Sūkta 20
- Devatā देवता
- Ṛbhus
- Ṛṣi ऋषि
- Medhātithi Kāṇva
- Chandas छन्दस्
- Gāyatrī
Metres by ṛk
1st set of styles gāyatrī (1, 2, 6, 7); pipīlikāmadhyānicṛdgāyatrī (5, 8); virāḍgāyatrī (3); nicṛdgāyatrī (4)
2nd set of styles gāyatrī
-
Ṛk 1
अ॒यं दे॒वाय॒ जन्म॑ने॒ स्तोमो॒ विप्रे॑भिरास॒या ।
अका॑रि रत्न॒धात॑मः ॥अयं देवाय जन्मने स्तोमो विप्रेभिर् आसया |
अकारि रत्नधातमः ||ayám devā́ya jánmane stómo víprebhirāsayā́ ǀ
ákāri ratnadhā́tamaḥ ǁayaṃ devāya janmane stomo viprebhir āsayā |
akāri ratnadhātamaḥ ||अ॒यम् । दे॒वाय॑ । जन्म॑ने । स्तोमः॑ । विप्रे॑भिः । आ॒स॒या ।
अका॑रि । र॒त्न॒ऽधात॑मः ॥अयम् । देवाय । जन्मने । स्तोमः । विप्रेभिः । आसया ।
अकारि । रत्नऽधातमः ॥ayám ǀ devā́ya ǀ jánmane ǀ stómaḥ ǀ víprebhiḥ ǀ āsayā́ ǀ
ákāri ǀ ratna-dhā́tamaḥ ǁayam ǀ devāya ǀ janmane ǀ stomaḥ ǀ viprebhiḥ ǀ āsayā ǀ
akāri ǀ ratna-dhātamaḥ ǁ1.20.1 Aṣṭaka 1.2.1.1Anuvāka 1.5.19
-
Ṛk 2
य इंद्रा॑य वचो॒युजा॑ तत॒क्षुर्मन॑सा॒ हरी॑ ।
शमी॑भिर्य॒ज्ञमा॑शत ॥य इन्द्राय वचोयुजा ततक्षुर् मनसा हरी |
शमीभिर् यज्ञम् आशत ||yá índrāya vacoyújā tatakṣúrmánasā hárī ǀ
śámībhiryajñámāśata ǁya indrāya vacoyujā tatakṣur manasā harī |
śamībhir yajñam āśata ||ये । इन्द्रा॑य । व॒चः॒ऽयुजा॑ । त॒त॒क्षुः । मन॑सा । हरी॒ इति॑ ।
शमी॑भिः । य॒ज्ञम् । आ॒श॒त॒ ॥ये । इन्द्राय । वचःऽयुजा । ततक्षुः । मनसा । हरी इति ।
शमीभिः । यज्ञम् । आशत ॥yé ǀ índrāya ǀ vacaḥ-yújā ǀ tatakṣúḥ ǀ mánasā ǀ hárī íti ǀ
śámībhiḥ ǀ yajñám ǀ āśata ǁye ǀ indrāya ǀ vacaḥ-yujā ǀ tatakṣuḥ ǀ manasā ǀ harī iti ǀ
śamībhiḥ ǀ yajñam ǀ āśata ǁ1.20.2 Aṣṭaka 1.2.1.2Anuvāka 1.5.20
-
Ṛk 3
तक्ष॒न्नास॑त्याभ्यां॒ परि॑ज्मानं सु॒खं रथं॑ ।
तक्षं॑धे॒नुं स॑ब॒र्दुघां॑ ॥तक्षन् नासत्याभ्याम् परिज्मानं सुखं रथम् |
तक्षन् धेनुं सबर्दुघाम् ||tákṣannā́satyābhyām párijmānam sukhám rátham ǀ
tákṣandhenúm sabardúghām ǁtakṣan nāsatyābhyām parijmānaṃ sukhaṃ ratham |
takṣan dhenuṃ sabardughām ||तक्ष॑न् । नास॑त्याभ्याम् । परि॑ऽज्मानम् । सु॒ऽखम् । रथ॑म् ।
