Ṛgveda · Maṇḍala 1

Sūkta 123

Uṣas · Kakṣīvat Dairghatamasa · 13 ṛks

Link
Devatā देवता
Uṣas
Ṛṣi ऋषि
Kakṣīvat Dairghatamasa
Chandas छन्दस्
Triṣṭubh
Metres by ṛk

1st set of styles virāṭtrisṭup (1, 3, 6, 7, 9, 10, 13); nicṛttriṣṭup (2, 4, 8, 12); triṣṭup (5); bhurikpaṅkti (11)

2nd set of styles triṣṭubh

  1. Ṛk 1

    पृ॒थू रथो॒ दक्षि॑णाया अयो॒ज्यैनं॑ दे॒वासो॑ अ॒मृता॑सो अस्थुः ।
    कृ॒ष्णादुद॑स्थाद॒र्या॒३॒॑ विहा॑या॒श्चिकि॑त्संती॒ मानु॑षाय॒ क्षया॑य ॥

    पृथू रथो दक्षिणाया अयोज्य् ऐनं देवासो अमृतासो अस्थुः |
    कृष्णाद् उद् अस्थाद् अर्या विहायाश् चिकित्सन्ती मानुषाय क्षयाय ||

    pṛthū́ rátho dákṣiṇāyā ayojyáinam devā́so amṛ́tāso asthuḥ ǀ
    kṛṣṇā́dúdasthādaryā́ víhāyāścíkitsantī mā́nuṣāya kṣáyāya ǁ

    pṛthū ratho dakṣiṇāyā ayojy ainaṃ devāso amṛtāso asthuḥ |
    kṛṣṇād ud asthād aryā vihāyāś cikitsantī mānuṣāya kṣayāya ||

    पृ॒थुः । रथः॑ । दक्षि॑णायाः । अ॒यो॒जि॒ । आ । ए॒न॒म् । दे॒वासः॑ । अ॒मृता॑सः । अ॒स्थुः॒ ।
    कृ॒ष्णात् । उत् । अ॒स्था॒त् । अ॒र्या॑ । विऽहा॑याः । चिकि॑त्सन्ती । मानु॑षाय । क्षया॑य ॥

    पृथुः । रथः । दक्षिणायाः । अयोजि । आ । एनम् । देवासः । अमृतासः । अस्थुः ।
    कृष्णात् । उत् । अस्थात् । अर्या । विऽहायाः । चिकित्सन्ती । मानुषाय । क्षयाय ॥

    pṛthúḥ ǀ ráthaḥ ǀ dákṣiṇāyāḥ ǀ ayoji ǀ ā́ ǀ enam ǀ devā́saḥ ǀ amṛ́tāsaḥ ǀ asthuḥ ǀ
    kṛṣṇā́t ǀ út ǀ asthāt ǀ aryā́ ǀ ví-hāyāḥ ǀ cíkitsantī ǀ mā́nuṣāya ǀ kṣáyāya ǁ

    pṛthuḥ ǀ rathaḥ ǀ dakṣiṇāyāḥ ǀ ayoji ǀ ā ǀ enam ǀ devāsaḥ ǀ amṛtāsaḥ ǀ asthuḥ ǀ
    kṛṣṇāt ǀ ut ǀ asthāt ǀ aryā ǀ vi-hāyāḥ ǀ cikitsantī ǀ mānuṣāya ǀ kṣayāya ǁ

    1.123.1 Aṣṭaka 2.1.4.0

  2. Ṛk 2

    पूर्वा॒ विश्व॑स्मा॒द्भुव॑नादबोधि॒ जयं॑ती॒ वाजं॑ बृह॒ती सनु॑त्री ।
    उ॒च्चा व्य॑ख्यद्युव॒तिः पु॑न॒र्भूरोषा अ॑गन्प्रथ॒मा पू॒र्वहू॑तौ ॥

    पूर्वा विश्वस्माद् भुवनाद् अबोधि जयन्ती वाजम् बृहती सनुत्री |
    उच्चा व्य् अख्यद् युवतिः पुनर्भूर् ओषा अगन् प्रथमा पूर्वहूतौ ||

    pū́rvā víśvasmādbhúvanādabodhi jáyantī vā́jam bṛhatī́ sánutrī ǀ
    uccā́ vyákhyadyuvatíḥ punarbhū́róṣā́ aganprathamā́ pūrváhūtau ǁ

    pūrvā viśvasmād bhuvanād abodhi jayantī vājam bṛhatī sanutrī |
    uccā vy akhyad yuvatiḥ punarbhūr oṣā agan prathamā pūrvahūtau ||

