Ṛgveda · Maṇḍala 1 · Sūkta 123
Ṛk 1.123.1
Saṃhitā
पृ॒थू रथो॒ दक्षि॑णाया अयो॒ज्यैनं॑ दे॒वासो॑ अ॒मृता॑सो अस्थुः ।
कृ॒ष्णादुद॑स्थाद॒र्या॒३॒॑ विहा॑या॒श्चिकि॑त्संती॒ मानु॑षाय॒ क्षया॑य ॥
पृथू रथो दक्षिणाया अयोज्य् ऐनं देवासो अमृतासो अस्थुः |
कृष्णाद् उद् अस्थाद् अर्या विहायाश् चिकित्सन्ती मानुषाय क्षयाय ||
pṛthū́ rátho dákṣiṇāyā ayojyáinam devā́so amṛ́tāso asthuḥ ǀ
kṛṣṇā́dúdasthādaryā́ víhāyāścíkitsantī mā́nuṣāya kṣáyāya ǁ
pṛthū ratho dakṣiṇāyā ayojy ainaṃ devāso amṛtāso asthuḥ |
kṛṣṇād ud asthād aryā vihāyāś cikitsantī mānuṣāya kṣayāya ||
Padapāṭha
पृ॒थुः । रथः॑ । दक्षि॑णायाः । अ॒यो॒जि॒ । आ । ए॒न॒म् । दे॒वासः॑ । अ॒मृता॑सः । अ॒स्थुः॒ ।
कृ॒ष्णात् । उत् । अ॒स्था॒त् । अ॒र्या॑ । विऽहा॑याः । चिकि॑त्सन्ती । मानु॑षाय । क्षया॑य ॥
पृथुः । रथः । दक्षिणायाः । अयोजि । आ । एनम् । देवासः । अमृतासः । अस्थुः ।
कृष्णात् । उत् । अस्थात् । अर्या । विऽहायाः । चिकित्सन्ती । मानुषाय । क्षयाय ॥
pṛthúḥ ǀ ráthaḥ ǀ dákṣiṇāyāḥ ǀ ayoji ǀ ā́ ǀ enam ǀ devā́saḥ ǀ amṛ́tāsaḥ ǀ asthuḥ ǀ
kṛṣṇā́t ǀ út ǀ asthāt ǀ aryā́ ǀ ví-hāyāḥ ǀ cíkitsantī ǀ mā́nuṣāya ǀ kṣáyāya ǁ
pṛthuḥ ǀ rathaḥ ǀ dakṣiṇāyāḥ ǀ ayoji ǀ ā ǀ enam ǀ devāsaḥ ǀ amṛtāsaḥ ǀ asthuḥ ǀ
kṛṣṇāt ǀ ut ǀ asthāt ǀ aryā ǀ vi-hāyāḥ ǀ cikitsantī ǀ mānuṣāya ǀ kṣayāya ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.123.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.1.04.00
- Devatā देवता
- Uṣas
- Ṛṣi ऋषि
- Kakṣīvat Dairghatamasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.