Sūkta 35
- Devatā देवता
- 1: Agni, Mitra, Varuṇa, Rātri, Savitṛ; 2-11: Savitṛ
- Ṛṣi ऋषि
- Hiraṇyastūpa Āṅgirasa
- Chandas छन्दस्
- Triṣṭubh, Jagatī
Metres by ṛk
1st set of styles virāṭtrisṭup (2, 4, 5, 10, 11); triṣṭup (3, 6); bhurikpaṅkti (7, 8); virāḍjagatī (1); nicṛjjagatī (9)
2nd set of styles triṣṭubh (2-8, 10-11); jagatī (1, 9)
-
Ṛk 1
ह्वया॑म्य॒ग्निं प्र॑थ॒मं स्व॒स्तये॒ ह्वया॑मि मि॒त्रावरु॑णावि॒हाव॑से ।
ह्वया॑मि॒ रात्रीं॒ जग॑तो नि॒वेश॑नीं॒ ह्वया॑मि दे॒वं स॑वि॒तार॑मू॒तये॑ ॥ह्वयाम्य् अग्निम् प्रथमं स्वस्तये ह्वयामि मित्रावरुणाव् इहावसे |
ह्वयामि रात्रीं जगतो निवेशनीं ह्वयामि देवं सवितारम् ऊतये ||hváyāmyagním prathamám svastáye hváyāmi mitrā́váruṇāvihā́vase ǀ
hváyāmi rā́trīm jágato nivéśanīm hváyāmi devám savitā́ramūtáye ǁhvayāmy agnim prathamaṃ svastaye hvayāmi mitrāvaruṇāv ihāvase |
hvayāmi rātrīṃ jagato niveśanīṃ hvayāmi devaṃ savitāram ūtaye ||ह्वया॑मि । अ॒ग्निम् । प्र॒थ॒मम् । स्व॒स्तये॑ । ह्वया॑मि । मि॒त्रावरु॑णौ । इ॒ह । अव॑से ।
ह्वया॑मि । रात्री॑म् । जग॑तः । नि॒ऽवेश॑नीम् । ह्वया॑मि । दे॒वम् । स॒वि॒तार॑म् । ऊ॒तये॑ ॥ह्वयामि । अग्निम् । प्रथमम् । स्वस्तये । ह्वयामि । मित्रावरुणौ । इह । अवसे ।
ह्वयामि । रात्रीम् । जगतः । निऽवेशनीम् । ह्वयामि । देवम् । सवितारम् । ऊतये ॥hváyāmi ǀ agním ǀ prathamám ǀ svastáye ǀ hváyāmi ǀ mitrā́váruṇau ǀ ihá ǀ ávase ǀ
hváyāmi ǀ rā́trīm ǀ jágataḥ ǀ ni-véśanīm ǀ hváyāmi ǀ devám ǀ savitā́ram ǀ ūtáye ǁhvayāmi ǀ agnim ǀ prathamam ǀ svastaye ǀ hvayāmi ǀ mitrāvaruṇau ǀ iha ǀ avase ǀ
hvayāmi ǀ rātrīm ǀ jagataḥ ǀ ni-veśanīm ǀ hvayāmi ǀ devam ǀ savitāram ǀ ūtaye ǁ1.35.1 Aṣṭaka 1.3.6.1Anuvāka 1.7.61
-
Ṛk 2
आ कृ॒ष्णेन॒ रज॑सा॒ वर्त॑मानो निवे॒शय॑न्न॒मृतं॒ मर्त्यं॑ च ।
हि॒र॒ण्यये॑न सवि॒ता रथे॒ना दे॒वो या॑ति॒ भुव॑नानि॒ पश्य॑न् ॥आ कृष्णेन रजसा वर्तमानो निवेशयन्न् अमृतम् मर्त्यं च |
हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन् ||ā́ kṛṣṇéna rájasā vártamāno niveśáyannamṛ́tam mártyam ca ǀ
hiraṇyáyena savitā́ ráthenā́ devó yāti bhúvanāni páśyan ǁā kṛṣṇena rajasā vartamāno niveśayann amṛtam martyaṃ ca |
hiraṇyayena savitā rathenā devo yāti bhuvanāni paśyan ||आ । कृ॒ष्णेन॑ । रज॑सा । वर्त॑मानः । नि॒ऽवे॒शय॑न् । अ॒मृत॑म् । मर्त्य॑म् । च॒ ।
हि॒र॒ण्यये॑न । स॒वि॒ता । रथे॑न । आ । दे॒वः । या॒ति॒ । भुव॑नानि । पश्य॑न् ॥आ । कृष्णेन । रजसा । वर्तमानः । निऽवेशयन् । अमृतम् । मर्त्यम् । च ।
हिरण्ययेन । सविता । रथेन । आ । देवः । याति । भुवनानि । पश्यन् ॥ā́ ǀ kṛṣṇéna ǀ rájasā ǀ vártamānaḥ ǀ ni-veśáyan ǀ amṛ́tam ǀ mártyam ǀ ca ǀ
hiraṇyáyena ǀ savitā́ ǀ ráthena ǀ ā́ ǀ deváḥ ǀ yāti ǀ bhúvanāni ǀ páśyan ǁā ǀ kṛṣṇena ǀ rajasā ǀ vartamānaḥ ǀ ni-veśayan ǀ amṛtam ǀ martyam ǀ ca ǀ
hiraṇyayena ǀ savitā ǀ rathena ǀ ā ǀ devaḥ ǀ yāti ǀ bhuvanāni ǀ paśyan ǁ1.35.2 Aṣṭaka 1.3.6.2Anuvāka 1.7.62
-
Ṛk 3
याति॑ दे॒वः प्र॒वता॒ यात्यु॒द्वता॒ याति॑ शु॒भ्राभ्यां॑ यज॒तो हरि॑भ्यां ।
आ दे॒वो या॑ति सवि॒ता प॑रा॒वतोऽप॒ विश्वा॑ दुरि॒ता बाध॑मानः ॥याति देवः प्रवता यात्य् उद्वता याति शुभ्राभ्यां यजतो हरिभ्याम् |
आ देवो याति सविता परावतो ऽप विश्वा दुरिता बाधमानः ||yā́ti deváḥ pravátā yā́tyudvátā yā́ti śubhrā́bhyām yajató háribhyām ǀ
ā́ devó yāti savitā́ parāvátó’pa víśvā duritā́ bā́dhamānaḥ ǁyāti devaḥ pravatā yāty udvatā yāti śubhrābhyāṃ yajato haribhyām |
ā devo yāti savitā parāvato 'pa viśvā duritā bādhamānaḥ ||याति॑ । दे॒वः । प्र॒ऽवता॑ । याति॑ । उ॒त्ऽवता॑ । याति॑ । शु॒भ्राभ्या॑म् । य॒ज॒तः । हरि॑ऽभ्याम् ।
आ । दे॒वः । या॒ति॒ । स॒वि॒ता । प॒रा॒ऽवतः॑ । अप॑ । विश्वा॑ । दुः॒ऽइ॒ता । बाध॑मानः ॥याति । देवः । प्रऽवता । याति । उत्ऽवता । याति । शुभ्राभ्याम् । यजतः । हरिऽभ्याम् ।
