Sūkta 60
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Nodhas Gautama
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles bhurikpaṅkti (2, 4); triṣṭup (3, 5); virāṭtrisṭup (1)
2nd set of styles triṣṭubh
-
Ṛk 1
वह्निं॑ य॒शसं॑ वि॒दथ॑स्य के॒तुं सु॑प्रा॒व्यं॑ दू॒तं स॒द्योअ॑र्थं ।
द्वि॒जन्मा॑नं र॒यिमि॑व प्रश॒स्तं रा॒तिं भ॑र॒द्भृग॑वे मात॒रिश्वा॑ ॥वह्निं यशसं विदथस्य केतुं सुप्राव्यं दूतं सद्योअर्थम् |
द्विजन्मानं रयिम् इव प्रशस्तं रातिम् भरद् भृगवे मातरिश्वा ||váhnim yaśásam vidáthasya ketúm suprāvyám dūtám sadyóartham ǀ
dvijánmānam rayímiva praśastám rātím bharadbhṛ́gave mātaríśvā ǁvahniṃ yaśasaṃ vidathasya ketuṃ suprāvyaṃ dūtaṃ sadyoartham |
dvijanmānaṃ rayim iva praśastaṃ rātim bharad bhṛgave mātariśvā ||वह्नि॑म् । य॒शस॑म् । वि॒दथ॑स्य । के॒तुम् । सु॒प्र॒ऽअ॒व्य॑म् । दू॒तम् । स॒द्यःऽअ॑र्थम् ।
द्वि॒ऽजन्मा॑नम् । र॒यिम्ऽइ॑व । प्र॒ऽश॒स्तम् । रा॒तिम् । भ॒र॒त् । भृग॑वे । मा॒त॒रिश्वा॑ ॥वह्निम् । यशसम् । विदथस्य । केतुम् । सुप्रऽअव्यम् । दूतम् । सद्यःऽअर्थम् ।
द्विऽजन्मानम् । रयिम्ऽइव । प्रऽशस्तम् । रातिम् । भरत् । भृगवे । मातरिश्वा ॥váhnim ǀ yaśásam ǀ vidáthasya ǀ ketúm ǀ supra-avyám ǀ dūtám ǀ sadyáḥ-artham ǀ
dvi-jánmānam ǀ rayím-iva ǀ pra-śastám ǀ rātím ǀ bharat ǀ bhṛ́gave ǀ mātaríśvā ǁvahnim ǀ yaśasam ǀ vidathasya ǀ ketum ǀ supra-avyam ǀ dūtam ǀ sadyaḥ-artham ǀ
dvi-janmānam ǀ rayim-iva ǀ pra-śastam ǀ rātim ǀ bharat ǀ bhṛgave ǀ mātariśvā ǁ1.60.1 Aṣṭaka 1.4.26.1Anuvāka 1.11.17
-
Ṛk 2
अ॒स्य शासु॑रु॒भया॑सः सचंते ह॒विष्मं॑त उ॒शिजो॒ ये च॒ मर्ताः॑ ।
दि॒वश्चि॒त्पूर्वो॒ न्य॑सादि॒ होता॒पृच्छ्यो॑ वि॒श्पति॑र्वि॒क्षु वे॒धाः ॥अस्य शासुर् उभयासः सचन्ते हविष्मन्त उशिजो ये च मर्ताः |
दिवश् चित् पूर्वो न्य् असादि होतापृच्छ्यो विश्पतिर् विक्षु वेधाः ||asyá śā́surubháyāsaḥ sacante havíṣmanta uśíjo yé ca mártāḥ ǀ
diváścitpū́rvo nyásādi hótāpṛ́cchyo viśpátirvikṣú vedhā́ḥ ǁasya śāsur ubhayāsaḥ sacante haviṣmanta uśijo ye ca martāḥ |
divaś cit pūrvo ny asādi hotāpṛcchyo viśpatir vikṣu vedhāḥ ||अ॒स्य । शासुः॑ । उ॒भया॑सः । स॒च॒न्ते॒ । ह॒विष्म॑न्तः । उ॒शिजः॑ । ये । च॒ । मर्ताः॑ ।
