Sūkta 58
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Nodhas Gautama
- Chandas छन्दस्
- Jagatī, Triṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (6, 7, 9); jagatī (1, 5); virāḍjagatī (2); triṣṭup (3); nicṛjjagatī (4); virāṭtrisṭup (8)
2nd set of styles jagatī (1-5); triṣṭubh (6-9)
-
Ṛk 1
नू चि॑त्सहो॒जा अ॒मृतो॒ नि तुं॑दते॒ होता॒ यद्दू॒तो अभ॑वद्वि॒वस्व॑तः ।
वि साधि॑ष्ठेभिः प॒थिभी॒ रजो॑ मम॒ आ दे॒वता॑ता ह॒विषा॑ विवासति ॥नू चित् सहोजा अमृतो नि तुन्दते होता यद् दूतो अभवद् विवस्वतः |
वि साधिष्ठेभिः पथिभी रजो मम आ देवताता हविषा विवासति ||nū́ citsahojā́ amṛ́to ní tundate hótā yáddūtó ábhavadvivásvataḥ ǀ
ví sā́dhiṣṭhebhiḥ pathíbhī rájo mama ā́ devátātā havíṣā vivāsati ǁnū cit sahojā amṛto ni tundate hotā yad dūto abhavad vivasvataḥ |
vi sādhiṣṭhebhiḥ pathibhī rajo mama ā devatātā haviṣā vivāsati ||नु । चि॒त् । स॒हः॒ऽजाः । अ॒मृतः॑ । नि । तु॒न्द॒ते॒ । होता॑ । यत् । दू॒तः । अभ॑वत् । वि॒वस्व॑तः ।
वि । साधि॑ष्ठेभिः । प॒थिऽभिः॑ । रजः॑ । म॒मे॒ । आ । दे॒वऽता॑ता । ह॒विषा॑ । वि॒वा॒स॒ति॒ ॥नु । चित् । सहःऽजाः । अमृतः । नि । तुन्दते । होता । यत् । दूतः । अभवत् । विवस्वतः ।
वि । साधिष्ठेभिः । पथिऽभिः । रजः । ममे । आ । देवऽताता । हविषा । विवासति ॥nú ǀ cit ǀ sahaḥ-jā́ḥ ǀ amṛ́taḥ ǀ ní ǀ tundate ǀ hótā ǀ yát ǀ dūtáḥ ǀ ábhavat ǀ vivásvataḥ ǀ
ví ǀ sā́dhiṣṭhebhiḥ ǀ pathí-bhiḥ ǀ rájaḥ ǀ mame ǀ ā́ ǀ devá-tātā ǀ havíṣā ǀ vivāsati ǁnu ǀ cit ǀ sahaḥ-jāḥ ǀ amṛtaḥ ǀ ni ǀ tundate ǀ hotā ǀ yat ǀ dūtaḥ ǀ abhavat ǀ vivasvataḥ ǀ
vi ǀ sādhiṣṭhebhiḥ ǀ pathi-bhiḥ ǀ rajaḥ ǀ mame ǀ ā ǀ deva-tātā ǀ haviṣā ǀ vivāsati ǁ1.58.1 Aṣṭaka 1.4.23.1Anuvāka 1.11.1
-
Ṛk 2
आ स्वमद्म॑ यु॒वमा॑नो अ॒जर॑स्तृ॒ष्व॑वि॒ष्यन्न॑त॒सेषु॑ तिष्ठति ।
अत्यो॒ न पृ॒ष्ठं प्रु॑षि॒तस्य॑ रोचते दि॒वो न सानु॑ स्त॒नय॑न्नचिक्रदत् ॥आ स्वम् अद्म युवमानो अजरस् तृष्व् अविष्यन्न् अतसेषु तिष्ठति |
अत्यो न पृष्ठम् प्रुषितस्य रोचते दिवो न सानु स्तनयन्न् अचिक्रदत् ||ā́ svámádma yuvámāno ajárastṛṣváviṣyánnataséṣu tiṣṭhati ǀ
