Ṛk 1.60.2
Saṃhitā
अ॒स्य शासु॑रु॒भया॑सः सचंते ह॒विष्मं॑त उ॒शिजो॒ ये च॒ मर्ताः॑ ।
दि॒वश्चि॒त्पूर्वो॒ न्य॑सादि॒ होता॒पृच्छ्यो॑ वि॒श्पति॑र्वि॒क्षु वे॒धाः ॥
अस्य शासुर् उभयासः सचन्ते हविष्मन्त उशिजो ये च मर्ताः |
दिवश् चित् पूर्वो न्य् असादि होतापृच्छ्यो विश्पतिर् विक्षु वेधाः ||
asyá śā́surubháyāsaḥ sacante havíṣmanta uśíjo yé ca mártāḥ ǀ
diváścitpū́rvo nyásādi hótāpṛ́cchyo viśpátirvikṣú vedhā́ḥ ǁ
asya śāsur ubhayāsaḥ sacante haviṣmanta uśijo ye ca martāḥ |
divaś cit pūrvo ny asādi hotāpṛcchyo viśpatir vikṣu vedhāḥ ||
Padapāṭha
अ॒स्य । शासुः॑ । उ॒भया॑सः । स॒च॒न्ते॒ । ह॒विष्म॑न्तः । उ॒शिजः॑ । ये । च॒ । मर्ताः॑ ।
दि॒वः । चि॒त् । पूर्वः॑ । नि । अ॒सा॒दि॒ । होता॑ । आ॒ऽपृच्छ्यः॑ । वि॒श्पतिः॑ । वि॒क्षु । वे॒धाः ॥
अस्य । शासुः । उभयासः । सचन्ते । हविष्मन्तः । उशिजः । ये । च । मर्ताः ।
दिवः । चित् । पूर्वः । नि । असादि । होता । आऽपृच्छ्यः । विश्पतिः । विक्षु । वेधाः ॥
asyá ǀ śā́suḥ ǀ ubháyāsaḥ ǀ sacante ǀ havíṣmantaḥ ǀ uśíjaḥ ǀ yé ǀ ca ǀ mártāḥ ǀ
diváḥ ǀ cit ǀ pū́rvaḥ ǀ ní ǀ asādi ǀ hótā ǀ ā-pṛ́cchyaḥ ǀ viśpátiḥ ǀ vikṣú ǀ vedhā́ḥ ǁ
asya ǀ śāsuḥ ǀ ubhayāsaḥ ǀ sacante ǀ haviṣmantaḥ ǀ uśijaḥ ǀ ye ǀ ca ǀ martāḥ ǀ
divaḥ ǀ cit ǀ pūrvaḥ ǀ ni ǀ asādi ǀ hotā ǀ ā-pṛcchyaḥ ǀ viśpatiḥ ǀ vikṣu ǀ vedhāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.060.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.4.26.02
- Maṇḍala · Anuvāka · Ṛk
- 1.11.018
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Nodhas Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.