ǀ aśvinā ǀ ī́yate ǁ

    samāna-yojanaḥ ǀ hi ǀ vām ǀ rathaḥ ǀ dasrau ǀ amartyaḥ ǀ
    samudre ǀ aśvinā ǀ īyate ǁ

    1.30.18 Aṣṭaka 1.2.31.3Anuvāka 1.6.93

  19. Ṛk 19

    न्य१॒॑घ्न्यस्य॑ मू॒र्धनि॑ च॒क्रं रथ॑स्य येमथुः ।
    परि॒ द्याम॒न्यदी॑यते ॥

    न्य् अघ्न्यस्य मूर्धनि चक्रं रथस्य येमथुः |
    परि द्याम् अन्यद् ईयते ||

    nyághnyásya mūrdháni cakrám ráthasya yemathuḥ ǀ
    pári dyā́manyádīyate ǁ

    ny aghnyasya mūrdhani cakraṃ rathasya yemathuḥ |
    pari dyām anyad īyate ||

    नि । अ॒घ्न्यस्य॑ । मू॒र्धनि॑ । च॒क्रम् । रथ॑स्य । ये॒म॒थुः॒ ।
    परि॑ । द्याम् । अ॒न्यत् । ई॒य॒ते॒ ॥

    नि । अघ्न्यस्य । मूर्धनि । चक्रम् । रथस्य । येमथुः ।
    परि । द्याम् । अन्यत् । ईयते ॥

    ní ǀ aghnyásya ǀ mūrdháni ǀ cakrám ǀ ráthasya ǀ yemathuḥ ǀ
    pári ǀ dyā́m ǀ anyát ǀ īyate ǁ

    ni ǀ aghnyasya ǀ mūrdhani ǀ cakram ǀ rathasya ǀ yemathuḥ ǀ
    pari ǀ dyām ǀ anyat ǀ īyate ǁ

    1.30.19 Aṣṭaka 1.2.31.4Anuvāka 1.6.94

  20. Ṛk 20

    कस्त॑ उषः कधप्रिये भु॒जे मर्तो॑ अमर्त्ये ।
    कं न॑क्षसे विभावरि ॥

    कस् त उषः कधप्रिये भुजे मर्तो अमर्त्ये |
    कं नक्षसे विभावरि ||

    kásta uṣaḥ kadhapriye bhujé márto amartye ǀ
    kám nakṣase vibhāvari ǁ

    kas ta uṣaḥ kadhapriye bhuje marto amartye |
    kaṃ nakṣase vibhāvari ||

    कः । ते॒ । उ॒षः॒ । क॒ध॒ऽप्रि॒ये॒ । भु॒जे । मर्तः॑ । अ॒म॒र्त्ये॒ ।
    कम् । न॒क्ष॒से॒ । वि॒भा॒ऽव॒रि॒ ॥

    कः । ते । उषः । कधऽप्रिये । भुजे । मर्तः । अमर्त्ये ।
    कम् । नक्षसे । विभाऽवरि ॥

    káḥ ǀ te ǀ uṣaḥ ǀ kadha-priye ǀ bhujé ǀ mártaḥ ǀ amartye ǀ
    kám ǀ nakṣase ǀ vibhā-vari ǁ

    kaḥ ǀ te ǀ uṣaḥ ǀ kadha-priye ǀ bhuje ǀ martaḥ ǀ amartye ǀ
    kam ǀ nakṣase ǀ vibhā-vari ǁ

    1.30.20 Aṣṭaka 1.2.31.5Anuvāka 1.6.95

  21. Ṛk 21

    व॒यं हि ते॒ अम॑न्म॒ह्यांता॒दा प॑रा॒कात् ।
    अश्वे॒ न चि॑त्रे अरुषि ॥

    वयं हि ते अमन्मह्य् आन्ताद् आ पराकात् |
    अश्वे न चित्रे अरुषि ||

    vayám hí te ámanmahyā́ntādā́ parākā́t ǀ
    áśve ná citre aruṣi ǁ

    vayaṃ hi te amanmahy āntād ā parākāt |
    aśve na citre aruṣi ||

    व॒यम् । हि । ते॒ । अम॑न्महि । आ । अन्ता॑त् । आ । प॒रा॒कात् ।
    अश्वे॑ । न । चि॒त्रे॒ । अ॒रु॒षि॒ ॥

    वयम् । हि । ते । अमन्महि । आ । अन्तात् । आ । पराकात् ।
    अश्वे । न । चित्रे । अरुषि ॥

    vayám ǀ hí ǀ te ǀ ámanmahi ǀ ā́ ǀ ántāt ǀ ā́ ǀ parākā́t ǀ
    áśve ǀ ná ǀ citre ǀ aruṣi ǁ

    vayam ǀ hi ǀ te ǀ amanmahi ǀ ā ǀ antāt ǀ ā ǀ parākāt ǀ
    aśve ǀ na ǀ citre ǀ aruṣi ǁ

