Sūkta 26
- Devatā देवता
- 1-3, 5-10: Agni; 4: Aryaman, Mitra, Varuṇa
- Ṛṣi ऋषि
- Śunaḥśepa Ājīgarti
- Chandas छन्दस्
- Gāyatrī
Metres by ṛk
1st set of styles ārcyuṣṇik (1, 8, 9); nicṛdgāyatrī (2, 6); gāyatrī (4, 10); virāḍgāyatrī (5, 7); pratiṣṭhāgāyatrī (3)
2nd set of styles gāyatrī
-
Ṛk 1
वसि॑ष्वा॒ हि मि॑येध्य॒ वस्त्रा॑ण्यूर्जां पते ।
सेमं नो॑ अध्व॒रं य॑ज ॥वसिष्वा हि मियेध्य वस्त्राण्य् ऊर्जाम् पते |
सेमं नो अध्वरं यज ||vásiṣvā hí miyedhya vástrāṇyūrjām pate ǀ
sémám no adhvarám yaja ǁvasiṣvā hi miyedhya vastrāṇy ūrjām pate |
semaṃ no adhvaraṃ yaja ||वसि॑ष्व । हि । मि॒ये॒ध्य॒ । वस्त्रा॑णि । ऊ॒र्जा॒म् । प॒ते॒ ।
सः । इ॒मम् । नः॒ । अ॒ध्व॒रम् । य॒ज॒ ॥वसिष्व । हि । मियेध्य । वस्त्राणि । ऊर्जाम् । पते ।
सः । इमम् । नः । अध्वरम् । यज ॥vásiṣva ǀ hí ǀ miyedhya ǀ vástrāṇi ǀ ūrjām ǀ pate ǀ
sáḥ ǀ imám ǀ naḥ ǀ adhvarám ǀ yaja ǁvasiṣva ǀ hi ǀ miyedhya ǀ vastrāṇi ǀ ūrjām ǀ pate ǀ
saḥ ǀ imam ǀ naḥ ǀ adhvaram ǀ yaja ǁ1.26.1 Aṣṭaka 1.2.20.1Anuvāka 1.6.37
-
Ṛk 2
नि नो॒ होता॒ वरे॑ण्यः॒ सदा॑ यविष्ठ॒ मन्म॑भिः ।
अग्ने॑ दि॒वित्म॑ता॒ वचः॑ ॥नि नो होता वरेण्यः सदा यविष्ठ मन्मभिः |
अग्ने दिवित्मता वचः ||ní no hótā váreṇyaḥ sádā yaviṣṭha mánmabhiḥ ǀ
ágne divítmatā vácaḥ ǁni no hotā vareṇyaḥ sadā yaviṣṭha manmabhiḥ |
agne divitmatā vacaḥ ||नि । नः॒ । होता॑ । वरे॑ण्यः । सदा॑ । य॒वि॒ष्ठ॒ । मन्म॑ऽभिः ।
अग्ने॑ । दि॒वित्म॑ता । वचः॑ ॥नि । नः । होता । वरेण्यः । सदा । यविष्ठ । मन्मऽभिः ।
अग्ने । दिवित्मता । वचः ॥ní ǀ naḥ ǀ hótā ǀ váreṇyaḥ ǀ sádā ǀ yaviṣṭha ǀ mánma-bhiḥ ǀ
ágne ǀ divítmatā ǀ vácaḥ ǁni ǀ naḥ ǀ hotā ǀ vareṇyaḥ ǀ sadā ǀ yaviṣṭha ǀ manma-bhiḥ ǀ
agne ǀ divitmatā ǀ vacaḥ ǁ1.26.2 Aṣṭaka 1.2.20.2Anuvāka 1.6.38
-
Ṛk 3
आ हि ष्मा॑ सू॒नवे॑ पि॒तापिर्यज॑त्या॒पये॑ ।
सखा॒ सख्ये॒ वरे॑ण्यः ॥आ हि ष्मा सूनवे पितापिर् यजत्य् आपये |