átyo ná pṛṣṭhám pruṣitásya rocate divó ná sā́nu stanáyannacikradat ǁā svam adma yuvamāno ajaras tṛṣv aviṣyann ataseṣu tiṣṭhati |
atyo na pṛṣṭham pruṣitasya rocate divo na sānu stanayann acikradat ||आ । स्वम् । अद्म॑ । यु॒वमा॑नः । अ॒जरः॑ । तृ॒षु । अ॒वि॒ष्यन् । अ॒त॒सेषु॑ । ति॒ष्ठ॒ति॒ ।
अत्यः॑ । न । पृ॒ष्ठम् । प्रु॒षि॒तस्य॑ । रो॒च॒ते॒ । दि॒वः । न । सानु॑ । स्त॒नय॑न् । अ॒चि॒क्र॒द॒त् ॥आ । स्वम् । अद्म । युवमानः । अजरः । तृषु । अविष्यन् । अतसेषु । तिष्ठति ।
अत्यः । न । पृष्ठम् । प्रुषितस्य । रोचते । दिवः । न । सानु । स्तनयन् । अचिक्रदत् ॥ā́ ǀ svám ǀ ádma ǀ yuvámānaḥ ǀ ajáraḥ ǀ tṛṣú ǀ aviṣyán ǀ ataséṣu ǀ tiṣṭhati ǀ
átyaḥ ǀ ná ǀ pṛṣṭhám ǀ pruṣitásya ǀ rocate ǀ diváḥ ǀ ná ǀ sā́nu ǀ stanáyan ǀ acikradat ǁā ǀ svam ǀ adma ǀ yuvamānaḥ ǀ ajaraḥ ǀ tṛṣu ǀ aviṣyan ǀ ataseṣu ǀ tiṣṭhati ǀ
atyaḥ ǀ na ǀ pṛṣṭham ǀ pruṣitasya ǀ rocate ǀ divaḥ ǀ na ǀ sānu ǀ stanayan ǀ acikradat ǁ1.58.2 Aṣṭaka 1.4.23.2Anuvāka 1.11.2
-
Ṛk 3
क्रा॒णा रु॒द्रेभि॒र्वसु॑भिः पु॒रोहि॑तो॒ होता॒ निष॑त्तो रयि॒षाळम॑र्त्यः ।
रथो॒ न वि॒क्ष्वृं॑जसा॒न आ॒युषु॒ व्या॑नु॒षग्वार्या॑ दे॒व ऋ॑ण्वति ॥क्राणा रुद्रेभिर् वसुभिः पुरोहितो होता निषत्तो रयिषाऌ अमर्त्यः |
रथो न विक्ष्व् ऋञ्जसान आयुषु व्य् आनुषग् वार्या देव ऋण्वति ||krāṇā́ rudrébhirvásubhiḥ puróhito hótā níṣatto rayiṣā́ḷámartyaḥ ǀ
rátho ná vikṣvṛ́ñjasāná āyúṣu vyā́nuṣágvā́ryā devá ṛṇvati ǁkrāṇā rudrebhir vasubhiḥ purohito hotā niṣatto rayiṣāḷ amartyaḥ |
ratho na vikṣv ṛñjasāna āyuṣu vy ānuṣag vāryā deva ṛṇvati ||क्रा॒णा । रु॒द्रेभिः॑ । वसु॑ऽभिः । पु॒रःऽहि॑तः । होता॑ । निऽस॑त्तः । र॒यि॒षाट् । अम॑र्त्यः ।
रथः॑ । न । वि॒क्षु । ऋ॒ञ्ज॒सा॒नः । आ॒युषु॑ । वि । आ॒नु॒षक् । वार्या॑ । दे॒वः । ऋ॒ण्व॒ति॒ ॥क्राणा । रुद्रेभिः । वसुऽभिः । पुरःऽहितः । होता । निऽसत्तः । रयिषाट् । अमर्त्यः ।
रथः । न । विक्षु । ऋञ्जसानः । आयुषु । वि । आनुषक् । वार्या । देवः । ऋण्वति ॥krāṇā́ ǀ rudrébhiḥ ǀ vásu-bhiḥ ǀ puráḥ-hitaḥ ǀ hótā ǀ ní-sattaḥ ǀ rayiṣā́ṭ ǀ ámartyaḥ ǀ
