Ṛk 1.58.5
Saṃhitā
तपु॑र्जंभो॒ वन॒ आ वात॑चोदितो यू॒थे न सा॒ह्वाँ अव॑ वाति॒ वंस॑गः ।
अ॒भि॒व्रज॒न्नक्षि॑तं॒ पाज॑सा॒ रजः॑ स्था॒तुश्च॒रथं॑ भयते पत॒त्रिणः॑ ॥
तपुर्जम्भो वन आ वातचोदितो यूथे न साह्वां अव वाति वंसगः |
अभिव्रजन्न् अक्षितम् पाजसा रज स्थातुश् चरथम् भयते पतत्रिणः ||
tápurjambho vána ā́ vā́tacodito yūthé ná sāhvā́m̐ áva vāti váṃsagaḥ ǀ
abhivrájannákṣitam pā́jasā rájaḥ sthātúścarátham bhayate patatríṇaḥ ǁ
tapurjambho vana ā vātacodito yūthe na sāhvāṃ ava vāti vaṃsagaḥ |
abhivrajann akṣitam pājasā raja sthātuś caratham bhayate patatriṇaḥ ||
Padapāṭha
तपुः॑ऽजम्भः । वने॑ । आ । वात॑ऽचोदितः । यू॒थे । न । स॒ह्वान् । अव॑ । वा॒ति॒ । वंस॑गः ।
अ॒भि॒ऽव्रज॑न् । अक्षि॑तम् । पाज॑सा । रजः॑ । स्था॒तुः । च॒रथ॑म् । भ॒य॒ते॒ । प॒त॒त्रिणः॑ ॥
तपुःऽजम्भः । वने । आ । वातऽचोदितः । यूथे । न । सह्वान् । अव । वाति । वंसगः ।
अभिऽव्रजन् । अक्षितम् । पाजसा । रजः । स्थातुः । चरथम् । भयते । पतत्रिणः ॥
tápuḥ-jambhaḥ ǀ váne ǀ ā́ ǀ vā́ta-coditaḥ ǀ yūthé ǀ ná ǀ sahvā́n ǀ áva ǀ vāti ǀ váṃsagaḥ ǀ
abhi-vrájan ǀ ákṣitam ǀ pā́jasā ǀ rájaḥ ǀ sthātúḥ ǀ carátham ǀ bhayate ǀ patatríṇaḥ ǁ
tapuḥ-jambhaḥ ǀ vane ǀ ā ǀ vāta-coditaḥ ǀ yūthe ǀ na ǀ sahvān ǀ ava ǀ vāti ǀ vaṃsagaḥ ǀ
abhi-vrajan ǀ akṣitam ǀ pājasā ǀ rajaḥ ǀ sthātuḥ ǀ caratham ǀ bhayate ǀ patatriṇaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.058.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.4.23.05
- Maṇḍala · Anuvāka · Ṛk
- 1.11.005
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Nodhas Gautama
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.