Ṛk 1.35.6
Saṃhitā
ति॒स्रो द्यावः॑ सवि॒तुर्द्वा उ॒पस्थाँ॒ एका॑ य॒मस्य॒ भुव॑ने विरा॒षाट् ।
आ॒णिं न रथ्य॑म॒मृताधि॑ तस्थुरि॒ह ब्र॑वीतु॒ य उ॒ तच्चिके॑तत् ॥
तिस्रो द्यावः सवितुर् द्वा उपस्थां एका यमस्य भुवने विराषाट् |
आणिं न रथ्यम् अमृताधि तस्थुर् इह ब्रवीतु य उ तच् चिकेतत् ||
tisró dyā́vaḥ savitúrdvā́ upásthām̐ ékā yamásya bhúvane virāṣā́ṭ ǀ
āṇím ná ráthyamamṛ́tā́dhi tasthurihá bravītu yá u táccíketat ǁ
tisro dyāvaḥ savitur dvā upasthāṃ ekā yamasya bhuvane virāṣāṭ |
āṇiṃ na rathyam amṛtādhi tasthur iha bravītu ya u tac ciketat ||
Padapāṭha
ति॒स्रः । द्यावः॑ । स॒वि॒तुः । द्वौ । उ॒पऽस्था॑ । एका॑ । य॒मस्य॑ । भुव॑ने । वि॒रा॒षाट् ।
आ॒णिम् । न । रथ्य॑म् । अ॒मृता॑ । अधि॑ । त॒स्थुः॒ । इ॒ह । ब्र॒वी॒तु॒ । यः । ऊं॒ इति॑ । तत् । चिके॑तत् ॥
तिस्रः । द्यावः । सवितुः । द्वौ । उपऽस्था । एका । यमस्य । भुवने । विराषाट् ।
आणिम् । न । रथ्यम् । अमृता । अधि । तस्थुः । इह । ब्रवीतु । यः । ऊं इति । तत् । चिकेतत् ॥
tisráḥ ǀ dyā́vaḥ ǀ savitúḥ ǀ dváu ǀ upá-sthā ǀ ékā ǀ yamásya ǀ bhúvane ǀ virāṣā́ṭ ǀ
āṇím ǀ ná ǀ ráthyam ǀ amṛ́tā ǀ ádhi ǀ tasthuḥ ǀ ihá ǀ bravītu ǀ yáḥ ǀ ūṃ íti ǀ tát ǀ cíketat ǁ
tisraḥ ǀ dyāvaḥ ǀ savituḥ ǀ dvau ǀ upa-sthā ǀ ekā ǀ yamasya ǀ bhuvane ǀ virāṣāṭ ǀ
āṇim ǀ na ǀ rathyam ǀ amṛtā ǀ adhi ǀ tasthuḥ ǀ iha ǀ bravītu ǀ yaḥ ǀ ūṃ iti ǀ tat ǀ ciketat ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.035.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.3.06.06
- Maṇḍala · Anuvāka · Ṛk
- 01.07.066
- Devatā देवता
- 1: Agni, Mitra, Varuṇa, Rātri, Savitṛ; 2-11: Savitṛ
- Ṛṣi ऋषि
- Hiraṇyastūpa Āṅgirasa
- Chandas छन्दस्
- Triṣṭubh, Jagatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.