    पूर्वा॑ । विश्व॑स्मात् । भुव॑नात् । अ॒बो॒धि॒ । जय॑न्ती । वाज॑म् । बृ॒ह॒ती । सनु॑त्री ।
    उ॒च्चा । वि । अ॒ख्य॒त् । यु॒व॒तिः । पु॒नः॒ऽभूः । आ । उ॒षाः । अ॒ग॒न् । प्र॒थ॒मा । पू॒र्वऽहू॑तौ ॥

    पूर्वा । विश्वस्मात् । भुवनात् । अबोधि । जयन्ती । वाजम् । बृहती । सनुत्री ।
    उच्चा । वि । अख्यत् । युवतिः । पुनःऽभूः । आ । उषाः । अगन् । प्रथमा । पूर्वऽहूतौ ॥

    pū́rvā ǀ víśvasmāt ǀ bhúvanāt ǀ abodhi ǀ jáyantī ǀ vā́jam ǀ bṛhatī́ ǀ sánutrī ǀ
    uccā́ ǀ ví ǀ akhyat ǀ yuvatíḥ ǀ punaḥ-bhū́ḥ ǀ ā́ ǀ uṣā́ḥ ǀ agan ǀ prathamā́ ǀ pūrvá-hūtau ǁ

    pūrvā ǀ viśvasmāt ǀ bhuvanāt ǀ abodhi ǀ jayantī ǀ vājam ǀ bṛhatī ǀ sanutrī ǀ
    uccā ǀ vi ǀ akhyat ǀ yuvatiḥ ǀ punaḥ-bhūḥ ǀ ā ǀ uṣāḥ ǀ agan ǀ prathamā ǀ pūrva-hūtau ǁ

    1.123.2 Aṣṭaka 2.1.4.0

  3. Ṛk 3

    यद॒द्य भा॒गं वि॒भजा॑सि॒ नृभ्य॒ उषो॑ देवि मर्त्य॒त्रा सु॑जाते ।
    दे॒वो नो॒ अत्र॑ सवि॒ता दमू॑ना॒ अना॑गसो वोचति॒ सूर्या॑य ॥

    यद् अद्य भागं विभजासि नृभ्य उषो देवि मर्त्यत्रा सुजाते |
    देवो नो अत्र सविता दमूना अनागसो वोचति सूर्याय ||

    yádadyá bhāgám vibhájāsi nṛ́bhya úṣo devi martyatrā́ sujāte ǀ
    devó no átra savitā́ dámūnā ánāgaso vocati sū́ryāya ǁ

    yad adya bhāgaṃ vibhajāsi nṛbhya uṣo devi martyatrā sujāte |
    devo no atra savitā damūnā anāgaso vocati sūryāya ||

    यत् । अ॒द्य । भा॒गम् । वि॒ऽभजा॑सि । नृऽभ्यः॑ । उषः॑ । दे॒वि॒ । म॒र्त्य॒ऽत्रा । सु॒ऽजा॒ते॒ ।
    दे॒वः । नः॒ । अत्र॑ । स॒वि॒ता । दमू॑नाः । अना॑गसः । वो॒च॒ति॒ । सूर्या॑य ॥

    यत् । अद्य । भागम् । विऽभजासि । नृऽभ्यः । उषः । देवि । मर्त्यऽत्रा । सुऽजाते ।
    देवः । नः । अत्र । सविता । दमूनाः । अनागसः । वोचति । सूर्याय ॥

    yát ǀ adyá ǀ bhāgám ǀ vi-bhájāsi ǀ nṛ́-bhyaḥ ǀ úṣaḥ ǀ devi ǀ martya-trā́ ǀ su-jāte ǀ
    deváḥ ǀ naḥ ǀ átra ǀ savitā́ ǀ dámūnāḥ ǀ ánāgasaḥ ǀ vocati ǀ sū́ryāya ǁ

    yat ǀ adya ǀ bhāgam ǀ vi-bhajāsi ǀ nṛ-bhyaḥ ǀ uṣaḥ ǀ devi ǀ martya-trā ǀ su-jāte ǀ
    devaḥ ǀ naḥ ǀ atra ǀ savitā ǀ damūnāḥ ǀ anāgasaḥ ǀ vocati ǀ sūryāya ǁ

    1.123.3 Aṣṭaka 2.1.4.0

  4. Ṛk 4

    गृ॒हंगृ॑हमह॒ना या॒त्यच्छा॑ दि॒वेदि॑वे॒ अधि॒ नामा॒ दधा॑ना ।
    सिषा॑संती द्योत॒ना शश्व॒दागा॒दग्र॑मग्र॒मिद्भ॑जते॒ वसू॑नां ॥