आ । देवः । याति । सविता । पराऽवतः । अप । विश्वा । दुःऽइता । बाधमानः ॥yā́ti ǀ deváḥ ǀ pra-vátā ǀ yā́ti ǀ ut-vátā ǀ yā́ti ǀ śubhrā́bhyām ǀ yajatáḥ ǀ hári-bhyām ǀ
ā́ ǀ deváḥ ǀ yāti ǀ savitā́ ǀ parā-vátaḥ ǀ ápa ǀ víśvā ǀ duḥ-itā́ ǀ bā́dhamānaḥ ǁyāti ǀ devaḥ ǀ pra-vatā ǀ yāti ǀ ut-vatā ǀ yāti ǀ śubhrābhyām ǀ yajataḥ ǀ hari-bhyām ǀ
ā ǀ devaḥ ǀ yāti ǀ savitā ǀ parā-vataḥ ǀ apa ǀ viśvā ǀ duḥ-itā ǀ bādhamānaḥ ǁ1.35.3 Aṣṭaka 1.3.6.3Anuvāka 1.7.63
-
Ṛk 4
अ॒भीवृ॑तं॒ कृश॑नैर्वि॒श्वरू॑पं॒ हिर॑ण्यशम्यं यज॒तो बृ॒हंतं॑ ।
आस्था॒द्रथं॑ सवि॒ता चि॒त्रभा॑नुः कृ॒ष्णा रजां॑सि॒ तवि॑षीं॒ दधा॑नः ॥अभीवृतं कृशनैर् विश्वरूपं हिरण्यशम्यं यजतो बृहन्तम् |
आस्थाद् रथं सविता चित्रभानुः कृष्णा रजांसि तविषीं दधानः ||abhī́vṛtam kṛ́śanairviśvárūpam híraṇyaśamyam yajató bṛhántam ǀ
ā́sthādrátham savitā́ citrábhānuḥ kṛṣṇā́ rájāṃsi táviṣīm dádhānaḥ ǁabhīvṛtaṃ kṛśanair viśvarūpaṃ hiraṇyaśamyaṃ yajato bṛhantam |
āsthād rathaṃ savitā citrabhānuḥ kṛṣṇā rajāṃsi taviṣīṃ dadhānaḥ ||अ॒भिऽवृ॑तम् । कृश॑नैः । वि॒श्वऽरू॑पम् । हिर॑ण्यऽशम्यम् । य॒ज॒तः । बृ॒हन्त॑म् ।
आ । अ॒स्था॒त् । रथ॑म् । स॒वि॒ता । चि॒त्रऽभा॑नुः । कृ॒ष्णा । रजां॑सि । तवि॑षीम् । दधा॑नः ॥अभिऽवृतम् । कृशनैः । विश्वऽरूपम् । हिरण्यऽशम्यम् । यजतः । बृहन्तम् ।
आ । अस्थात् । रथम् । सविता । चित्रऽभानुः । कृष्णा । रजांसि । तविषीम् । दधानः ॥abhí-vṛtam ǀ kṛ́śanaiḥ ǀ viśvá-rūpam ǀ híraṇya-śamyam ǀ yajatáḥ ǀ bṛhántam ǀ
ā́ ǀ asthāt ǀ rátham ǀ savitā́ ǀ citrá-bhānuḥ ǀ kṛṣṇā́ ǀ rájāṃsi ǀ táviṣīm ǀ dádhānaḥ ǁabhi-vṛtam ǀ kṛśanaiḥ ǀ viśva-rūpam ǀ hiraṇya-śamyam ǀ yajataḥ ǀ bṛhantam ǀ
ā ǀ asthāt ǀ ratham ǀ savitā ǀ citra-bhānuḥ ǀ kṛṣṇā ǀ rajāṃsi ǀ taviṣīm ǀ dadhānaḥ ǁ1.35.4 Aṣṭaka 1.3.6.4Anuvāka 1.7.64
-
Ṛk 5
वि जनां॑छ्या॒वाः शि॑ति॒पादो॑ अख्य॒न्रथं॒ हिर॑ण्यप्रउगं॒ वहं॑तः ।