    1.30.21 Aṣṭaka 1.2.31.6Anuvāka 1.6.96

  22. Ṛk 22

    त्वं त्येभि॒रा ग॑हि॒ वाजे॑भिर्दुहितर्दिवः ।
    अ॒स्मे र॒यिं नि धा॑रय ॥

    त्वं त्येभिर् आ गहि वाजेभिर् दुहितर् दिवः |
    अस्मे रयिं नि धारय ||

    tvám tyébhirā́ gahi vā́jebhirduhitardivaḥ ǀ
    asmé rayím ní dhāraya ǁ

    tvaṃ tyebhir ā gahi vājebhir duhitar divaḥ |
    asme rayiṃ ni dhāraya ||

    त्वम् । त्येभिः॑ । आ । ग॒हि॒ । वाजे॑भिः । दु॒हि॒तः॒ । दि॒वः॒ ।
    अ॒स्मे इति॑ । र॒यिम् । नि । धा॒र॒य॒ ॥

    त्वम् । त्येभिः । आ । गहि । वाजेभिः । दुहितः । दिवः ।
    अस्मे इति । रयिम् । नि । धारय ॥

    tvám ǀ tyébhiḥ ǀ ā́ ǀ gahi ǀ vā́jebhiḥ ǀ duhitaḥ ǀ divaḥ ǀ
    asmé íti ǀ rayím ǀ ní ǀ dhāraya ǁ

    tvam ǀ tyebhiḥ ǀ ā ǀ gahi ǀ vājebhiḥ ǀ duhitaḥ ǀ divaḥ ǀ
    asme iti ǀ rayim ǀ ni ǀ dhāraya ǁ

    1.30.22 Aṣṭaka 1.2.31.7Anuvāka 1.6.97

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 1.30 · Indra · Aśvins · Uṣas

Interpretations

Sri Aurobindo

Ṛk 1

We foster for you, as one fattens a ram, Indra the strong slayer; sprinkle him with nectarous rain till he reaches his utmost fullness.

Ṛk 2

He who is alike the tranquillity of the pure and the force of the strong enjoyers, comes upon us as if pouring from above.

Ṛk 3

For his forceful delight thus in one’s inner being the sea maintaineth as it were its full expanse.

Ṛk 4

He is here with thee, and thou comest straying back like a dove to the home of its young; that is the word which is given us for our mind’s comprehension.

Ṛk 5

Master of ecstasies, strong one who upbearest the Word, may the hymn of praise to thee, since thou art even such, become a wide force of truth.

Ṛk 6

Stand on high for the expansion of our being, in firm plenty of substance, O Shatakratu; may we express it also in other gods.

Ṛk 7

O friends, we call for our expansions on Indra who grows fuller of force in every getting of fresh being and in every holding of substance gained.

Ṛk 8

. Surely he comes to us whenever he hears, with mighty expansions, with stores of substance to our call.

Ṛk 9

I call to his ancient house the strong one who is first in force, to whom even of old, when master of thee, I call

Ṛk 10

Therefore we, blessed with all boons, pray to thee (or get control of thee), O widely called, O friend of men, O full of substance for thy lovers.

Ṛk 11

O Thunderer, O friend, thou who drinkest the Soma of our loves when enraptured they have drunk!

Ṛk 12

Even so may this be, drinker of Soma, friend, thunderer, so do thou as is done in the heat of thee for the sacrifice.

Ṛk 13

May our ecstasied swiftnesses that intoxicate with fulfilment, be full of substance of force, that we may mount on the crests of the ecstasy and rejoice

Ṛk 14

[Not translated.]

Ṛk 15

[Not translated.]

Ṛk 16

Ever hath Indra by his forces far spreading, high shouting, breathing passionately, won riches for us. He has given us a car of great brightness and he preserves, ’tis for secure enjoyment that he gives.

Ṛk 17

O Aswins, lo she that is full of strong enjoying, by her in her brilliance do ye come, givers of that which is luminous and full of golden light.

Ṛk 18

O bounteous givers, your car immortal that is equally yoked, moveth over the sea, O ye Aswins.

Ṛk 19

Ye have driven, labouring, a wheel of your car over the head of the intangible, the other goeth through the heavens.

Ṛk 20

O Usha, beloved of [ ] who is the mortal that has enjoyed thee, O deathless one? to whom journeyest thou, O wide-shining Dawn?

Ṛk 21

For we have filled ourselves with the thought of thee from our last depths to our highest summits, O high-raptured, O richly hued, O rosy Dawn.

Ṛk 22

Come to us with these plenties, O daughter of heaven, contain for us the energy (of the world).