सखा सख्ये वरेण्यः ||ā́ hí ṣmā sūnáve pitā́píryájatyāpáye ǀ
sákhā sákhye váreṇyaḥ ǁā hi ṣmā sūnave pitāpir yajaty āpaye |
sakhā sakhye vareṇyaḥ ||आ । हि । स्म॒ । सू॒नवे॑ । पि॒ता । आ॒पिः । यज॑ति । आ॒पये॑ ।
सखा॑ । सख्ये॑ । वरे॑ण्यः ॥आ । हि । स्म । सूनवे । पिता । आपिः । यजति । आपये ।
सखा । सख्ये । वरेण्यः ॥ā́ ǀ hí ǀ sma ǀ sūnáve ǀ pitā́ ǀ āpíḥ ǀ yájati ǀ āpáye ǀ
sákhā ǀ sákhye ǀ váreṇyaḥ ǁā ǀ hi ǀ sma ǀ sūnave ǀ pitā ǀ āpiḥ ǀ yajati ǀ āpaye ǀ
sakhā ǀ sakhye ǀ vareṇyaḥ ǁ1.26.3 Aṣṭaka 1.2.20.3Anuvāka 1.6.39
-
Ṛk 4
आ नो॑ ब॒र्ही रि॒शाद॑सो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा ।
सीदं॑तु॒ मनु॑षो यथा ॥आ नो बर्ही रिशादसो वरुणो मित्रो अर्यमा |
सीदन्तु मनुषो यथा ||ā́ no barhī́ riśā́daso váruṇo mitró aryamā́ ǀ
sī́dantu mánuṣo yathā ǁā no barhī riśādaso varuṇo mitro aryamā |
sīdantu manuṣo yathā ||आ । नः॒ । ब॒र्हिः । रि॒शाद॑सः । वरु॑णः । मि॒त्रः । अ॒र्य॒मा ।
सीद॑न्तु । मनु॑षः । य॒था॒ ॥आ । नः । बर्हिः । रिशादसः । वरुणः । मित्रः । अर्यमा ।
सीदन्तु । मनुषः । यथा ॥ā́ ǀ naḥ ǀ barhíḥ ǀ riśā́dasaḥ ǀ váruṇaḥ ǀ mitráḥ ǀ aryamā́ ǀ
sī́dantu ǀ mánuṣaḥ ǀ yathā ǁā ǀ naḥ ǀ barhiḥ ǀ riśādasaḥ ǀ varuṇaḥ ǀ mitraḥ ǀ aryamā ǀ
sīdantu ǀ manuṣaḥ ǀ yathā ǁ1.26.4 Aṣṭaka 1.2.20.4Anuvāka 1.6.40
-
Ṛk 5
पूर्व्य॑ होतर॒स्य नो॒ मंद॑स्व स॒ख्यस्य॑ च ।
इ॒मा उ॒ षु श्रु॑धी॒ गिरः॑ ॥पूर्व्य होतर् अस्य नो मन्दस्व सख्यस्य च |
इमा उ षु श्रुधी गिरः ||pū́rvya hotarasyá no mándasva sakhyásya ca ǀ
imā́ u ṣú śrudhī gíraḥ ǁpūrvya hotar asya no mandasva sakhyasya ca |
imā u ṣu śrudhī giraḥ ||पूर्व्य॑ । हो॒तः॒ । अ॒स्य । नः॒ । मन्द॑स्व । स॒ख्यस्य॑ । च॒ ।
इ॒माः । ऊं॒ इति॑ । सु । श्रु॒धि॒ । गिरः॑ ॥पूर्व्य । होतः । अस्य । नः । मन्दस्व । सख्यस्य । च ।
इमाः । ऊं इति । सु । श्रुधि । गिरः ॥pū́rvya ǀ hotaḥ ǀ asyá ǀ naḥ ǀ mándasva ǀ sakhyásya ǀ ca ǀ