शश्व॒द्विशः॑ सवि॒तुर्दैव्य॑स्यो॒पस्थे॒ विश्वा॒ भुव॑नानि तस्थुः ॥वि जनाञ् छ्यावाः शितिपादो अख्यन् रथं हिरण्यप्रौगं वहन्तः |
शश्वद् विशः सवितुर् दैव्यस्योपस्थे विश्वा भुवनानि तस्थुः ||ví jánāñchyāvā́ḥ śitipā́do akhyanrátham híraṇyapra+ugam váhantaḥ ǀ
śáśvadvíśaḥ savitúrdáivyasyopásthe víśvā bhúvanāni tasthuḥ ǁvi janāñ chyāvāḥ śitipādo akhyan rathaṃ hiraṇyapraugaṃ vahantaḥ |
śaśvad viśaḥ savitur daivyasyopasthe viśvā bhuvanāni tasthuḥ ||वि । जना॑न् । श्या॒वाः । शि॒ति॒ऽपादः॑ । अ॒ख्य॒न् । रथ॑म् । हिर॑ण्यऽप्रउग॒म् । वह॑न्तः ।
शश्व॑त् । विशः॑ । स॒वि॒तुः । दैव्य॑स्य । उ॒पऽस्थे॑ । विश्वा॑ । भुव॑नानि । त॒स्थुः॒ ॥वि । जनान् । श्यावाः । शितिऽपादः । अख्यन् । रथम् । हिरण्यऽप्रउगम् । वहन्तः ।
शश्वत् । विशः । सवितुः । दैव्यस्य । उपऽस्थे । विश्वा । भुवनानि । तस्थुः ॥ví ǀ jánān ǀ śyāvā́ḥ ǀ śiti-pā́daḥ ǀ akhyan ǀ rátham ǀ híraṇya-pra_ugam ǀ váhantaḥ ǀ
śáśvat ǀ víśaḥ ǀ savitúḥ ǀ dáivyasya ǀ upá-sthe ǀ víśvā ǀ bhúvanāni ǀ tasthuḥ ǁvi ǀ janān ǀ śyāvāḥ ǀ śiti-pādaḥ ǀ akhyan ǀ ratham ǀ hiraṇya-pra_ugam ǀ vahantaḥ ǀ
śaśvat ǀ viśaḥ ǀ savituḥ ǀ daivyasya ǀ upa-sthe ǀ viśvā ǀ bhuvanāni ǀ tasthuḥ ǁ1.35.5 Aṣṭaka 1.3.6.5Anuvāka 1.7.65
-
Ṛk 6
ति॒स्रो द्यावः॑ सवि॒तुर्द्वा उ॒पस्थाँ॒ एका॑ य॒मस्य॒ भुव॑ने विरा॒षाट् ।
आ॒णिं न रथ्य॑म॒मृताधि॑ तस्थुरि॒ह ब्र॑वीतु॒ य उ॒ तच्चिके॑तत् ॥तिस्रो द्यावः सवितुर् द्वा उपस्थां एका यमस्य भुवने विराषाट् |
आणिं न रथ्यम् अमृताधि तस्थुर् इह ब्रवीतु य उ तच् चिकेतत् ||tisró dyā́vaḥ savitúrdvā́ upásthām̐ ékā yamásya bhúvane virāṣā́ṭ ǀ
āṇím ná ráthyamamṛ́tā́dhi tasthurihá bravītu yá u táccíketat ǁtisro dyāvaḥ savitur dvā upasthāṃ ekā yamasya bhuvane virāṣāṭ |
āṇiṃ na rathyam amṛtādhi tasthur iha bravītu ya u tac ciketat ||ति॒स्रः । द्यावः॑ । स॒वि॒तुः । द्वौ । उ॒पऽस्था॑ । एका॑ । य॒मस्य॑ । भुव॑ने । वि॒रा॒षाट् ।
