Ṛk 1.60.3
Saṃhitā
तं नव्य॑सी हृ॒द आ जाय॑मानम॒स्मत्सु॑की॒र्तिर्मधु॑जिह्वमश्याः ।
यमृ॒त्विजो॑ वृ॒जने॒ मानु॑षासः॒ प्रय॑स्वंत आ॒यवो॒ जीज॑नंत ॥
तं नव्यसी हृद आ जायमानम् अस्मत् सुकीर्तिर् मधुजिह्वम् अश्याः |
यम् ऋत्विजो वृजने मानुषासः प्रयस्वन्त आयवो जीजनन्त ||
tám návyasī hṛdá ā́ jā́yamānamasmátsukīrtírmádhujihvamaśyāḥ ǀ
yámṛtvíjo vṛjáne mā́nuṣāsaḥ práyasvanta āyávo jī́jananta ǁ
taṃ navyasī hṛda ā jāyamānam asmat sukīrtir madhujihvam aśyāḥ |
yam ṛtvijo vṛjane mānuṣāsaḥ prayasvanta āyavo jījananta ||
Padapāṭha
तम् । नव्य॑सी । हृ॒दः । आ । जाय॑मानम् । अ॒स्मत् । सु॒ऽकी॒र्तिः । मधु॑ऽजिह्वम् । अ॒श्याः॒ ।
यम् । ऋ॒त्विजः॑ । वृ॒जने॑ । मानु॑षासः । प्रय॑स्वन्तः । आ॒यवः॑ । जीज॑नन्त ॥
तम् । नव्यसी । हृदः । आ । जायमानम् । अस्मत् । सुऽकीर्तिः । मधुऽजिह्वम् । अश्याः ।
यम् । ऋत्विजः । वृजने । मानुषासः । प्रयस्वन्तः । आयवः । जीजनन्त ॥
tám ǀ návyasī ǀ hṛdáḥ ǀ ā́ ǀ jā́yamānam ǀ asmát ǀ su-kīrtíḥ ǀ mádhu-jihvam ǀ aśyāḥ ǀ
yám ǀ ṛtvíjaḥ ǀ vṛjáne ǀ mā́nuṣāsaḥ ǀ práyasvantaḥ ǀ āyávaḥ ǀ jī́jananta ǁ
tam ǀ navyasī ǀ hṛdaḥ ǀ ā ǀ jāyamānam ǀ asmat ǀ su-kīrtiḥ ǀ madhu-jihvam ǀ aśyāḥ ǀ
yam ǀ ṛtvijaḥ ǀ vṛjane ǀ mānuṣāsaḥ ǀ prayasvantaḥ ǀ āyavaḥ ǀ jījananta ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.060.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.4.26.03
- Maṇḍala · Anuvāka · Ṛk
- 1.11.019
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Nodhas Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.