    गृहं-गृहम् अहना यात्य् अच्छा दिवे-दिवे अधि नामा दधाना |
    सिषासन्ती द्योतना शश्वद् आगाद् अग्रम्-अग्रम् इद् भजते वसूनाम् ||

    gṛháṃgṛhamahanā́ yātyácchā divédive ádhi nā́mā dádhānā ǀ
    síṣāsantī dyotanā́ śáśvadā́gādágramagramídbhajate vásūnām ǁ

    gṛhaṃ-gṛham ahanā yāty acchā dive-dive adhi nāmā dadhānā |
    siṣāsantī dyotanā śaśvad āgād agram-agram id bhajate vasūnām ||

    गृ॒हम्ऽगृ॑हम् । अ॒ह॒ना । या॒ति॒ । अच्छ॑ । दि॒वेऽदि॑वे । अधि॑ । नाम॑ । दधा॑ना ।
    सिसा॑सन्ती । द्यो॒त॒ना । शश्व॑त् । आ । अ॒गा॒त् । अग्र॑म्ऽअग्रम् । इत् । भ॒ज॒ते॒ । वसू॑नाम् ॥

    गृहम्ऽगृहम् । अहना । याति । अच्छ । दिवेऽदिवे । अधि । नाम । दधाना ।
    सिसासन्ती । द्योतना । शश्वत् । आ । अगात् । अग्रम्ऽअग्रम् । इत् । भजते । वसूनाम् ॥

    gṛhám-gṛham ǀ ahanā́ ǀ yāti ǀ áccha ǀ divé-dive ǀ ádhi ǀ nā́ma ǀ dádhānā ǀ
    sísāsantī ǀ dyotanā́ ǀ śáśvat ǀ ā́ ǀ agāt ǀ ágram-agram ǀ ít ǀ bhajate ǀ vásūnām ǁ

    gṛham-gṛham ǀ ahanā ǀ yāti ǀ accha ǀ dive-dive ǀ adhi ǀ nāma ǀ dadhānā ǀ
    sisāsantī ǀ dyotanā ǀ śaśvat ǀ ā ǀ agāt ǀ agram-agram ǀ it ǀ bhajate ǀ vasūnām ǁ

    1.123.4 Aṣṭaka 2.1.4.0

  5. Ṛk 5

    भग॑स्य॒ स्वसा॒ वरु॑णस्य जा॒मिरुषः॑ सूनृते प्रथ॒मा ज॑रस्व ।
    प॒श्चा स द॑घ्या॒ यो अ॒घस्य॑ धा॒ता जये॑म॒ तं दक्षि॑णया॒ रथे॑न ॥

    भगस्य स्वसा वरुणस्य जामिर् उषः सूनृते प्रथमा जरस्व |
    पश्चा स दघ्या यो अघस्य धाता जयेम तं दक्षिणया रथेन ||

    bhágasya svásā váruṇasya jāmírúṣaḥ sūnṛte prathamā́ jarasva ǀ
    paścā́ sá daghyā yó aghásya dhātā́ jáyema tám dákṣiṇayā ráthena ǁ

    bhagasya svasā varuṇasya jāmir uṣaḥ sūnṛte prathamā jarasva |
    paścā sa daghyā yo aghasya dhātā jayema taṃ dakṣiṇayā rathena ||

    भग॑स्य । स्वसा॑ । वरु॑णस्य । जा॒मिः । उषः॑ । सू॒नृ॒ते॒ । प्र॒थ॒मा । ज॒र॒स्व॒ ।
    प॒श्चा । सः । द॒घ्याः॒ । यः । अ॒घस्य॑ । धा॒ता । जये॑म । तम् । दक्षि॑णया । रथे॑न ॥

    भगस्य । स्वसा । वरुणस्य । जामिः । उषः । सूनृते । प्रथमा । जरस्व ।
    पश्चा । सः । दघ्याः । यः । अघस्य । धाता । जयेम । तम् । दक्षिणया । रथेन ॥

    bhágasya ǀ svásā ǀ váruṇasya ǀ jāmíḥ ǀ úṣaḥ ǀ sūnṛte ǀ prathamā́ ǀ jarasva ǀ
    paścā́ ǀ sáḥ ǀ daghyāḥ ǀ yáḥ ǀ aghásya ǀ dhātā́ ǀ jáyema ǀ tám ǀ dákṣiṇayā ǀ ráthena ǁ

    bhagasya ǀ svasā ǀ varuṇasya ǀ jāmiḥ ǀ uṣaḥ ǀ sūnṛte ǀ prathamā ǀ jarasva ǀ
    paścā ǀ saḥ ǀ daghyāḥ ǀ yaḥ ǀ aghasya ǀ dhātā ǀ jayema ǀ tam ǀ dakṣiṇayā ǀ rathena ǁ