आ॒णिम् । न । रथ्य॑म् । अ॒मृता॑ । अधि॑ । त॒स्थुः॒ । इ॒ह । ब्र॒वी॒तु॒ । यः । ऊं॒ इति॑ । तत् । चिके॑तत् ॥तिस्रः । द्यावः । सवितुः । द्वौ । उपऽस्था । एका । यमस्य । भुवने । विराषाट् ।
आणिम् । न । रथ्यम् । अमृता । अधि । तस्थुः । इह । ब्रवीतु । यः । ऊं इति । तत् । चिकेतत् ॥tisráḥ ǀ dyā́vaḥ ǀ savitúḥ ǀ dváu ǀ upá-sthā ǀ ékā ǀ yamásya ǀ bhúvane ǀ virāṣā́ṭ ǀ
āṇím ǀ ná ǀ ráthyam ǀ amṛ́tā ǀ ádhi ǀ tasthuḥ ǀ ihá ǀ bravītu ǀ yáḥ ǀ ūṃ íti ǀ tát ǀ cíketat ǁtisraḥ ǀ dyāvaḥ ǀ savituḥ ǀ dvau ǀ upa-sthā ǀ ekā ǀ yamasya ǀ bhuvane ǀ virāṣāṭ ǀ
āṇim ǀ na ǀ rathyam ǀ amṛtā ǀ adhi ǀ tasthuḥ ǀ iha ǀ bravītu ǀ yaḥ ǀ ūṃ iti ǀ tat ǀ ciketat ǁ1.35.6 Aṣṭaka 1.3.6.6Anuvāka 1.7.66
-
Ṛk 7
वि सु॑प॒र्णो अं॒तरि॑क्षाण्यख्यद्गभी॒रवे॑पा॒ असु॑रः सुनी॒थः ।
क्वे॒३॒॑दानीं॒ सूर्यः॒ कश्चि॑केत कत॒मां द्यां र॒श्मिर॒स्या त॑तान ॥वि सुपर्णो अन्तरिक्षाण्य् अख्यद् गभीरवेपा असुरः सुनीथः |
क्वेदानीं सूर्यः कश् चिकेत कतमां द्यां रश्मिर् अस्या ततान ||ví suparṇó antárikṣāṇyakhyadgabhīrávepā ásuraḥ sunītháḥ ǀ
kvédā́nīm sū́ryaḥ káściketa katamā́m dyā́m raśmírasyā́ tatāna ǁvi suparṇo antarikṣāṇy akhyad gabhīravepā asuraḥ sunīthaḥ |
kvedānīṃ sūryaḥ kaś ciketa katamāṃ dyāṃ raśmir asyā tatāna ||वि । सु॒ऽप॒र्णः । अ॒न्तरि॑क्षाणि । अ॒ख्य॒त् । ग॒भी॒रऽवे॑पाः । असु॑रः । सु॒ऽनी॒थः ।
क्व॑ । इ॒दानी॑म् । सूर्यः॑ । कः । चि॒के॒त॒ । क॒त॒माम् । द्याम् । र॒श्मिः । अ॒स्य॒ । आ । त॒ता॒न॒ ॥वि । सुऽपर्णः । अन्तरिक्षाणि । अख्यत् । गभीरऽवेपाः । असुरः । सुऽनीथः ।
क्व । इदानीम् । सूर्यः । कः । चिकेत । कतमाम् । द्याम् । रश्मिः । अस्य । आ । ततान ॥ví ǀ su-parṇáḥ ǀ antárikṣāṇi ǀ akhyat ǀ gabhīrá-vepāḥ ǀ ásuraḥ ǀ su-nītháḥ ǀ
kvá ǀ idā́nīm ǀ sū́ryaḥ ǀ káḥ ǀ ciketa ǀ katamā́m ǀ dyā́m ǀ raśmíḥ ǀ asya ǀ ā́ ǀ tatāna ǁvi ǀ su-parṇaḥ ǀ antarikṣāṇi ǀ akhyat ǀ gabhīra-vepāḥ ǀ asuraḥ ǀ su-nīthaḥ ǀ
