Ṛk 1.58.6
Saṃhitā
द॒धुष्ट्वा॒ भृग॑वो॒ मानु॑षे॒ष्वा र॒यिं न चारुं॑ सु॒हवं॒ जने॑भ्यः ।
होता॑रमग्ने॒ अति॑थिं॒ वरे॑ण्यं मि॒त्रं न शेवं॑ दि॒व्याय॒ जन्म॑ने ॥
दधुष् ट्वा भृगवो मानुषेष्व् आ रयिं न चारुं सुहवं जनेभ्यः |
होतारम् अग्ने अतिथिं वरेण्यम् मित्रं न शेवं दिव्याय जन्मने ||
dadhúṣṭvā bhṛ́gavo mā́nuṣeṣvā́ rayím ná cā́rum suhávam jánebhyaḥ ǀ
hótāramagne átithim váreṇyam mitrám ná śévam divyā́ya jánmane ǁ
dadhuṣ ṭvā bhṛgavo mānuṣeṣv ā rayiṃ na cāruṃ suhavaṃ janebhyaḥ |
hotāram agne atithiṃ vareṇyam mitraṃ na śevaṃ divyāya janmane ||
Padapāṭha
द॒धुः । त्वा॒ । भृग॑वः । मानु॑षेषु । आ । र॒यिम् । न । चारु॑म् । सु॒ऽहव॑म् । जने॑भ्यः ।
होता॑रम् । अ॒ग्ने॒ । अति॑थिम् । वरे॑ण्यम् । मि॒त्रम् । न । शेव॑म् । दि॒व्याय॑ । जन्म॑ने ॥
दधुः । त्वा । भृगवः । मानुषेषु । आ । रयिम् । न । चारुम् । सुऽहवम् । जनेभ्यः ।
होतारम् । अग्ने । अतिथिम् । वरेण्यम् । मित्रम् । न । शेवम् । दिव्याय । जन्मने ॥
dadhúḥ ǀ tvā ǀ bhṛ́gavaḥ ǀ mā́nuṣeṣu ǀ ā́ ǀ rayím ǀ ná ǀ cā́rum ǀ su-hávam ǀ jánebhyaḥ ǀ
hótāram ǀ agne ǀ átithim ǀ váreṇyam ǀ mitrám ǀ ná ǀ śévam ǀ divyā́ya ǀ jánmane ǁ
dadhuḥ ǀ tvā ǀ bhṛgavaḥ ǀ mānuṣeṣu ǀ ā ǀ rayim ǀ na ǀ cārum ǀ su-havam ǀ janebhyaḥ ǀ
hotāram ǀ agne ǀ atithim ǀ vareṇyam ǀ mitram ǀ na ǀ śevam ǀ divyāya ǀ janmane ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.058.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.4.24.01
- Maṇḍala · Anuvāka · Ṛk
- 1.11.006
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Nodhas Gautama
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.