ráthaḥ ǀ ná ǀ vikṣú ǀ ṛñjasānáḥ ǀ āyúṣu ǀ ví ǀ ānuṣák ǀ vā́ryā ǀ deváḥ ǀ ṛṇvati ǁkrāṇā ǀ rudrebhiḥ ǀ vasu-bhiḥ ǀ puraḥ-hitaḥ ǀ hotā ǀ ni-sattaḥ ǀ rayiṣāṭ ǀ amartyaḥ ǀ
rathaḥ ǀ na ǀ vikṣu ǀ ṛñjasānaḥ ǀ āyuṣu ǀ vi ǀ ānuṣak ǀ vāryā ǀ devaḥ ǀ ṛṇvati ǁ1.58.3 Aṣṭaka 1.4.23.3Anuvāka 1.11.3
-
Ṛk 4
वि वात॑जूतो अत॒सेषु॑ तिष्ठते॒ वृथा॑ जु॒हूभिः॒ सृण्या॑ तुवि॒ष्वणिः॑ ।
तृ॒षु यद॑ग्ने व॒निनो॑ वृषा॒यसे॑ कृ॒ष्णं त॒ एम॒ रुश॑दूर्मे अजर ॥वि वातजूतो अतसेषु तिष्ठते वृथा जुहूभिः सृण्या तुविष्वणिः |
तृषु यद् अग्ने वनिनो वृषायसे कृष्णं त एम रुशदूर्मे अजर ||ví vā́tajūto ataséṣu tiṣṭhate vṛ́thā juhū́bhiḥ sṛ́ṇyā tuviṣváṇiḥ ǀ
tṛṣú yádagne vaníno vṛṣāyáse kṛṣṇám ta éma rúśadūrme ajara ǁvi vātajūto ataseṣu tiṣṭhate vṛthā juhūbhiḥ sṛṇyā tuviṣvaṇiḥ |
tṛṣu yad agne vanino vṛṣāyase kṛṣṇaṃ ta ema ruśadūrme ajara ||वि । वात॑ऽजूतः । अ॒त॒सेषु॑ । ति॒ष्ठ॒ते॒ । वृथा॑ । जु॒हूभिः॑ । सृण्या॑ । तु॒वि॒ऽस्वनिः॑ ।
तृ॒षु । यत् । अ॒ग्ने॒ । व॒निनः॑ । वृ॒ष॒ऽयसे॑ । कृ॒ष्णम् । ते॒ । एम॑ । रुश॑त्ऽऊर्मे । अ॒ज॒र॒ ॥वि । वातऽजूतः । अतसेषु । तिष्ठते । वृथा । जुहूभिः । सृण्या । तुविऽस्वनिः ।
तृषु । यत् । अग्ने । वनिनः । वृषऽयसे । कृष्णम् । ते । एम । रुशत्ऽऊर्मे । अजर ॥ví ǀ vā́ta-jūtaḥ ǀ ataséṣu ǀ tiṣṭhate ǀ vṛ́thā ǀ juhū́bhiḥ ǀ sṛ́ṇyā ǀ tuvi-svániḥ ǀ
tṛṣú ǀ yát ǀ agne ǀ vanínaḥ ǀ vṛṣa-yáse ǀ kṛṣṇám ǀ te ǀ éma ǀ rúśat-ūrme ǀ ajara ǁvi ǀ vāta-jūtaḥ ǀ ataseṣu ǀ tiṣṭhate ǀ vṛthā ǀ juhūbhiḥ ǀ sṛṇyā ǀ tuvi-svaniḥ ǀ
tṛṣu ǀ yat ǀ agne ǀ vaninaḥ ǀ vṛṣa-yase ǀ kṛṣṇam ǀ te ǀ ema ǀ ruśat-ūrme ǀ ajara ǁ1.58.4 Aṣṭaka 1.4.23.4Anuvāka 1.11.4
-
Ṛk 5
तपु॑र्जंभो॒ वन॒ आ वात॑चोदितो यू॒थे न सा॒ह्वाँ अव॑ वाति॒ वंस॑गः ।
अ॒भि॒व्रज॒न्नक्षि॑तं॒ पाज॑सा॒ रजः॑ स्था॒तुश्च॒रथं॑ भयते पत॒त्रिणः॑ ॥तपुर्जम्भो वन आ वातचोदितो यूथे न साह्वां अव वाति वंसगः |
अभिव्रजन्न् अक्षितम् पाजसा रज स्थातुश् चरथम् भयते पतत्रिणः ||tápurjambho vána ā́ vā́tacodito yūthé ná sāhvā́m̐ áva vāti váṃsagaḥ ǀ
abhivrájannákṣitam pā́jasā rájaḥ sthātúścarátham bhayate patatríṇaḥ ǁtapurjambho vana ā vātacodito yūthe na sāhvāṃ ava vāti vaṃsagaḥ |