kva ǀ idānīm ǀ sūryaḥ ǀ kaḥ ǀ ciketa ǀ katamām ǀ dyām ǀ raśmiḥ ǀ asya ǀ ā ǀ tatāna ǁ1.35.7 Aṣṭaka 1.3.7.1Anuvāka 1.7.67
-
Ṛk 8
अ॒ष्टौ व्य॑ख्यत्क॒कुभः॑ पृथि॒व्यास्त्री धन्व॒ योज॑ना स॒प्त सिंधू॑न् ।
हि॒र॒ण्या॒क्षः स॑वि॒ता दे॒व आगा॒द्दध॒द्रत्ना॑ दा॒शुषे॒ वार्या॑णि ॥अष्टौ व्य् अख्यत् ककुभः पृथिव्यास् त्री धन्व योजना सप्त सिन्धून् |
हिरण्याक्षः सविता देव आगाद् दधद् रत्ना दाशुषे वार्याणि ||aṣṭáu vyákhyatkakúbhaḥ pṛthivyā́strī́ dhánva yójanā saptá síndhūn ǀ
hiraṇyākṣáḥ savitā́ devá ā́gāddádhadrátnā dāśúṣe vā́ryāṇi ǁaṣṭau vy akhyat kakubhaḥ pṛthivyās trī dhanva yojanā sapta sindhūn |
hiraṇyākṣaḥ savitā deva āgād dadhad ratnā dāśuṣe vāryāṇi ||अ॒ष्टौ । वि । अ॒ख्य॒त् । क॒कुभः॑ । पृ॒थि॒व्याः । त्री । धन्व॑ । योज॑ना । स॒प्त । सिन्धू॑न् ।
हि॒र॒ण्य॒ऽअ॒क्षः । स॒वि॒ता । दे॒वः । आ । अ॒गा॒त् । दध॑त् । रत्ना॑ । दा॒शुषे॑ । वार्या॑णि ॥अष्टौ । वि । अख्यत् । ककुभः । पृथिव्याः । त्री । धन्व । योजना । सप्त । सिन्धून् ।
हिरण्यऽअक्षः । सविता । देवः । आ । अगात् । दधत् । रत्ना । दाशुषे । वार्याणि ॥aṣṭáu ǀ ví ǀ akhyat ǀ kakúbhaḥ ǀ pṛthivyā́ḥ ǀ trī́ ǀ dhánva ǀ yójanā ǀ saptá ǀ síndhūn ǀ
hiraṇya-akṣáḥ ǀ savitā́ ǀ deváḥ ǀ ā́ ǀ agāt ǀ dádhat ǀ rátnā ǀ dāśúṣe ǀ vā́ryāṇi ǁaṣṭau ǀ vi ǀ akhyat ǀ kakubhaḥ ǀ pṛthivyāḥ ǀ trī ǀ dhanva ǀ yojanā ǀ sapta ǀ sindhūn ǀ
hiraṇya-akṣaḥ ǀ savitā ǀ devaḥ ǀ ā ǀ agāt ǀ dadhat ǀ ratnā ǀ dāśuṣe ǀ vāryāṇi ǁ1.35.8 Aṣṭaka 1.3.7.2Anuvāka 1.7.68
-
Ṛk 9
हिर॑ण्यपाणिः सवि॒ता विच॑र्षणिरु॒भे द्यावा॑पृथि॒वी अं॒तरी॑यते ।
अपामी॑वां॒ बाध॑ते॒ वेति॒ सूर्य॑म॒भि कृ॒ष्णेन॒ रज॑सा॒ द्यामृ॑णोति ॥हिरण्यपाणिः सविता विचर्षणिर् उभे द्यावापृथिवी अन्तर् ईयते |
अपामीवाम् बाधते वेति सूर्यम् अभि कृष्णेन रजसा द्याम् ऋणोति ||híraṇyapāṇiḥ savitā́ vícarṣaṇirubhé dyā́vāpṛthivī́ antárīyate ǀ
