Ṛk 1.35.4
Saṃhitā
अ॒भीवृ॑तं॒ कृश॑नैर्वि॒श्वरू॑पं॒ हिर॑ण्यशम्यं यज॒तो बृ॒हंतं॑ ।
आस्था॒द्रथं॑ सवि॒ता चि॒त्रभा॑नुः कृ॒ष्णा रजां॑सि॒ तवि॑षीं॒ दधा॑नः ॥
अभीवृतं कृशनैर् विश्वरूपं हिरण्यशम्यं यजतो बृहन्तम् |
आस्थाद् रथं सविता चित्रभानुः कृष्णा रजांसि तविषीं दधानः ||
abhī́vṛtam kṛ́śanairviśvárūpam híraṇyaśamyam yajató bṛhántam ǀ
ā́sthādrátham savitā́ citrábhānuḥ kṛṣṇā́ rájāṃsi táviṣīm dádhānaḥ ǁ
abhīvṛtaṃ kṛśanair viśvarūpaṃ hiraṇyaśamyaṃ yajato bṛhantam |
āsthād rathaṃ savitā citrabhānuḥ kṛṣṇā rajāṃsi taviṣīṃ dadhānaḥ ||
Padapāṭha
अ॒भिऽवृ॑तम् । कृश॑नैः । वि॒श्वऽरू॑पम् । हिर॑ण्यऽशम्यम् । य॒ज॒तः । बृ॒हन्त॑म् ।
आ । अ॒स्था॒त् । रथ॑म् । स॒वि॒ता । चि॒त्रऽभा॑नुः । कृ॒ष्णा । रजां॑सि । तवि॑षीम् । दधा॑नः ॥
अभिऽवृतम् । कृशनैः । विश्वऽरूपम् । हिरण्यऽशम्यम् । यजतः । बृहन्तम् ।
आ । अस्थात् । रथम् । सविता । चित्रऽभानुः । कृष्णा । रजांसि । तविषीम् । दधानः ॥
abhí-vṛtam ǀ kṛ́śanaiḥ ǀ viśvá-rūpam ǀ híraṇya-śamyam ǀ yajatáḥ ǀ bṛhántam ǀ
ā́ ǀ asthāt ǀ rátham ǀ savitā́ ǀ citrá-bhānuḥ ǀ kṛṣṇā́ ǀ rájāṃsi ǀ táviṣīm ǀ dádhānaḥ ǁ
abhi-vṛtam ǀ kṛśanaiḥ ǀ viśva-rūpam ǀ hiraṇya-śamyam ǀ yajataḥ ǀ bṛhantam ǀ
ā ǀ asthāt ǀ ratham ǀ savitā ǀ citra-bhānuḥ ǀ kṛṣṇā ǀ rajāṃsi ǀ taviṣīm ǀ dadhānaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.035.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.3.06.04
- Maṇḍala · Anuvāka · Ṛk
- 01.07.064
- Devatā देवता
- 1: Agni, Mitra, Varuṇa, Rātri, Savitṛ; 2-11: Savitṛ
- Ṛṣi ऋषि
- Hiraṇyastūpa Āṅgirasa
- Chandas छन्दस्
- Triṣṭubh, Jagatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.