    1.123.5 Aṣṭaka 2.1.4.0

  6. Ṛk 6

    उदी॑रतां सू॒नृता॒ उत्पुरं॑धी॒रुद॒ग्नयः॑ शुशुचा॒नासो॑ अस्थुः ।
    स्पा॒र्हा वसू॑नि॒ तम॒साप॑गूळ्हा॒विष्कृ॑ण्वंत्यु॒षसो॑ विभा॒तीः ॥

    उद् ईरतां सूनृता उत् पुरन्धीर् उद् अग्नयः शुशुचानासो अस्थुः |
    स्पार्हा वसूनि तमसापगूऌहाविष् कृण्वन्त्य् उषसो विभातीः ||

    údīratām sūnṛ́tā útpúraṃdhīrúdagnáyaḥ śuśucānā́so asthuḥ ǀ
    spārhā́ vásūni támasā́pagūḷhāvíṣkṛṇvantyuṣáso vibhātī́ḥ ǁ

    ud īratāṃ sūnṛtā ut purandhīr ud agnayaḥ śuśucānāso asthuḥ |
    spārhā vasūni tamasāpagūḷhāviṣ kṛṇvanty uṣaso vibhātīḥ ||

    उत् । ई॒र॒ता॒म् । सू॒नृताः॑ । उत् । पुर॑म्ऽधीः । उत् । अ॒ग्नयः॑ । शु॒शु॒चा॒नासः॑ । अ॒स्थुः॒ ।
    स्पा॒र्हा । वसू॑नि । तम॑सा । अप॑ऽगूळ्हा । आ॒विः । कृ॒ण्व॒न्ति॒ । उ॒षसः॑ । वि॒ऽभा॒तीः ॥

    उत् । ईरताम् । सूनृताः । उत् । पुरम्ऽधीः । उत् । अग्नयः । शुशुचानासः । अस्थुः ।
    स्पार्हा । वसूनि । तमसा । अपऽगूळ्हा । आविः । कृण्वन्ति । उषसः । विऽभातीः ॥

    út ǀ īratām ǀ sūnṛ́tāḥ ǀ út ǀ púram-dhīḥ ǀ út ǀ agnáyaḥ ǀ śuśucānā́saḥ ǀ asthuḥ ǀ
    spārhā́ ǀ vásūni ǀ támasā ǀ ápa-gūḷhā ǀ āvíḥ ǀ kṛṇvanti ǀ uṣásaḥ ǀ vi-bhātī́ḥ ǁ

    ut ǀ īratām ǀ sūnṛtāḥ ǀ ut ǀ puram-dhīḥ ǀ ut ǀ agnayaḥ ǀ śuśucānāsaḥ ǀ asthuḥ ǀ
    spārhā ǀ vasūni ǀ tamasā ǀ apa-gūḷhā ǀ āviḥ ǀ kṛṇvanti ǀ uṣasaḥ ǀ vi-bhātīḥ ǁ

    1.123.6 Aṣṭaka 2.1.5.0

  7. Ṛk 7

    अपा॒न्यदेत्य॒भ्य१॒॑न्यदे॑ति॒ विषु॑रूपे॒ अह॑नी॒ सं च॑रेते ।
    प॒रि॒क्षितो॒स्तमो॑ अ॒न्या गुहा॑क॒रद्यौ॑दु॒षाः शोशु॑चता॒ रथे॑न ॥

    अपान्यद् एत्य् अभ्य् अन्यद् एति विषुरूपे अहनी सं चरेते |
    परिक्षितोस् तमो अन्या गुहाकर् अद्यौद् उषाः शोशुचता रथेन ||

    ápānyádétyabhyányádeti víṣurūpe áhanī sám carete ǀ
    parikṣítostámo anyā́ gúhākarádyauduṣā́ḥ śóśucatā ráthena ǁ

    apānyad ety abhy anyad eti viṣurūpe ahanī saṃ carete |
    parikṣitos tamo anyā guhākar adyaud uṣāḥ śośucatā rathena ||

    अप॑ । अ॒न्यत् । एति॑ । अ॒भि । अ॒न्यत् । ए॒ति॒ । विषु॑रूपे॒ इति॒ विषु॑ऽरूपे । अह॑नी॒ इति॑ । सम् । च॒रे॒ते॒ इति॑ ।
    प॒रि॒ऽक्षितोः॑ । तमः॑ । अ॒न्या । गुहा॑ । अ॒कः॒ । अद्यौ॑त् । उ॒षाः । शोशु॑चता । रथे॑न ॥

    अप । अन्यत् । एति । अभि । अन्यत् । एति । विषुरूपे इति विषुऽरूपे । अहनी इति । सम् । चरेते इति ।
    परिऽक्षितोः । तमः । अन्या । गुहा । अकः । अद्यौत् । उषाः । शोशुचता । रथेन ॥