ápā́mīvām bā́dhate véti sū́ryamabhí kṛṣṇéna rájasā dyā́mṛṇoti ǁhiraṇyapāṇiḥ savitā vicarṣaṇir ubhe dyāvāpṛthivī antar īyate |
apāmīvām bādhate veti sūryam abhi kṛṣṇena rajasā dyām ṛṇoti ||हिर॑ण्यऽपाणिः । स॒वि॒ता । विऽच॑र्षणिः । उ॒भे इति॑ । द्यावा॑पृथि॒वी इति॑ । अ॒न्तः । ई॒य॒ते॒ ।
अप॑ । अमी॑वाम् । बाध॑ते । वेति॑ । सूर्य॑म् । अ॒भि । कृ॒ष्णेन॑ । रज॑सा । द्याम् । ऋ॒णो॒ति॒ ॥हिरण्यऽपाणिः । सविता । विऽचर्षणिः । उभे इति । द्यावापृथिवी इति । अन्तः । ईयते ।
अप । अमीवाम् । बाधते । वेति । सूर्यम् । अभि । कृष्णेन । रजसा । द्याम् । ऋणोति ॥híraṇya-pāṇiḥ ǀ savitā́ ǀ ví-carṣaṇiḥ ǀ ubhé íti ǀ dyā́vāpṛthivī́ íti ǀ antáḥ ǀ īyate ǀ
ápa ǀ ámīvām ǀ bā́dhate ǀ véti ǀ sū́ryam ǀ abhí ǀ kṛṣṇéna ǀ rájasā ǀ dyā́m ǀ ṛṇoti ǁhiraṇya-pāṇiḥ ǀ savitā ǀ vi-carṣaṇiḥ ǀ ubhe iti ǀ dyāvāpṛthivī iti ǀ antaḥ ǀ īyate ǀ
apa ǀ amīvām ǀ bādhate ǀ veti ǀ sūryam ǀ abhi ǀ kṛṣṇena ǀ rajasā ǀ dyām ǀ ṛṇoti ǁ1.35.9 Aṣṭaka 1.3.7.3Anuvāka 1.7.69
-
Ṛk 10
हिर॑ण्यहस्तो॒ असु॑रः सुनी॒थः सु॑मृळी॒कः स्ववाँ॑ यात्व॒र्वाङ् ।
अ॒प॒सेध॑न्र॒क्षसो॑ यातु॒धाना॒नस्था॑द्दे॒वः प्र॑तिदो॒षं गृ॑णा॒नः ॥हिरण्यहस्तो असुरः सुनीथः सुमृऌईकः स्ववां यात्व् अर्वाङ् |
अपसेधन् रक्षसो यातुधानान् अस्थाद् देवः प्रतिदोषं गृणानः ||híraṇyahasto ásuraḥ sunītháḥ sumṛḷīkáḥ svávām̐ yātvarvā́ṅ ǀ
apasédhanrakṣáso yātudhā́nānásthāddeváḥ pratidoṣám gṛṇānáḥ ǁhiraṇyahasto asuraḥ sunīthaḥ sumṛḷīkaḥ svavāṃ yātv arvāṅ |
apasedhan rakṣaso yātudhānān asthād devaḥ pratidoṣaṃ gṛṇānaḥ ||हिर॑ण्यऽहस्तः । असु॑रः । सु॒ऽनी॒थः । सु॒ऽमृ॒ळी॒कः । स्वऽवा॑न् । या॒तु॒ । अ॒र्वाङ् ।
अ॒प॒ऽसेध॑न् । र॒क्षसः॑ । या॒तु॒ऽधाना॑न् । अस्था॑त् । दे॒वः । प्र॒ति॒ऽदो॒षम् । गृ॒णा॒नः ॥हिरण्यऽहस्तः । असुरः । सुऽनीथः । सुऽमृळीकः । स्वऽवान् । यातु । अर्वाङ् ।
