Ṛgveda · Maṇḍala 1 · Sūkta 122

Ṛk 1.122.15

Viśvedevās · Kakṣīvat Dairghatamasa

The whole sūkta Link

Saṃhitā

च॒त्वारो॑ मा मश॒र्शार॑स्य॒ शिश्व॒स्त्रयो॒ राज्ञ॒ आय॑वसस्य जि॒ष्णोः ।
रथो॑ वां मित्रावरुणा दी॒र्घाप्साः॒ स्यूम॑गभस्तिः॒ सूरो॒ नाद्यौ॑त् ॥

चत्वारो मा मशर्शारस्य शिश्वस् त्रयो राज्ञ आयवसस्य जिष्णोः |
रथो वाम् मित्रावरुणा दीर्घाप्साः स्यूमगभस्तिः सूरो नाद्यौत् ||

catvā́ro mā maśarśā́rasya śíśvastráyo rā́jña ā́yavasasya jiṣṇóḥ ǀ
rátho vām mitrāvaruṇā dīrghā́psāḥ syū́magabhastiḥ sū́ro nā́dyaut ǁ

catvāro mā maśarśārasya śiśvas trayo rājña āyavasasya jiṣṇoḥ |
ratho vām mitrāvaruṇā dīrghāpsāḥ syūmagabhastiḥ sūro nādyaut ||

Padapāṭha

च॒त्वारः॑ । मा॒ । म॒श॒र्शार॑स्य । शिश्वः॑ । त्रयः॑ । राज्ञः॑ । आय॑वसस्य । जि॒ष्णोः ।
रथः॑ । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । दी॒र्घऽअ॑प्साः । स्यूम॑ऽगभस्तिः । सूरः॑ । न । अ॒द्यौ॒त् ॥

चत्वारः । मा । मशर्शारस्य । शिश्वः । त्रयः । राज्ञः । आयवसस्य । जिष्णोः ।
रथः । वाम् । मित्रावरुणा । दीर्घऽअप्साः । स्यूमऽगभस्तिः । सूरः । न । अद्यौत् ॥

catvā́raḥ ǀ mā ǀ maśarśā́rasya ǀ śíśvaḥ ǀ tráyaḥ ǀ rā́jñaḥ ǀ ā́yavasasya ǀ jiṣṇóḥ ǀ
ráthaḥ ǀ vām ǀ mitrāvaruṇā ǀ dīrghá-apsāḥ ǀ syū́ma-gabhastiḥ ǀ sū́raḥ ǀ ná ǀ adyaut ǁ

catvāraḥ ǀ mā ǀ maśarśārasya ǀ śiśvaḥ ǀ trayaḥ ǀ rājñaḥ ǀ āyavasasya ǀ jiṣṇoḥ ǀ
rathaḥ ǀ vām ǀ mitrāvaruṇā ǀ dīrgha-apsāḥ ǀ syūma-gabhastiḥ ǀ sūraḥ ǀ na ǀ adyaut ǁ

References

Maṇḍala · Sūkta · Ṛk
01.122.15
Aṣṭaka · Adhyāya · Varga · Ṛk
2.1.03.00
Devatā देवता
Viśvedevās
Ṛṣi ऋषि
Kakṣīvat Dairghatamasa
Chandas छन्दस्
Triṣṭubh, Virāḍrūpā
Svara स्वरः
पञ्चमः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 1.122.15

Interpretations

Sāyaṇa

कदित्थेत्यस्मिन्नष्टादशानुवाकेषट्सूक्तानि तत्रपृथूरथइतितृतीयंसूक्तंत्रयोदशर्चं अत्रानुक्रमणिका- पृथुःसप्तोनोषस्यंत्विति दीर्घतमसःपुत्रःकक्षीवानृषिः ऋषिश्चान्यस्मादृषेरितिपरिभाषितत्वात् अना- देशपरिभाषयात्रिष्टुप् छन्दः तुशब्दप्रयोगादिदमादिकेसूक्तेउषोदेवताके प्रातरनुवाकेउषस्येक्रतावस्य- चोत्तरस्यचविनियोगः अथोषस्यइतिसूत्रितम् पृथूरथइतिसूक्तेप्रत्यर्चिरित्यष्टाविति तथाश्विनशस्त्रे- इदमादिसूक्तद्वयस्यविनियोगः प्रातरनुवाकन्यायेनेत्यतिदिष्टत्वात् ।