    ápa ǀ anyát ǀ éti ǀ abhí ǀ anyát ǀ eti ǀ víṣurūpe íti víṣu-rūpe ǀ áhanī íti ǀ sám ǀ carete íti ǀ
    pari-kṣítoḥ ǀ támaḥ ǀ anyā́ ǀ gúhā ǀ akaḥ ǀ ádyaut ǀ uṣā́ḥ ǀ śóśucatā ǀ ráthena ǁ

    apa ǀ anyat ǀ eti ǀ abhi ǀ anyat ǀ eti ǀ viṣurūpe iti viṣu-rūpe ǀ ahanī iti ǀ sam ǀ carete iti ǀ
    pari-kṣitoḥ ǀ tamaḥ ǀ anyā ǀ guhā ǀ akaḥ ǀ adyaut ǀ uṣāḥ ǀ śośucatā ǀ rathena ǁ

    1.123.7 Aṣṭaka 2.1.5.0

  8. Ṛk 8

    स॒दृशी॑र॒द्य स॒दृशी॒रिदु॒ श्वो दी॒र्घं स॑चंते॒ वरु॑णस्य॒ धाम॑ ।
    अ॒न॒व॒द्यास्त्रिं॒शतं॒ योज॑ना॒न्येकै॑का॒ क्रतुं॒ परि॑ यंति स॒द्यः ॥

    सदृशीर् अद्य सदृशीर् इद् उ श्वो दीर्घं सचन्ते वरुणस्य धाम |
    अनवद्यास् त्रिंशतं योजनान्य् एकैका क्रतुम् परि यन्ति सद्यः ||

    sadṛ́śīradyá sadṛ́śīrídu śvó dīrghám sacante váruṇasya dhā́ma ǀ
    anavadyā́striṃśátam yójanānyékaikā krátum pári yanti sadyáḥ ǁ

    sadṛśīr adya sadṛśīr id u śvo dīrghaṃ sacante varuṇasya dhāma |
    anavadyās triṃśataṃ yojanāny ekaikā kratum pari yanti sadyaḥ ||

    स॒ऽदृशीः॑ । अ॒द्य । स॒ऽदृशीः॑ । इत् । ऊं॒ इति॑ । श्वः । दी॒र्घम् । स॒च॒न्ते॒ । वरु॑णस्य । धाम॑ ।
    अ॒न॒व॒द्याः । त्रिं॒शत॑म् । योज॑नानि । एका॑ऽएका । क्रतु॑म् । परि॑ । य॒न्ति॒ । स॒द्यः ॥

    सऽदृशीः । अद्य । सऽदृशीः । इत् । ऊं इति । श्वः । दीर्घम् । सचन्ते । वरुणस्य । धाम ।
    अनवद्याः । त्रिंशतम् । योजनानि । एकाऽएका । क्रतुम् । परि । यन्ति । सद्यः ॥

    sa-dṛ́śīḥ ǀ adyá ǀ sa-dṛ́śīḥ ǀ ít ǀ ūṃ íti ǀ śváḥ ǀ dīrghám ǀ sacante ǀ váruṇasya ǀ dhā́ma ǀ
    anavadyā́ḥ ǀ triṃśátam ǀ yójanāni ǀ ékā-ekā ǀ krátum ǀ pári ǀ yanti ǀ sadyáḥ ǁ

    sa-dṛśīḥ ǀ adya ǀ sa-dṛśīḥ ǀ it ǀ ūṃ iti ǀ śvaḥ ǀ dīrgham ǀ sacante ǀ varuṇasya ǀ dhāma ǀ
    anavadyāḥ ǀ triṃśatam ǀ yojanāni ǀ ekā-ekā ǀ kratum ǀ pari ǀ yanti ǀ sadyaḥ ǁ

    1.123.8 Aṣṭaka 2.1.5.0

  9. Ṛk 9

    जा॒न॒त्यह्नः॑ प्रथ॒मस्य॒ नाम॑ शु॒क्रा कृ॒ष्णाद॑जनिष्ट श्विती॒ची ।
    ऋ॒तस्य॒ योषा॒ न मि॑नाति॒ धामाह॑रहर्निष्कृ॒तमा॒चरं॑ती ॥

    जानत्य् अह्नः प्रथमस्य नाम शुक्रा कृष्णाद् अजनिष्ट श्वितीची |
    ऋतस्य योषा न मिनाति धामाहर्-अहर् निष्कृतम् आचरन्ती ||

    jānatyáhnaḥ prathamásya nā́ma śukrā́ kṛṣṇā́dajaniṣṭa śvitīcī́ ǀ
    ṛtásya yóṣā ná mināti dhā́mā́haraharniṣkṛtámācárantī ǁ

    jānaty ahnaḥ prathamasya nāma śukrā kṛṣṇād ajaniṣṭa śvitīcī |
    ṛtasya yoṣā na mināti dhāmāhar-ahar niṣkṛtam ācarantī ||

