Ṛk 1.58.2
Saṃhitā
आ स्वमद्म॑ यु॒वमा॑नो अ॒जर॑स्तृ॒ष्व॑वि॒ष्यन्न॑त॒सेषु॑ तिष्ठति ।
अत्यो॒ न पृ॒ष्ठं प्रु॑षि॒तस्य॑ रोचते दि॒वो न सानु॑ स्त॒नय॑न्नचिक्रदत् ॥
आ स्वम् अद्म युवमानो अजरस् तृष्व् अविष्यन्न् अतसेषु तिष्ठति |
अत्यो न पृष्ठम् प्रुषितस्य रोचते दिवो न सानु स्तनयन्न् अचिक्रदत् ||
ā́ svámádma yuvámāno ajárastṛṣváviṣyánnataséṣu tiṣṭhati ǀ
átyo ná pṛṣṭhám pruṣitásya rocate divó ná sā́nu stanáyannacikradat ǁ
ā svam adma yuvamāno ajaras tṛṣv aviṣyann ataseṣu tiṣṭhati |
atyo na pṛṣṭham pruṣitasya rocate divo na sānu stanayann acikradat ||
Padapāṭha
आ । स्वम् । अद्म॑ । यु॒वमा॑नः । अ॒जरः॑ । तृ॒षु । अ॒वि॒ष्यन् । अ॒त॒सेषु॑ । ति॒ष्ठ॒ति॒ ।
अत्यः॑ । न । पृ॒ष्ठम् । प्रु॒षि॒तस्य॑ । रो॒च॒ते॒ । दि॒वः । न । सानु॑ । स्त॒नय॑न् । अ॒चि॒क्र॒द॒त् ॥
आ । स्वम् । अद्म । युवमानः । अजरः । तृषु । अविष्यन् । अतसेषु । तिष्ठति ।
अत्यः । न । पृष्ठम् । प्रुषितस्य । रोचते । दिवः । न । सानु । स्तनयन् । अचिक्रदत् ॥
ā́ ǀ svám ǀ ádma ǀ yuvámānaḥ ǀ ajáraḥ ǀ tṛṣú ǀ aviṣyán ǀ ataséṣu ǀ tiṣṭhati ǀ
átyaḥ ǀ ná ǀ pṛṣṭhám ǀ pruṣitásya ǀ rocate ǀ diváḥ ǀ ná ǀ sā́nu ǀ stanáyan ǀ acikradat ǁ
ā ǀ svam ǀ adma ǀ yuvamānaḥ ǀ ajaraḥ ǀ tṛṣu ǀ aviṣyan ǀ ataseṣu ǀ tiṣṭhati ǀ
atyaḥ ǀ na ǀ pṛṣṭham ǀ pruṣitasya ǀ rocate ǀ divaḥ ǀ na ǀ sānu ǀ stanayan ǀ acikradat ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.058.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.4.23.02
- Maṇḍala · Anuvāka · Ṛk
- 1.11.002
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Nodhas Gautama
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.