तक्ष॑न् । धे॒नुम् । स॒बः॒ऽदुघा॑म् ॥तक्षन् । नासत्याभ्याम् । परिऽज्मानम् । सुऽखम् । रथम् ।
तक्षन् । धेनुम् । सबःऽदुघाम् ॥tákṣan ǀ nā́satyābhyām ǀ pári-jmānam ǀ su-khám ǀ rátham ǀ
tákṣan ǀ dhenúm ǀ sabaḥ-dúghām ǁtakṣan ǀ nāsatyābhyām ǀ pari-jmānam ǀ su-kham ǀ ratham ǀ
takṣan ǀ dhenum ǀ sabaḥ-dughām ǁ1.20.3 Aṣṭaka 1.2.1.3Anuvāka 1.5.21
-
Ṛk 4
युवा॑ना पि॒तरा॒ पुनः॑ स॒त्यमं॑त्रा ऋजू॒यवः॑ ।
ऋ॒भवो॑ वि॒ष्ट्य॑क्रत ॥युवाना पितरा पुनः सत्यमन्त्रा ऋजूयवः |
ऋभवो विष्ट्य् अक्रत ||yúvānā pitárā púnaḥ satyámantrā ṛjūyávaḥ ǀ
ṛbhávo viṣṭyákrata ǁyuvānā pitarā punaḥ satyamantrā ṛjūyavaḥ |
ṛbhavo viṣṭy akrata ||युवा॑ना । पि॒तरा॑ । पुन॒रिति॑ । स॒त्यऽम॑न्त्राः । ऋ॒जु॒ऽयवः॑ ।
ऋ॒भवः॑ । वि॒ष्टी । अ॒क्र॒त॒ ॥युवाना । पितरा । पुनरिति । सत्यऽमन्त्राः । ऋजुऽयवः ।
ऋभवः । विष्टी । अक्रत ॥yúvānā ǀ pitárā ǀ púnaríti ǀ satyá-mantrāḥ ǀ ṛju-yávaḥ ǀ
ṛbhávaḥ ǀ viṣṭī́ ǀ akrata ǁyuvānā ǀ pitarā ǀ punariti ǀ satya-mantrāḥ ǀ ṛju-yavaḥ ǀ
ṛbhavaḥ ǀ viṣṭī ǀ akrata ǁ1.20.4 Aṣṭaka 1.2.1.4Anuvāka 1.5.22
-
Ṛk 5
सं वो॒ मदा॑सो अग्म॒तेंद्रे॑ण च म॒रुत्व॑ता ।
आ॒दि॒त्येभि॑श्च॒ राज॑भिः ॥सं वो मदासो अग्मतेन्द्रेण च मरुत्वता |
आदित्येभिश् च राजभिः ||sám vo mádāso agmaténdreṇa ca marútvatā ǀ
ādityébhiśca rā́jabhiḥ ǁsaṃ vo madāso agmatendreṇa ca marutvatā |
ādityebhiś ca rājabhiḥ ||सम् । वः॒ । मदा॑सः । अ॒ग्म॒त॒ । इन्द्रे॑ण । च॒ । म॒रुत्व॑ता ।
आ॒दि॒त्येभिः॑ । च॒ । राज॑ऽभिः ॥सम् । वः । मदासः । अग्मत । इन्द्रेण । च । मरुत्वता ।
आदित्येभिः । च । राजऽभिः ॥sám ǀ vaḥ ǀ mádāsaḥ ǀ agmata ǀ índreṇa ǀ ca ǀ marútvatā ǀ
ādityébhiḥ ǀ ca ǀ rā́ja-bhiḥ ǁsam ǀ vaḥ ǀ madāsaḥ ǀ agmata ǀ indreṇa ǀ ca ǀ marutvatā ǀ
ādityebhiḥ ǀ ca ǀ rāja-bhiḥ ǁ1.20.5 Aṣṭaka 1.2.1.5Anuvāka 1.5.23
-
Ṛk 6
उ॒त त्यं च॑म॒सं नवं॒ त्वष्टु॑र्दे॒वस्य॒ निष्कृ॑तं ।
अक॑र्त च॒तुरः॒ पुनः॑ ॥उत त्यं चमसं नवं त्वष्टुर् देवस्य निष्कृतम् |
अकर्त चतुरः पुनः ||utá tyám camasám návam tváṣṭurdevásya níṣkṛtam ǀ