    जा॒न॒ती । अह्नः॑ । प्र॒थ॒मस्य॑ । नाम॑ । शु॒क्रा । कृ॒ष्णात् । अ॒ज॒नि॒ष्ट॒ । श्वि॒ती॒ची ।
    ऋ॒तस्य॑ । योषा॑ । न । मि॒ना॒ति॒ । धाम॑ । अहः॑ऽअहः । निः॒ऽकृ॒तम् । आ॒ऽचर॑न्ती ॥

    जानती । अह्नः । प्रथमस्य । नाम । शुक्रा । कृष्णात् । अजनिष्ट । श्वितीची ।
    ऋतस्य । योषा । न । मिनाति । धाम । अहःऽअहः । निःऽकृतम् । आऽचरन्ती ॥

    jānatī́ ǀ áhnaḥ ǀ prathamásya ǀ nā́ma ǀ śukrā́ ǀ kṛṣṇā́t ǀ ajaniṣṭa ǀ śvitīcī́ ǀ
    ṛtásya ǀ yóṣā ǀ ná ǀ mināti ǀ dhā́ma ǀ áhaḥ-ahaḥ ǀ niḥ-kṛtám ǀ ā-cárantī ǁ

    jānatī ǀ ahnaḥ ǀ prathamasya ǀ nāma ǀ śukrā ǀ kṛṣṇāt ǀ ajaniṣṭa ǀ śvitīcī ǀ
    ṛtasya ǀ yoṣā ǀ na ǀ mināti ǀ dhāma ǀ ahaḥ-ahaḥ ǀ niḥ-kṛtam ǀ ā-carantī ǁ

    1.123.9 Aṣṭaka 2.1.5.0

  10. Ṛk 10

    क॒न्ये॑व त॒न्वा॒३॒॑ शाश॑दानाँ॒ एषि॑ देवि दे॒वमिय॑क्षमाणं ।
    सं॒स्मय॑माना युव॒तिः पु॒रस्ता॑दा॒विर्वक्षां॑सि कृणुषे विभा॒ती ॥

    कन्येव तन्वा शाशदानां एषि देवि देवम् इयक्षमाणम् |
    संस्मयमाना युवतिः पुरस्ताद् आविर् वक्षांसि कृणुषे विभाती ||

    kanyéva tanvā́ śā́śadānām̐ éṣi devi devámíyakṣamāṇam ǀ
    saṃsmáyamānā yuvatíḥ purástādāvírvákṣāṃsi kṛṇuṣe vibhātī́ ǁ

    kanyeva tanvā śāśadānāṃ eṣi devi devam iyakṣamāṇam |
    saṃsmayamānā yuvatiḥ purastād āvir vakṣāṃsi kṛṇuṣe vibhātī ||

    क॒न्या॑ऽइव । त॒न्वा॑ । शाश॑दाना । एषि॑ । दे॒वि॒ । दे॒वम् । इय॑क्षमाणम् ।
    स॒म्ऽस्मय॑माना । यु॒व॒तिः । पु॒रस्ता॑त् । आ॒विः । वक्षां॑सि । कृ॒णु॒षे॒ । वि॒ऽभा॒ती ॥

    कन्याऽइव । तन्वा । शाशदाना । एषि । देवि । देवम् । इयक्षमाणम् ।
    सम्ऽस्मयमाना । युवतिः । पुरस्तात् । आविः । वक्षांसि । कृणुषे । विऽभाती ॥

    kanyā́-iva ǀ tanvā́ ǀ śā́śadānā ǀ éṣi ǀ devi ǀ devám ǀ íyakṣamāṇam ǀ
    sam-smáyamānā ǀ yuvatíḥ ǀ purástāt ǀ āvíḥ ǀ vákṣāṃsi ǀ kṛṇuṣe ǀ vi-bhātī́ ǁ

    kanyā-iva ǀ tanvā ǀ śāśadānā ǀ eṣi ǀ devi ǀ devam ǀ iyakṣamāṇam ǀ
    sam-smayamānā ǀ yuvatiḥ ǀ purastāt ǀ āviḥ ǀ vakṣāṃsi ǀ kṛṇuṣe ǀ vi-bhātī ǁ

    1.123.10 Aṣṭaka 2.1.5.0

  11. Ṛk 11

    सु॒सं॒का॒शा मा॒तृमृ॑ष्टेव॒ योषा॒विस्त॒न्वं॑ कृणुषे दृ॒शे कं ।
    भ॒द्रा त्वमु॑षो वित॒रं व्यु॑च्छ॒ न तत्ते॑ अ॒न्या उ॒षसो॑ नशंत ॥