अपऽसेधन् । रक्षसः । यातुऽधानान् । अस्थात् । देवः । प्रतिऽदोषम् । गृणानः ॥híraṇya-hastaḥ ǀ ásuraḥ ǀ su-nītháḥ ǀ su-mṛḷīkáḥ ǀ svá-vān ǀ yātu ǀ arvā́ṅ ǀ
apa-sédhan ǀ rakṣásaḥ ǀ yātu-dhā́nān ǀ ásthāt ǀ deváḥ ǀ prati-doṣám ǀ gṛṇānáḥ ǁhiraṇya-hastaḥ ǀ asuraḥ ǀ su-nīthaḥ ǀ su-mṛḷīkaḥ ǀ sva-vān ǀ yātu ǀ arvāṅ ǀ
apa-sedhan ǀ rakṣasaḥ ǀ yātu-dhānān ǀ asthāt ǀ devaḥ ǀ prati-doṣam ǀ gṛṇānaḥ ǁ1.35.10 Aṣṭaka 1.3.7.4Anuvāka 1.7.70
-
Ṛk 11
ये ते॒ पंथाः॑ सवितः पू॒र्व्यासो॑ऽरे॒णवः॒ सुकृ॑ता अं॒तरि॑क्षे ।
तेभि॑र्नो अ॒द्य प॒थिभिः॑ सु॒गेभी॒ रक्षा॑ च नो॒ अधि॑ च ब्रूहि देव ॥ये ते पन्थाः सवितः पूर्व्यासो ऽरेणवः सुकृता अन्तरिक्षे |
तेभिर् नो अद्य पथिभिः सुगेभी रक्षा च नो अधि च ब्रूहि देव ||yé te pánthāḥ savitaḥ pūrvyā́so’reṇávaḥ súkṛtā antárikṣe ǀ
tébhirno adyá pathíbhiḥ sugébhī rákṣā ca no ádhi ca brūhi deva ǁye te panthāḥ savitaḥ pūrvyāso 'reṇavaḥ sukṛtā antarikṣe |
tebhir no adya pathibhiḥ sugebhī rakṣā ca no adhi ca brūhi deva ||ये । ते॒ । पन्थाः॑ । स॒वि॒त॒रिति॑ । पू॒र्व्यासः॑ । अ॒रे॒णवः॑ । सुऽकृ॑ताः । अ॒न्तरि॑क्षे ।
तेभिः॑ । नः॒ । अ॒द्य । प॒थिऽभिः॑ । सु॒ऽगेभिः॑ । रक्ष॑ । च॒ । नः॒ । अधि॑ । च॒ । ब्रू॒हि॒ । दे॒व॒ ॥ये । ते । पन्थाः । सवितरिति । पूर्व्यासः । अरेणवः । सुऽकृताः । अन्तरिक्षे ।
तेभिः । नः । अद्य । पथिऽभिः । सुऽगेभिः । रक्ष । च । नः । अधि । च । ब्रूहि । देव ॥yé ǀ te ǀ pánthāḥ ǀ savitaríti ǀ pūrvyā́saḥ ǀ areṇávaḥ ǀ sú-kṛtāḥ ǀ antárikṣe ǀ
tébhiḥ ǀ naḥ ǀ adyá ǀ pathí-bhiḥ ǀ su-gébhiḥ ǀ rákṣa ǀ ca ǀ naḥ ǀ ádhi ǀ ca ǀ brūhi ǀ deva ǁye ǀ te ǀ panthāḥ ǀ savitariti ǀ pūrvyāsaḥ ǀ areṇavaḥ ǀ su-kṛtāḥ ǀ antarikṣe ǀ
tebhiḥ ǀ naḥ ǀ adya ǀ pathi-bhiḥ ǀ su-gebhiḥ ǀ rakṣa ǀ ca ǀ naḥ ǀ adhi ǀ ca ǀ brūhi ǀ deva ǁ1.35.11 Aṣṭaka 1.3.7.5Anuvāka 1.7.71
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.