imā́ḥ ǀ ūṃ íti ǀ sú ǀ śrudhi ǀ gíraḥ ǁpūrvya ǀ hotaḥ ǀ asya ǀ naḥ ǀ mandasva ǀ sakhyasya ǀ ca ǀ
imāḥ ǀ ūṃ iti ǀ su ǀ śrudhi ǀ giraḥ ǁ1.26.5 Aṣṭaka 1.2.20.5Anuvāka 1.6.41
-
Ṛk 6
यच्चि॒द्धि शश्व॑ता॒ तना॑ दे॒वंदे॑वं॒ यजा॑महे ।
त्वे इद्धू॑यते ह॒विः ॥यच् चिद् धि शश्वता तना देवं-देवं यजामहे |
त्वे इद् धूयते हविः ||yácciddhí śáśvatā tánā deváṃdevam yájāmahe ǀ
tvé íddhūyate havíḥ ǁyac cid dhi śaśvatā tanā devaṃ-devaṃ yajāmahe |
tve id dhūyate haviḥ ||यत् । चि॒त् । हि । शश्व॑ता । तना॑ । दे॒वम्ऽदे॑वम् । यजा॑महे ।
त्वे इति॑ । इत् । हू॒य॒ते॒ । ह॒विः ॥यत् । चित् । हि । शश्वता । तना । देवम्ऽदेवम् । यजामहे ।
त्वे इति । इत् । हूयते । हविः ॥yát ǀ cit ǀ hí ǀ śáśvatā ǀ tánā ǀ devám-devam ǀ yájāmahe ǀ
tvé íti ǀ ít ǀ hūyate ǀ havíḥ ǁyat ǀ cit ǀ hi ǀ śaśvatā ǀ tanā ǀ devam-devam ǀ yajāmahe ǀ
tve iti ǀ it ǀ hūyate ǀ haviḥ ǁ1.26.6 Aṣṭaka 1.2.21.1Anuvāka 1.6.42
-
Ṛk 7
प्रि॒यो नो॑ अस्तु वि॒श्पति॒र्होता॑ मं॒द्रो वरे॑ण्यः ।
प्रि॒याः स्व॒ग्नयो॑ व॒यं ॥प्रियो नो अस्तु विश्पतिर् होता मन्द्रो वरेण्यः |
प्रियाः स्वग्नयो वयम् ||priyó no astu viśpátirhótā mandró váreṇyaḥ ǀ
priyā́ḥ svagnáyo vayám ǁpriyo no astu viśpatir hotā mandro vareṇyaḥ |
priyāḥ svagnayo vayam ||प्रि॒यः । नः॒ । अ॒स्तु॒ । वि॒श्पतिः॑ । होता॑ । म॒न्द्रः । वरे॑ण्यः ।
प्रि॒याः । सु॒ऽअ॒ग्नयः॑ । व॒यम् ॥प्रियः । नः । अस्तु । विश्पतिः । होता । मन्द्रः । वरेण्यः ।
प्रियाः । सुऽअग्नयः । वयम् ॥priyáḥ ǀ naḥ ǀ astu ǀ viśpátiḥ ǀ hótā ǀ mandráḥ ǀ váreṇyaḥ ǀ
priyā́ḥ ǀ su-agnáyaḥ ǀ vayám ǁpriyaḥ ǀ naḥ ǀ astu ǀ viśpatiḥ ǀ hotā ǀ mandraḥ ǀ vareṇyaḥ ǀ
priyāḥ ǀ su-agnayaḥ ǀ vayam ǁ1.26.7 Aṣṭaka 1.2.21.2Anuvāka 1.6.43
-
Ṛk 8
स्व॒ग्नयो॒ हि वार्यं॑ दे॒वासो॑ दधि॒रे च॑ नः ।
स्व॒ग्नयो॑ मनामहे ॥स्वग्नयो हि वार्यं देवासो दधिरे च नः |
स्वग्नयो मनामहे ||svagnáyo hí vā́ryam devā́so dadhiré ca naḥ ǀ
svagnáyo manāmahe ǁsvagnayo hi vāryaṃ devāso dadhire ca naḥ |
