Ṛk 1.58.1
Saṃhitā
नू चि॑त्सहो॒जा अ॒मृतो॒ नि तुं॑दते॒ होता॒ यद्दू॒तो अभ॑वद्वि॒वस्व॑तः ।
वि साधि॑ष्ठेभिः प॒थिभी॒ रजो॑ मम॒ आ दे॒वता॑ता ह॒विषा॑ विवासति ॥
नू चित् सहोजा अमृतो नि तुन्दते होता यद् दूतो अभवद् विवस्वतः |
वि साधिष्ठेभिः पथिभी रजो मम आ देवताता हविषा विवासति ||
nū́ citsahojā́ amṛ́to ní tundate hótā yáddūtó ábhavadvivásvataḥ ǀ
ví sā́dhiṣṭhebhiḥ pathíbhī rájo mama ā́ devátātā havíṣā vivāsati ǁ
nū cit sahojā amṛto ni tundate hotā yad dūto abhavad vivasvataḥ |
vi sādhiṣṭhebhiḥ pathibhī rajo mama ā devatātā haviṣā vivāsati ||
Padapāṭha
नु । चि॒त् । स॒हः॒ऽजाः । अ॒मृतः॑ । नि । तु॒न्द॒ते॒ । होता॑ । यत् । दू॒तः । अभ॑वत् । वि॒वस्व॑तः ।
वि । साधि॑ष्ठेभिः । प॒थिऽभिः॑ । रजः॑ । म॒मे॒ । आ । दे॒वऽता॑ता । ह॒विषा॑ । वि॒वा॒स॒ति॒ ॥
नु । चित् । सहःऽजाः । अमृतः । नि । तुन्दते । होता । यत् । दूतः । अभवत् । विवस्वतः ।
वि । साधिष्ठेभिः । पथिऽभिः । रजः । ममे । आ । देवऽताता । हविषा । विवासति ॥
nú ǀ cit ǀ sahaḥ-jā́ḥ ǀ amṛ́taḥ ǀ ní ǀ tundate ǀ hótā ǀ yát ǀ dūtáḥ ǀ ábhavat ǀ vivásvataḥ ǀ
ví ǀ sā́dhiṣṭhebhiḥ ǀ pathí-bhiḥ ǀ rájaḥ ǀ mame ǀ ā́ ǀ devá-tātā ǀ havíṣā ǀ vivāsati ǁ
nu ǀ cit ǀ sahaḥ-jāḥ ǀ amṛtaḥ ǀ ni ǀ tundate ǀ hotā ǀ yat ǀ dūtaḥ ǀ abhavat ǀ vivasvataḥ ǀ
vi ǀ sādhiṣṭhebhiḥ ǀ pathi-bhiḥ ǀ rajaḥ ǀ mame ǀ ā ǀ deva-tātā ǀ haviṣā ǀ vivāsati ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.058.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.4.23.01
- Maṇḍala · Anuvāka · Ṛk
- 1.11.001
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Nodhas Gautama
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.