abhivrajann akṣitam pājasā raja sthātuś caratham bhayate patatriṇaḥ ||तपुः॑ऽजम्भः । वने॑ । आ । वात॑ऽचोदितः । यू॒थे । न । स॒ह्वान् । अव॑ । वा॒ति॒ । वंस॑गः ।
अ॒भि॒ऽव्रज॑न् । अक्षि॑तम् । पाज॑सा । रजः॑ । स्था॒तुः । च॒रथ॑म् । भ॒य॒ते॒ । प॒त॒त्रिणः॑ ॥तपुःऽजम्भः । वने । आ । वातऽचोदितः । यूथे । न । सह्वान् । अव । वाति । वंसगः ।
अभिऽव्रजन् । अक्षितम् । पाजसा । रजः । स्थातुः । चरथम् । भयते । पतत्रिणः ॥tápuḥ-jambhaḥ ǀ váne ǀ ā́ ǀ vā́ta-coditaḥ ǀ yūthé ǀ ná ǀ sahvā́n ǀ áva ǀ vāti ǀ váṃsagaḥ ǀ
abhi-vrájan ǀ ákṣitam ǀ pā́jasā ǀ rájaḥ ǀ sthātúḥ ǀ carátham ǀ bhayate ǀ patatríṇaḥ ǁtapuḥ-jambhaḥ ǀ vane ǀ ā ǀ vāta-coditaḥ ǀ yūthe ǀ na ǀ sahvān ǀ ava ǀ vāti ǀ vaṃsagaḥ ǀ
abhi-vrajan ǀ akṣitam ǀ pājasā ǀ rajaḥ ǀ sthātuḥ ǀ caratham ǀ bhayate ǀ patatriṇaḥ ǁ1.58.5 Aṣṭaka 1.4.23.5Anuvāka 1.11.5
-
Ṛk 6
द॒धुष्ट्वा॒ भृग॑वो॒ मानु॑षे॒ष्वा र॒यिं न चारुं॑ सु॒हवं॒ जने॑भ्यः ।
होता॑रमग्ने॒ अति॑थिं॒ वरे॑ण्यं मि॒त्रं न शेवं॑ दि॒व्याय॒ जन्म॑ने ॥दधुष् ट्वा भृगवो मानुषेष्व् आ रयिं न चारुं सुहवं जनेभ्यः |
होतारम् अग्ने अतिथिं वरेण्यम् मित्रं न शेवं दिव्याय जन्मने ||dadhúṣṭvā bhṛ́gavo mā́nuṣeṣvā́ rayím ná cā́rum suhávam jánebhyaḥ ǀ
hótāramagne átithim váreṇyam mitrám ná śévam divyā́ya jánmane ǁdadhuṣ ṭvā bhṛgavo mānuṣeṣv ā rayiṃ na cāruṃ suhavaṃ janebhyaḥ |
hotāram agne atithiṃ vareṇyam mitraṃ na śevaṃ divyāya janmane ||द॒धुः । त्वा॒ । भृग॑वः । मानु॑षेषु । आ । र॒यिम् । न । चारु॑म् । सु॒ऽहव॑म् । जने॑भ्यः ।
होता॑रम् । अ॒ग्ने॒ । अति॑थिम् । वरे॑ण्यम् । मि॒त्रम् । न । शेव॑म् । दि॒व्याय॑ । जन्म॑ने ॥दधुः । त्वा । भृगवः । मानुषेषु । आ । रयिम् । न । चारुम् । सुऽहवम् । जनेभ्यः ।
होतारम् । अग्ने । अतिथिम् । वरेण्यम् । मित्रम् । न । शेवम् । दिव्याय । जन्मने ॥dadhúḥ ǀ tvā ǀ bhṛ́gavaḥ ǀ mā́nuṣeṣu ǀ ā́ ǀ rayím ǀ ná ǀ cā́rum ǀ su-hávam ǀ jánebhyaḥ ǀ
hótāram ǀ agne ǀ átithim ǀ váreṇyam ǀ mitrám ǀ ná ǀ śévam ǀ divyā́ya ǀ jánmane ǁdadhuḥ ǀ tvā ǀ bhṛgavaḥ ǀ mānuṣeṣu ǀ ā ǀ rayim ǀ na ǀ cārum ǀ su-havam ǀ janebhyaḥ ǀ