दि॒वः । चि॒त् । पूर्वः॑ । नि । अ॒सा॒दि॒ । होता॑ । आ॒ऽपृच्छ्यः॑ । वि॒श्पतिः॑ । वि॒क्षु । वे॒धाः ॥अस्य । शासुः । उभयासः । सचन्ते । हविष्मन्तः । उशिजः । ये । च । मर्ताः ।
दिवः । चित् । पूर्वः । नि । असादि । होता । आऽपृच्छ्यः । विश्पतिः । विक्षु । वेधाः ॥asyá ǀ śā́suḥ ǀ ubháyāsaḥ ǀ sacante ǀ havíṣmantaḥ ǀ uśíjaḥ ǀ yé ǀ ca ǀ mártāḥ ǀ
diváḥ ǀ cit ǀ pū́rvaḥ ǀ ní ǀ asādi ǀ hótā ǀ ā-pṛ́cchyaḥ ǀ viśpátiḥ ǀ vikṣú ǀ vedhā́ḥ ǁasya ǀ śāsuḥ ǀ ubhayāsaḥ ǀ sacante ǀ haviṣmantaḥ ǀ uśijaḥ ǀ ye ǀ ca ǀ martāḥ ǀ
divaḥ ǀ cit ǀ pūrvaḥ ǀ ni ǀ asādi ǀ hotā ǀ ā-pṛcchyaḥ ǀ viśpatiḥ ǀ vikṣu ǀ vedhāḥ ǁ1.60.2 Aṣṭaka 1.4.26.2Anuvāka 1.11.18
-
Ṛk 3
तं नव्य॑सी हृ॒द आ जाय॑मानम॒स्मत्सु॑की॒र्तिर्मधु॑जिह्वमश्याः ।
यमृ॒त्विजो॑ वृ॒जने॒ मानु॑षासः॒ प्रय॑स्वंत आ॒यवो॒ जीज॑नंत ॥तं नव्यसी हृद आ जायमानम् अस्मत् सुकीर्तिर् मधुजिह्वम् अश्याः |
यम् ऋत्विजो वृजने मानुषासः प्रयस्वन्त आयवो जीजनन्त ||tám návyasī hṛdá ā́ jā́yamānamasmátsukīrtírmádhujihvamaśyāḥ ǀ
yámṛtvíjo vṛjáne mā́nuṣāsaḥ práyasvanta āyávo jī́jananta ǁtaṃ navyasī hṛda ā jāyamānam asmat sukīrtir madhujihvam aśyāḥ |
yam ṛtvijo vṛjane mānuṣāsaḥ prayasvanta āyavo jījananta ||तम् । नव्य॑सी । हृ॒दः । आ । जाय॑मानम् । अ॒स्मत् । सु॒ऽकी॒र्तिः । मधु॑ऽजिह्वम् । अ॒श्याः॒ ।
यम् । ऋ॒त्विजः॑ । वृ॒जने॑ । मानु॑षासः । प्रय॑स्वन्तः । आ॒यवः॑ । जीज॑नन्त ॥तम् । नव्यसी । हृदः । आ । जायमानम् । अस्मत् । सुऽकीर्तिः । मधुऽजिह्वम् । अश्याः ।
यम् । ऋत्विजः । वृजने । मानुषासः । प्रयस्वन्तः । आयवः । जीजनन्त ॥tám ǀ návyasī ǀ hṛdáḥ ǀ ā́ ǀ jā́yamānam ǀ asmát ǀ su-kīrtíḥ ǀ mádhu-jihvam ǀ aśyāḥ ǀ
yám ǀ ṛtvíjaḥ ǀ vṛjáne ǀ mā́nuṣāsaḥ ǀ práyasvantaḥ ǀ āyávaḥ ǀ jī́jananta ǁtam ǀ navyasī ǀ hṛdaḥ ǀ ā ǀ jāyamānam ǀ asmat ǀ su-kīrtiḥ ǀ madhu-jihvam ǀ aśyāḥ ǀ
yam ǀ ṛtvijaḥ ǀ vṛjane ǀ mānuṣāsaḥ ǀ prayasvantaḥ ǀ āyavaḥ ǀ jījananta ǁ1.60.3 Aṣṭaka 1.4.26.3Anuvāka 1.11.19
-
Ṛk 4
उ॒शिक्पा॑व॒को वसु॒र्मानु॑षेषु॒ वरे॑ण्यो॒ होता॑धायि वि॒क्षु ।
दमू॑ना गृ॒हप॑ति॒र्दम॒ आँ अ॒ग्निर्भु॑वद्रयि॒पती॑ रयी॒णां ॥उशिक् पावको वसुर् मानुषेषु वरेण्यो होताधायि विक्षु |
दमूना गृहपतिर् दम आं अग्निर् भुवद् रयिपती रयीणाम् ||uśíkpāvakó vásurmā́nuṣeṣu váreṇyo hótādhāyi vikṣú ǀ
dámūnā gṛhápatirdáma ā́m̐ agnírbhuvadrayipátī rayīṇā́m ǁuśik pāvako vasur mānuṣeṣu vareṇyo hotādhāyi vikṣu |