svagnayo manāmahe ||सु॒ऽअ॒ग्नयः॑ । हि । वार्य॑म् । दे॒वासः॑ । द॒धि॒रे । च॒ । नः॒ ।
सु॒ऽअ॒ग्नयः॑ । म॒ना॒म॒हे॒ ॥सुऽअग्नयः । हि । वार्यम् । देवासः । दधिरे । च । नः ।
सुऽअग्नयः । मनामहे ॥su-agnáyaḥ ǀ hí ǀ vā́ryam ǀ devā́saḥ ǀ dadhiré ǀ ca ǀ naḥ ǀ
su-agnáyaḥ ǀ manāmahe ǁsu-agnayaḥ ǀ hi ǀ vāryam ǀ devāsaḥ ǀ dadhire ǀ ca ǀ naḥ ǀ
su-agnayaḥ ǀ manāmahe ǁ1.26.8 Aṣṭaka 1.2.21.3Anuvāka 1.6.44
-
Ṛk 9
अथा॑ न उ॒भये॑षा॒ममृ॑त॒ मर्त्या॑नां ।
मि॒थः सं॑तु॒ प्रश॑स्तयः ॥अथा न उभयेषाम् अमृत मर्त्यानाम् |
मिथः सन्तु प्रशस्तयः ||áthā na ubháyeṣāmámṛta mártyānām ǀ
mitháḥ santu práśastayaḥ ǁathā na ubhayeṣām amṛta martyānām |
mithaḥ santu praśastayaḥ ||अथ॑ । नः॒ । उ॒भये॑षाम् । अमृ॑त । मर्त्या॑नाम् ।
मि॒थः । स॒न्तु॒ । प्रऽश॑स्तयः ॥अथ । नः । उभयेषाम् । अमृत । मर्त्यानाम् ।
मिथः । सन्तु । प्रऽशस्तयः ॥átha ǀ naḥ ǀ ubháyeṣām ǀ ámṛta ǀ mártyānām ǀ
mitháḥ ǀ santu ǀ prá-śastayaḥ ǁatha ǀ naḥ ǀ ubhayeṣām ǀ amṛta ǀ martyānām ǀ
mithaḥ ǀ santu ǀ pra-śastayaḥ ǁ1.26.9 Aṣṭaka 1.2.21.4Anuvāka 1.6.45
-
Ṛk 10
विश्वे॑भिरग्ने अ॒ग्निभि॑रि॒मं य॒ज्ञमि॒दं वचः॑ ।
चनो॑ धाः सहसो यहो ॥विश्वेभिर् अग्ने अग्निभिर् इमं यज्ञम् इदं वचः |
चनो धाः सहसो यहो ||víśvebhiragne agníbhirimám yajñámidám vácaḥ ǀ
cáno dhāḥ sahaso yaho ǁviśvebhir agne agnibhir imaṃ yajñam idaṃ vacaḥ |
cano dhāḥ sahaso yaho ||विश्वे॑भिः । अ॒ग्ने॒ । अ॒ग्निऽभिः॑ । इ॒मम् । य॒ज्ञम् । इ॒दम् । वचः॑ ।
चनः॑ । धाः॒ । स॒ह॒सः॒ । य॒हो॒ इति॑ ॥विश्वेभिः । अग्ने । अग्निऽभिः । इमम् । यज्ञम् । इदम् । वचः ।
चनः । धाः । सहसः । यहो इति ॥víśvebhiḥ ǀ agne ǀ agní-bhiḥ ǀ imám ǀ yajñám ǀ idám ǀ vácaḥ ǀ
cánaḥ ǀ dhāḥ ǀ sahasaḥ ǀ yaho íti ǁviśvebhiḥ ǀ agne ǀ agni-bhiḥ ǀ imam ǀ yajñam ǀ idam ǀ vacaḥ ǀ
canaḥ ǀ dhāḥ ǀ sahasaḥ ǀ yaho iti ǁ1.26.10 Aṣṭaka 1.2.21.5Anuvāka 1.6.46
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.