    सुसंकाशा मातृमृष्टेव योषाविस् तन्वं कृणुषे दृशे कम् |
    भद्रा त्वम् उषो वितरं व्य् उच्छ न तत् ते अन्या उषसो नशन्त ||

    susaṃkāśā́ mātṛ́mṛṣṭeva yóṣāvístanvám kṛṇuṣe dṛśé kám ǀ
    bhadrā́ tvámuṣo vitarám vyúccha ná tátte anyā́ uṣáso naśanta ǁ

    susaṃkāśā mātṛmṛṣṭeva yoṣāvis tanvaṃ kṛṇuṣe dṛśe kam |
    bhadrā tvam uṣo vitaraṃ vy uccha na tat te anyā uṣaso naśanta ||

    सु॒ऽस॒ङ्का॒शा । मा॒तृमृ॑ष्टाऽइव । योषा॑ । आ॒विः । त॒न्व॑म् । कृ॒णु॒षे॒ । दृ॒शे । कम् ।
    भ॒द्रा । त्वम् । उ॒षः॒ । वि॒ऽत॒रम् । वि । उ॒च्छ॒ । न । तत् । ते॒ । अ॒न्याः । उ॒षसः॑ । न॒श॒न्त॒ ॥

    सुऽसङ्काशा । मातृमृष्टाऽइव । योषा । आविः । तन्वम् । कृणुषे । दृशे । कम् ।
    भद्रा । त्वम् । उषः । विऽतरम् । वि । उच्छ । न । तत् । ते । अन्याः । उषसः । नशन्त ॥

    su-saṅkāśā́ ǀ mātṛ́mṛṣṭā-iva ǀ yóṣā ǀ āvíḥ ǀ tanvám ǀ kṛṇuṣe ǀ dṛśé ǀ kám ǀ
    bhadrā́ ǀ tvám ǀ uṣaḥ ǀ vi-tarám ǀ ví ǀ uccha ǀ ná ǀ tát ǀ te ǀ anyā́ḥ ǀ uṣásaḥ ǀ naśanta ǁ

    su-saṅkāśā ǀ mātṛmṛṣṭā-iva ǀ yoṣā ǀ āviḥ ǀ tanvam ǀ kṛṇuṣe ǀ dṛśe ǀ kam ǀ
    bhadrā ǀ tvam ǀ uṣaḥ ǀ vi-taram ǀ vi ǀ uccha ǀ na ǀ tat ǀ te ǀ anyāḥ ǀ uṣasaḥ ǀ naśanta ǁ

    1.123.11 Aṣṭaka 2.1.6.0

  12. Ṛk 12

    अश्वा॑वती॒र्गोम॑तीर्वि॒श्ववा॑रा॒ यत॑माना र॒श्मिभिः॒ सूर्य॑स्य ।
    परा॑ च॒ यंति॒ पुन॒रा च॑ यंति भ॒द्रा नाम॒ वह॑माना उ॒षासः॑ ॥

    अश्वावतीर् गोमतीर् विश्ववारा यतमाना रश्मिभिः सूर्यस्य |
    परा च यन्ति पुनर् आ च यन्ति भद्रा नाम वहमाना उषासः ||

    áśvāvatīrgómatīrviśvávārā yátamānā raśmíbhiḥ sū́ryasya ǀ
    párā ca yánti púnarā́ ca yanti bhadrā́ nā́ma váhamānā uṣā́saḥ ǁ

    aśvāvatīr gomatīr viśvavārā yatamānā raśmibhiḥ sūryasya |
    parā ca yanti punar ā ca yanti bhadrā nāma vahamānā uṣāsaḥ ||

    अश्व॑ऽवतीः । गोऽम॑तीः । वि॒श्वऽवा॑राः । यत॑मानाः । र॒श्मिऽभिः॑ । सूर्य॑स्य ।
    परा॑ । च॒ । यन्ति॑ । पुनः॑ । आ । च॒ । य॒न्ति॒ । भ॒द्रा । नाम॑ । वह॑मानाः । उ॒षसः॑ ॥

    अश्वऽवतीः । गोऽमतीः । विश्वऽवाराः । यतमानाः । रश्मिऽभिः । सूर्यस्य ।
    परा । च । यन्ति । पुनः । आ । च । यन्ति । भद्रा । नाम । वहमानाः । उषसः ॥