damūnā gṛhapatir dama āṃ agnir bhuvad rayipatī rayīṇām ||उ॒शिक् । पा॒व॒कः । वसुः॑ । मानु॑षेषु । वरे॑ण्यः । होता॑ । अ॒धा॒यि॒ । वि॒क्षु ।
दमू॑नाः । गृ॒हऽप॑तिः । दमे॑ । आ । अ॒ग्निः । भु॒व॒त् । र॒यि॒ऽपतिः॑ । र॒यी॒णाम् ॥उशिक् । पावकः । वसुः । मानुषेषु । वरेण्यः । होता । अधायि । विक्षु ।
दमूनाः । गृहऽपतिः । दमे । आ । अग्निः । भुवत् । रयिऽपतिः । रयीणाम् ॥uśík ǀ pāvakáḥ ǀ vásuḥ ǀ mā́nuṣeṣu ǀ váreṇyaḥ ǀ hótā ǀ adhāyi ǀ vikṣú ǀ
dámūnāḥ ǀ gṛhá-patiḥ ǀ dáme ǀ ā́ ǀ agníḥ ǀ bhuvat ǀ rayi-pátiḥ ǀ rayīṇā́m ǁuśik ǀ pāvakaḥ ǀ vasuḥ ǀ mānuṣeṣu ǀ vareṇyaḥ ǀ hotā ǀ adhāyi ǀ vikṣu ǀ
damūnāḥ ǀ gṛha-patiḥ ǀ dame ǀ ā ǀ agniḥ ǀ bhuvat ǀ rayi-patiḥ ǀ rayīṇām ǁ1.60.4 Aṣṭaka 1.4.26.4Anuvāka 1.11.20
-
Ṛk 5
तं त्वा॑ व॒यं पति॑मग्ने रयी॒णां प्र शं॑सामो म॒तिभि॒र्गोत॑मासः ।
आ॒शुं न वा॑जंभ॒रं म॒र्जयं॑तः प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ॥तं त्वा वयम् पतिम् अग्ने रयीणाम् प्र शंसामो मतिभिर् गोतमासः |
आशुं न वाजम्भरम् मर्जयन्तः प्रातर् मक्षू धियावसुर् जगम्यात् ||tám tvā vayám pátimagne rayīṇā́m prá śaṃsāmo matíbhirgótamāsaḥ ǀ
āśúm ná vājambharám marjáyantaḥ prātármakṣū́ dhiyā́vasurjagamyāt ǁtaṃ tvā vayam patim agne rayīṇām pra śaṃsāmo matibhir gotamāsaḥ |
āśuṃ na vājambharam marjayantaḥ prātar makṣū dhiyāvasur jagamyāt ||तम् । त्वा॒ । व॒यम् । पति॑म् । अ॒ग्ने॒ । र॒यी॒णाम् । प्र । शं॒सा॒मः॒ । म॒तिऽभिः॑ । गोत॑मासः ।
आ॒शुम् । न । वा॒ज॒म्ऽभ॒रम् । म॒र्जय॑न्तः । प्रा॒तः । म॒क्षु । धि॒याऽव॑सुः । ज॒ग॒म्या॒त् ॥तम् । त्वा । वयम् । पतिम् । अग्ने । रयीणाम् । प्र । शंसामः । मतिऽभिः । गोतमासः ।
आशुम् । न । वाजम्ऽभरम् । मर्जयन्तः । प्रातः । मक्षु । धियाऽवसुः । जगम्यात् ॥tám ǀ tvā ǀ vayám ǀ pátim ǀ agne ǀ rayīṇā́m ǀ prá ǀ śaṃsāmaḥ ǀ matí-bhiḥ ǀ gótamāsaḥ ǀ
āśúm ǀ ná ǀ vājam-bharám ǀ marjáyantaḥ ǀ prātáḥ ǀ makṣú ǀ dhiyā́-vasuḥ ǀ jagamyāt ǁtam ǀ tvā ǀ vayam ǀ patim ǀ agne ǀ rayīṇām ǀ pra ǀ śaṃsāmaḥ ǀ mati-bhiḥ ǀ gotamāsaḥ ǀ
āśum ǀ na ǀ vājam-bharam ǀ marjayantaḥ ǀ prātaḥ ǀ makṣu ǀ dhiyā-vasuḥ ǀ jagamyāt ǁ1.60.5 Aṣṭaka 1.4.26.5Anuvāka 1.11.21
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.