hotāram ǀ agne ǀ atithim ǀ vareṇyam ǀ mitram ǀ na ǀ śevam ǀ divyāya ǀ janmane ǁ1.58.6 Aṣṭaka 1.4.24.1Anuvāka 1.11.6
-
Ṛk 7
होता॑रं स॒प्त जु॒ह्वो॒३॒॑ यजि॑ष्ठं॒ यं वा॒घतो॑ वृ॒णते॑ अध्व॒रेषु॑ ।
अ॒ग्निं विश्वे॑षामर॒तिं वसू॑नां सप॒र्यामि॒ प्रय॑सा॒ यामि॒ रत्नं॑ ॥होतारं सप्त जुह्वो यजिष्ठं यं वाघतो वृणते अध्वरेषु |
अग्निं विश्वेषाम् अरतिं वसूनां सपर्यामि प्रयसा यामि रत्नम् ||hótāram saptá juhvó yájiṣṭham yám vāgháto vṛṇáte adhvaréṣu ǀ
agním víśveṣāmaratím vásūnām saparyā́mi práyasā yā́mi rátnam ǁhotāraṃ sapta juhvo yajiṣṭhaṃ yaṃ vāghato vṛṇate adhvareṣu |
agniṃ viśveṣām aratiṃ vasūnāṃ saparyāmi prayasā yāmi ratnam ||होता॑रम् । स॒प्त । जु॒ह्वः॑ । यजि॑ष्ठम् । यम् । वा॒घतः॑ । वृ॒णते॑ । अ॒ध्व॒रेषु॑ ।
अ॒ग्निम् । विश्वे॑षाम् । अ॒र॒तिम् । वसू॑नाम् । स॒प॒र्यामि॑ । प्रय॑सा । यामि॑ । रत्न॑म् ॥होतारम् । सप्त । जुह्वः । यजिष्ठम् । यम् । वाघतः । वृणते । अध्वरेषु ।
अग्निम् । विश्वेषाम् । अरतिम् । वसूनाम् । सपर्यामि । प्रयसा । यामि । रत्नम् ॥hótāram ǀ saptá ǀ juhváḥ ǀ yájiṣṭham ǀ yám ǀ vāghátaḥ ǀ vṛṇáte ǀ adhvaréṣu ǀ
agním ǀ víśveṣām ǀ aratím ǀ vásūnām ǀ saparyā́mi ǀ práyasā ǀ yā́mi ǀ rátnam ǁhotāram ǀ sapta ǀ juhvaḥ ǀ yajiṣṭham ǀ yam ǀ vāghataḥ ǀ vṛṇate ǀ adhvareṣu ǀ
agnim ǀ viśveṣām ǀ aratim ǀ vasūnām ǀ saparyāmi ǀ prayasā ǀ yāmi ǀ ratnam ǁ1.58.7 Aṣṭaka 1.4.24.2Anuvāka 1.11.7
-
Ṛk 8
अच्छि॑द्रा सूनो सहसो नो अ॒द्य स्तो॒तृभ्यो॑ मित्रमहः॒ शर्म॑ यच्छ ।
अग्ने॑ गृ॒णंत॒मंह॑स उरु॒ष्योर्जो॑ नपात्पू॒र्भिराय॑सीभिः ॥अच्छिद्रा सूनो सहसो नो अद्य स्तोतृभ्यो मित्रमहः शर्म यच्छ |
अग्ने गृणन्तम् अंहस उरुष्योर्जो नपात् पूर्भिर् आयसीभिः ||ácchidrā sūno sahaso no adyá stotṛ́bhyo mitramahaḥ śárma yaccha ǀ
ágne gṛṇántamáṃhasa uruṣyórjo napātpūrbhírā́yasībhiḥ ǁacchidrā sūno sahaso no adya stotṛbhyo mitramahaḥ śarma yaccha |
agne gṛṇantam aṃhasa uruṣyorjo napāt pūrbhir āyasībhiḥ ||अच्छि॑द्रा । सू॒नो॒ इति॑ । स॒ह॒सः॒ । नः॒ । अ॒द्य । स्तो॒तृऽभ्यः॑ । मि॒त्र॒ऽम॒हः॒ । शर्म॑ । य॒च्छ॒ ।