    áśva-vatīḥ ǀ gó-matīḥ ǀ viśvá-vārāḥ ǀ yátamānāḥ ǀ raśmí-bhiḥ ǀ sū́ryasya ǀ
    párā ǀ ca ǀ yánti ǀ púnaḥ ǀ ā́ ǀ ca ǀ yanti ǀ bhadrā́ ǀ nā́ma ǀ váhamānāḥ ǀ uṣásaḥ ǁ

    aśva-vatīḥ ǀ go-matīḥ ǀ viśva-vārāḥ ǀ yatamānāḥ ǀ raśmi-bhiḥ ǀ sūryasya ǀ
    parā ǀ ca ǀ yanti ǀ punaḥ ǀ ā ǀ ca ǀ yanti ǀ bhadrā ǀ nāma ǀ vahamānāḥ ǀ uṣasaḥ ǁ

    1.123.12 Aṣṭaka 2.1.6.0

  13. Ṛk 13

    ऋ॒तस्य॑ र॒श्मिम॑नु॒यच्छ॑माना भ॒द्रंभ॑द्रं॒ क्रतु॑म॒स्मासु॑ धेहि ।
    उषो॑ नो अ॒द्य सु॒हवा॒ व्यु॑च्छा॒स्मासु॒ रायो॑ म॒घव॑त्सु च स्युः ॥

    ऋतस्य रश्मिम् अनुयच्छमाना भद्रम्-भद्रं क्रतुम् अस्मासु धेहि |
    उषो नो अद्य सुहवा व्य् उच्छास्मासु रायो मघवत्सु च स्युः ||

    ṛtásya raśmímanuyácchamānā bhadrámbhadram krátumasmā́su dhehi ǀ
    úṣo no adyá suhávā vyúcchāsmā́su rā́yo maghávatsu ca syuḥ ǁ

    ṛtasya raśmim anuyacchamānā bhadram-bhadraṃ kratum asmāsu dhehi |
    uṣo no adya suhavā vy ucchāsmāsu rāyo maghavatsu ca syuḥ ||

    ऋ॒तस्य॑ । र॒श्मिम् । अ॒नु॒ऽयच्छ॑माना । भ॒द्रम्ऽभ॑द्रम् । क्रतु॑म् । अ॒स्मासु॑ । धे॒हि॒ ।
    उषः॑ । नः॒ । अ॒द्य । सु॒ऽहवा॑ । वि । उ॒च्छ॒ । अ॒स्मासु॑ । रायः॑ । म॒घव॑त्ऽसु । च॒ । स्यु॒रिति॑ स्युः ॥

    ऋतस्य । रश्मिम् । अनुऽयच्छमाना । भद्रम्ऽभद्रम् । क्रतुम् । अस्मासु । धेहि ।
    उषः । नः । अद्य । सुऽहवा । वि । उच्छ । अस्मासु । रायः । मघवत्ऽसु । च । स्युरिति स्युः ॥

    ṛtásya ǀ raśmím ǀ anu-yácchamānā ǀ bhadrám-bhadram ǀ krátum ǀ asmā́su ǀ dhehi ǀ
    úṣaḥ ǀ naḥ ǀ adyá ǀ su-hávā ǀ ví ǀ uccha ǀ asmā́su ǀ rā́yaḥ ǀ maghávat-su ǀ ca ǀ syuríti syuḥ ǁ

    ṛtasya ǀ raśmim ǀ anu-yacchamānā ǀ bhadram-bhadram ǀ kratum ǀ asmāsu ǀ dhehi ǀ
    uṣaḥ ǀ naḥ ǀ adya ǀ su-havā ǀ vi ǀ uccha ǀ asmāsu ǀ rāyaḥ ǀ maghavat-su ǀ ca ǀ syuriti syuḥ ǁ

    1.123.13 Aṣṭaka 2.1.6.0

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 1.123 · Uṣas

Interpretations

Sri Aurobindo

Ṛk 1

The wide chariot of the Reason has been yoked, this all the immortal gods have ascended. From the blackness she has arisen who is noble and vast seeking knowledge for the mind’s foundation.

Ṛk 2

First before all the universe Dawn awoke conquering substance, vast, safely-preserving; high she shone abroad in her youth reborn; Usha came first in the earliest calling.

Ṛk 3

Because today thou dividest their share to the Strong Ones, Usha goddess beautiful shining upon the world of mortals, therefore here the god Savitri wide-governing utters us free from sin for the kingdom of the Sun.

Ṛk 4

To house and house the bright one comes towards us, in sky and sky establishing in their place the names of things; bent on enjoyment ever shining she comes and enjoys always the first fruit of every possession.

Ṛk 5

The sister of Bhaga, the twin of Varuna, Usha, goddess of Truth, thou first of the gods cleave to us; afterwards is he to be crushed who is the establisher of sin; him may we conquer by Reason with the speed of her chariot.

Ṛk 6

May the true lights arise in us, may those that hold this mansion; the forces of the night flaming pure join them; our desirable possessions hidden away by the darkness the wide-shining Dawns reveal.