Ṛk 1.58.3
Saṃhitā
क्रा॒णा रु॒द्रेभि॒र्वसु॑भिः पु॒रोहि॑तो॒ होता॒ निष॑त्तो रयि॒षाळम॑र्त्यः ।
रथो॒ न वि॒क्ष्वृं॑जसा॒न आ॒युषु॒ व्या॑नु॒षग्वार्या॑ दे॒व ऋ॑ण्वति ॥
क्राणा रुद्रेभिर् वसुभिः पुरोहितो होता निषत्तो रयिषाऌ अमर्त्यः |
रथो न विक्ष्व् ऋञ्जसान आयुषु व्य् आनुषग् वार्या देव ऋण्वति ||
krāṇā́ rudrébhirvásubhiḥ puróhito hótā níṣatto rayiṣā́ḷámartyaḥ ǀ
rátho ná vikṣvṛ́ñjasāná āyúṣu vyā́nuṣágvā́ryā devá ṛṇvati ǁ
krāṇā rudrebhir vasubhiḥ purohito hotā niṣatto rayiṣāḷ amartyaḥ |
ratho na vikṣv ṛñjasāna āyuṣu vy ānuṣag vāryā deva ṛṇvati ||
Padapāṭha
क्रा॒णा । रु॒द्रेभिः॑ । वसु॑ऽभिः । पु॒रःऽहि॑तः । होता॑ । निऽस॑त्तः । र॒यि॒षाट् । अम॑र्त्यः ।
रथः॑ । न । वि॒क्षु । ऋ॒ञ्ज॒सा॒नः । आ॒युषु॑ । वि । आ॒नु॒षक् । वार्या॑ । दे॒वः । ऋ॒ण्व॒ति॒ ॥
क्राणा । रुद्रेभिः । वसुऽभिः । पुरःऽहितः । होता । निऽसत्तः । रयिषाट् । अमर्त्यः ।
रथः । न । विक्षु । ऋञ्जसानः । आयुषु । वि । आनुषक् । वार्या । देवः । ऋण्वति ॥
krāṇā́ ǀ rudrébhiḥ ǀ vásu-bhiḥ ǀ puráḥ-hitaḥ ǀ hótā ǀ ní-sattaḥ ǀ rayiṣā́ṭ ǀ ámartyaḥ ǀ
ráthaḥ ǀ ná ǀ vikṣú ǀ ṛñjasānáḥ ǀ āyúṣu ǀ ví ǀ ānuṣák ǀ vā́ryā ǀ deváḥ ǀ ṛṇvati ǁ
krāṇā ǀ rudrebhiḥ ǀ vasu-bhiḥ ǀ puraḥ-hitaḥ ǀ hotā ǀ ni-sattaḥ ǀ rayiṣāṭ ǀ amartyaḥ ǀ
rathaḥ ǀ na ǀ vikṣu ǀ ṛñjasānaḥ ǀ āyuṣu ǀ vi ǀ ānuṣak ǀ vāryā ǀ devaḥ ǀ ṛṇvati ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.058.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.4.23.03
- Maṇḍala · Anuvāka · Ṛk
- 1.11.003
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Nodhas Gautama
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.