Ṛgveda · Maṇḍala 1 · Sūkta 122
Ṛk 1.122.3
Saṃhitā
म॒मत्तु॑ नः॒ परि॑ज्मा वस॒र्हा म॒मत्तु॒ वातो॑ अ॒पां वृष॑ण्वान् ।
शि॒शी॒तमिं॑द्रापर्वता यु॒वं न॒स्तन्नो॒ विश्वे॑ वरिवस्यंतु दे॒वाः ॥
ममत्तु नः परिज्मा वसर्हा ममत्तु वातो अपां वृषण्वान् |
शिशीतम् इन्द्रापर्वता युवं नस् तन् नो विश्वे वरिवस्यन्तु देवाः ||
mamáttu naḥ párijmā vasarhā́ mamáttu vā́to apā́m vṛ́ṣaṇvān ǀ
śiśītámindrāparvatā yuvám nastánno víśve varivasyantu devā́ḥ ǁ
mamattu naḥ parijmā vasarhā mamattu vāto apāṃ vṛṣaṇvān |
śiśītam indrāparvatā yuvaṃ nas tan no viśve varivasyantu devāḥ ||
Padapāṭha
म॒मत्तु॑ । नः॒ । परि॑ऽज्मा । व॒स॒र्हा । म॒मत्तु॑ । वातः॑ । अ॒पाम् । वृष॑ण्ऽवान् ।
शि॒शी॒तम् । इ॒न्द्रा॒प॒र्व॒ता॒ । यु॒वम् । नः॒ । तत् । नः॒ । विश्वे॑ । व॒रि॒व॒स्य॒न्तु॒ । दे॒वाः ॥
ममत्तु । नः । परिऽज्मा । वसर्हा । ममत्तु । वातः । अपाम् । वृषण्ऽवान् ।
शिशीतम् । इन्द्रापर्वता । युवम् । नः । तत् । नः । विश्वे । वरिवस्यन्तु । देवाः ॥
mamáttu ǀ naḥ ǀ pári-jmā ǀ vasarhā́ ǀ mamáttu ǀ vā́taḥ ǀ apā́m ǀ vṛ́ṣaṇ-vān ǀ
śiśītám ǀ indrāparvatā ǀ yuvám ǀ naḥ ǀ tát ǀ naḥ ǀ víśve ǀ varivasyantu ǀ devā́ḥ ǁ
mamattu ǀ naḥ ǀ pari-jmā ǀ vasarhā ǀ mamattu ǀ vātaḥ ǀ apām ǀ vṛṣaṇ-vān ǀ
śiśītam ǀ indrāparvatā ǀ yuvam ǀ naḥ ǀ tat ǀ naḥ ǀ viśve ǀ varivasyantu ǀ devāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.122.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.1.01.00
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Kakṣīvat Dairghatamasa
- Chandas छन्दस्
- Triṣṭubh, Virāḍrūpā
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.