ákarta catúraḥ púnaḥ ǁuta tyaṃ camasaṃ navaṃ tvaṣṭur devasya niṣkṛtam |
akarta caturaḥ punaḥ ||उ॒त । त्यम् । च॒म॒सम् । नव॑म् । त्वष्टुः॑ । दे॒वस्य॑ । निःऽकृ॑तम् ।
अक॑र्त । च॒तुरः॑ । पुन॒रिति॑ ॥उत । त्यम् । चमसम् । नवम् । त्वष्टुः । देवस्य । निःऽकृतम् ।
अकर्त । चतुरः । पुनरिति ॥utá ǀ tyám ǀ camasám ǀ návam ǀ tváṣṭuḥ ǀ devásya ǀ níḥ-kṛtam ǀ
ákarta ǀ catúraḥ ǀ púnaríti ǁuta ǀ tyam ǀ camasam ǀ navam ǀ tvaṣṭuḥ ǀ devasya ǀ niḥ-kṛtam ǀ
akarta ǀ caturaḥ ǀ punariti ǁ1.20.6 Aṣṭaka 1.2.2.1Anuvāka 1.5.24
-
Ṛk 7
ते नो॒ रत्ना॑नि धत्तन॒ त्रिरा साप्ता॑नि सुन्व॒ते ।
एक॑मेकं सुश॒स्तिभिः॑ ॥ते नो रत्नानि धत्तन त्रिर् आ साप्तानि सुन्वते |
एकम्-एकं सुशस्तिभिः ||té no rátnāni dhattana trírā́ sā́ptāni sunvaté ǀ
ékamekam suśastíbhiḥ ǁte no ratnāni dhattana trir ā sāptāni sunvate |
ekam-ekaṃ suśastibhiḥ ||ते । नः॒ । रत्ना॑नि । ध॒त्त॒न॒ । त्रिः । आ । साप्ता॑नि । सु॒न्व॒ते ।
एक॑म्ऽएकम् । सु॒श॒स्तिऽभिः॑ ॥ते । नः । रत्नानि । धत्तन । त्रिः । आ । साप्तानि । सुन्वते ।
एकम्ऽएकम् । सुशस्तिऽभिः ॥té ǀ naḥ ǀ rátnāni ǀ dhattana ǀ tríḥ ǀ ā́ ǀ sā́ptāni ǀ sunvaté ǀ
ékam-ekam ǀ suśastí-bhiḥ ǁte ǀ naḥ ǀ ratnāni ǀ dhattana ǀ triḥ ǀ ā ǀ sāptāni ǀ sunvate ǀ
ekam-ekam ǀ suśasti-bhiḥ ǁ1.20.7 Aṣṭaka 1.2.2.2Anuvāka 1.5.25
-
Ṛk 8
अधा॑रयंत॒ वह्न॒योऽभ॑जंत सुकृ॒त्यया॑ ।
भा॒गं दे॒वेषु॑ य॒ज्ञियं॑ ॥अधारयन्त वह्नयो ऽभजन्त सुकृत्यया |
भागं देवेषु यज्ञियम् ||ádhārayanta váhnayó’bhajanta sukṛtyáyā ǀ
bhāgám devéṣu yajñíyam ǁadhārayanta vahnayo 'bhajanta sukṛtyayā |
bhāgaṃ deveṣu yajñiyam ||अधा॑रयन्त । वह्न॑यः । अभ॑जन्त । सु॒ऽकृ॒त्यया॑ ।
भा॒गम् । दे॒वेषु॑ । य॒ज्ञिय॑म् ॥अधारयन्त । वह्नयः । अभजन्त । सुऽकृत्यया ।
भागम् । देवेषु । यज्ञियम् ॥ádhārayanta ǀ váhnayaḥ ǀ ábhajanta ǀ su-kṛtyáyā ǀ
bhāgám ǀ devéṣu ǀ yajñíyam ǁadhārayanta ǀ vahnayaḥ ǀ abhajanta ǀ su-kṛtyayā ǀ
bhāgam ǀ deveṣu ǀ yajñiyam ǁ1.20.8 Aṣṭaka 1.2.2.3Anuvāka 1.5.26
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.