अग्ने॑ । गृ॒णन्त॑म् । अंह॑सः । उ॒रु॒ष्य॒ । ऊर्जः॑ । न॒पा॒त् । पूः॒ऽभिः । आय॑सीभिः ॥अच्छिद्रा । सूनो इति । सहसः । नः । अद्य । स्तोतृऽभ्यः । मित्रऽमहः । शर्म । यच्छ ।
अग्ने । गृणन्तम् । अंहसः । उरुष्य । ऊर्जः । नपात् । पूःऽभिः । आयसीभिः ॥ácchidrā ǀ sūno íti ǀ sahasaḥ ǀ naḥ ǀ adyá ǀ stotṛ́-bhyaḥ ǀ mitra-mahaḥ ǀ śárma ǀ yaccha ǀ
ágne ǀ gṛṇántam ǀ áṃhasaḥ ǀ uruṣya ǀ ū́rjaḥ ǀ napāt ǀ pūḥ-bhíḥ ǀ ā́yasībhiḥ ǁacchidrā ǀ sūno iti ǀ sahasaḥ ǀ naḥ ǀ adya ǀ stotṛ-bhyaḥ ǀ mitra-mahaḥ ǀ śarma ǀ yaccha ǀ
agne ǀ gṛṇantam ǀ aṃhasaḥ ǀ uruṣya ǀ ūrjaḥ ǀ napāt ǀ pūḥ-bhiḥ ǀ āyasībhiḥ ǁ1.58.8 Aṣṭaka 1.4.24.3Anuvāka 1.11.8
-
Ṛk 9
भवा॒ वरू॑थं गृण॒ते वि॑भावो॒ भवा॑ मघवन्म॒घव॑द्भ्यः॒ शर्म॑ ।
उ॒रु॒ष्याग्ने॒ अंह॑सो गृ॒णंतं॑ प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ॥भवा वरूथं गृणते विभावो भवा मघवन् मघवद्भ्यः शर्म |
उरुष्याग्ने अंहसो गृणन्तम् प्रातर् मक्षू धियावसुर् जगम्यात् ||bhávā várūtham gṛṇaté vibhāvo bhávā maghavanmaghávadbhyaḥ śárma ǀ
uruṣyā́gne áṃhaso gṛṇántam prātármakṣū́ dhiyā́vasurjagamyāt ǁbhavā varūthaṃ gṛṇate vibhāvo bhavā maghavan maghavadbhyaḥ śarma |
uruṣyāgne aṃhaso gṛṇantam prātar makṣū dhiyāvasur jagamyāt ||भव॑ । वरू॑थम् । गृ॒ण॒ते । वि॒भा॒ऽवः॒ । भव॑ । म॒घ॒ऽव॒न् । म॒घव॑त्ऽभ्यः । शर्म॑ ।
उ॒रु॒ष्य । अ॒ग्ने॒ । अंह॑सः । गृ॒णन्त॑म् । प्रा॒तः । म॒क्षु । धि॒याऽव॑सुः । ज॒ग॒म्या॒त् ॥भव । वरूथम् । गृणते । विभाऽवः । भव । मघऽवन् । मघवत्ऽभ्यः । शर्म ।
उरुष्य । अग्ने । अंहसः । गृणन्तम् । प्रातः । मक्षु । धियाऽवसुः । जगम्यात् ॥bháva ǀ várūtham ǀ gṛṇaté ǀ vibhā-vaḥ ǀ bháva ǀ magha-van ǀ maghávat-bhyaḥ ǀ śárma ǀ
uruṣyá ǀ agne ǀ áṃhasaḥ ǀ gṛṇántam ǀ prātáḥ ǀ makṣú ǀ dhiyā́-vasuḥ ǀ jagamyāt ǁbhava ǀ varūtham ǀ gṛṇate ǀ vibhā-vaḥ ǀ bhava ǀ magha-van ǀ maghavat-bhyaḥ ǀ śarma ǀ
uruṣya ǀ agne ǀ aṃhasaḥ ǀ gṛṇantam ǀ prātaḥ ǀ makṣu ǀ dhiyā-vasuḥ ǀ jagamyāt ǁ1.58.9 Aṣṭaka 1.4.24.4Anuvāka 1.11.9
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.