Ṛk 1.58.4
Saṃhitā
वि वात॑जूतो अत॒सेषु॑ तिष्ठते॒ वृथा॑ जु॒हूभिः॒ सृण्या॑ तुवि॒ष्वणिः॑ ।
तृ॒षु यद॑ग्ने व॒निनो॑ वृषा॒यसे॑ कृ॒ष्णं त॒ एम॒ रुश॑दूर्मे अजर ॥
वि वातजूतो अतसेषु तिष्ठते वृथा जुहूभिः सृण्या तुविष्वणिः |
तृषु यद् अग्ने वनिनो वृषायसे कृष्णं त एम रुशदूर्मे अजर ||
ví vā́tajūto ataséṣu tiṣṭhate vṛ́thā juhū́bhiḥ sṛ́ṇyā tuviṣváṇiḥ ǀ
tṛṣú yádagne vaníno vṛṣāyáse kṛṣṇám ta éma rúśadūrme ajara ǁ
vi vātajūto ataseṣu tiṣṭhate vṛthā juhūbhiḥ sṛṇyā tuviṣvaṇiḥ |
tṛṣu yad agne vanino vṛṣāyase kṛṣṇaṃ ta ema ruśadūrme ajara ||
Padapāṭha
वि । वात॑ऽजूतः । अ॒त॒सेषु॑ । ति॒ष्ठ॒ते॒ । वृथा॑ । जु॒हूभिः॑ । सृण्या॑ । तु॒वि॒ऽस्वनिः॑ ।
तृ॒षु । यत् । अ॒ग्ने॒ । व॒निनः॑ । वृ॒ष॒ऽयसे॑ । कृ॒ष्णम् । ते॒ । एम॑ । रुश॑त्ऽऊर्मे । अ॒ज॒र॒ ॥
वि । वातऽजूतः । अतसेषु । तिष्ठते । वृथा । जुहूभिः । सृण्या । तुविऽस्वनिः ।
तृषु । यत् । अग्ने । वनिनः । वृषऽयसे । कृष्णम् । ते । एम । रुशत्ऽऊर्मे । अजर ॥
ví ǀ vā́ta-jūtaḥ ǀ ataséṣu ǀ tiṣṭhate ǀ vṛ́thā ǀ juhū́bhiḥ ǀ sṛ́ṇyā ǀ tuvi-svániḥ ǀ
tṛṣú ǀ yát ǀ agne ǀ vanínaḥ ǀ vṛṣa-yáse ǀ kṛṣṇám ǀ te ǀ éma ǀ rúśat-ūrme ǀ ajara ǁ
vi ǀ vāta-jūtaḥ ǀ ataseṣu ǀ tiṣṭhate ǀ vṛthā ǀ juhūbhiḥ ǀ sṛṇyā ǀ tuvi-svaniḥ ǀ
tṛṣu ǀ yat ǀ agne ǀ vaninaḥ ǀ vṛṣa-yase ǀ kṛṣṇam ǀ te ǀ ema ǀ ruśat-ūrme ǀ ajara ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.058.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.4.23.04
- Maṇḍala · Anuvāka · Ṛk
- 1.11.004
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Nodhas Gautama
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.