Ṛgveda · Maṇḍala 1

Sūkta 183

Aśvins · Agastya Maitrāvaruṇi · 6 ṛks

Link
Devatā देवता
Aśvins
Ṛṣi ऋषि
Agastya Maitrāvaruṇi
Chandas छन्दस्
Triṣṭubh
Metres by ṛk

1st set of styles triṣṭup (1, 4, 6); nicṛttriṣṭup (2, 3); bhurikpaṅkti (5)

2nd set of styles triṣṭubh

  1. Ṛk 1

    तं युं॑जाथां॒ मन॑सो॒ यो जवी॑यान् त्रिवंधु॒रो वृ॑षणा॒ यस्त्रि॑च॒क्रः ।
    येनो॑पया॒थः सु॒कृतो॑ दुरो॒णं त्रि॒धातु॑ना पतथो॒ विर्न प॒र्णैः ॥

    तं युञ्जाथाम् मनसो यो जवीयान् त्रिवन्धुरो वृषणा यस् त्रिचक्रः |
    येनोपयाथः सुकृतो दुरोणं त्रिधातुना पतथो विर् न पर्णैः ||

    tám yuñjāthām mánaso yó jávīyān trivandhuró vṛṣaṇā yástricakráḥ ǀ
    yénopayātháḥ sukṛ́to duroṇám tridhā́tunā patatho vírná parṇáiḥ ǁ

    taṃ yuñjāthām manaso yo javīyān trivandhuro vṛṣaṇā yas tricakraḥ |
    yenopayāthaḥ sukṛto duroṇaṃ tridhātunā patatho vir na parṇaiḥ ||

    तम् । यु॒ञ्जा॒था॒म् । मन॑सः । यः । जवी॑यान् । त्रि॒ऽव॒न्धु॒रः । वृ॒ष॒णा॒ । यः । त्रि॒ऽच॒क्रः ।
    येन॑ । उ॒प॒ऽया॒थः । सु॒ऽकृतः॑ । दु॒रो॒णम् । त्रि॒ऽधातु॑ना । प॒त॒थः॒ । विः । न । प॒र्णैः ॥

    तम् । युञ्जाथाम् । मनसः । यः । जवीयान् । त्रिऽवन्धुरः । वृषणा । यः । त्रिऽचक्रः ।
    येन । उपऽयाथः । सुऽकृतः । दुरोणम् । त्रिऽधातुना । पतथः । विः । न । पर्णैः ॥

    tám ǀ yuñjāthām ǀ mánasaḥ ǀ yáḥ ǀ jávīyān ǀ tri-vandhuráḥ ǀ vṛṣaṇā ǀ yáḥ ǀ tri-cakráḥ ǀ
    yéna ǀ upa-yātháḥ ǀ su-kṛ́taḥ ǀ duroṇám ǀ tri-dhā́tunā ǀ patathaḥ ǀ víḥ ǀ ná ǀ parṇáiḥ ǁ

    tam ǀ yuñjāthām ǀ manasaḥ ǀ yaḥ ǀ javīyān ǀ tri-vandhuraḥ ǀ vṛṣaṇā ǀ yaḥ ǀ tri-cakraḥ ǀ
    yena ǀ upa-yāthaḥ ǀ su-kṛtaḥ ǀ duroṇam ǀ tri-dhātunā ǀ patathaḥ ǀ viḥ ǀ na ǀ parṇaiḥ ǁ

    1.183.1 Aṣṭaka 2.4.29.1Anuvāka 1.24.28

  2. Ṛk 2

    सु॒वृद्रथो॑ वर्तते॒ यन्न॒भि क्षां यत्तिष्ठ॑थः॒ क्रतु॑मं॒तानु॑ पृ॒क्षे ।
    वपु॑र्वपु॒ष्या स॑चतामि॒यं गीर्दि॒वो दु॑हि॒त्रोषसा॑ सचेथे ॥

    सुवृद् रथो वर्तते यन्न् अभि क्षां यत् तिष्ठथः क्रतुमन्तानु पृक्षे |
    वपुर् वपुष्या सचताम् इयं गीर् दिवो दुहित्रोषसा सचेथे ||

    suvṛ́drátho vartate yánnabhí kṣā́m yáttíṣṭhathaḥ krátumantā́nu pṛkṣé ǀ
    vápurvapuṣyā́ sacatāmiyám gī́rdivó duhitróṣásā sacethe ǁ

    suvṛd ratho vartate yann abhi kṣāṃ yat tiṣṭhathaḥ kratumantānu pṛkṣe |
    vapur vapuṣyā sacatām iyaṃ gīr divo duhitroṣasā sacethe ||

    सु॒ऽवृत् । रथः॑ । व॒र्त॒ते॒ । यन् । अ॒भि । क्षाम् । यत् । तिष्ठ॑थः । क्रतु॑ऽमन्ता । अनु॑ । पृ॒क्षे ।
    वपुः॑ । व॒पु॒ष्या । स॒च॒ता॒म् । इ॒यम् । गीः । दि॒वः । दु॒हि॒त्रा । उ॒षसा॑ । स॒चे॒थे॒ इति॑ ॥

    सुऽवृत् । रथः । वर्तते । यन् । अभि । क्षाम् । यत् । तिष्ठथः । क्रतुऽमन्ता । अनु । पृक्षे ।
    वपुः । वपुष्या । सचताम् । इयम् । गीः । दिवः । दुहित्रा । उषसा । सचेथे इति ॥

    su-vṛ́t ǀ ráthaḥ ǀ vartate ǀ yán ǀ abhí ǀ kṣā́m ǀ yát ǀ tíṣṭhathaḥ ǀ krátu-mantā ǀ ánu ǀ pṛkṣé ǀ
    vápuḥ ǀ vapuṣyā́ ǀ sacatām ǀ iyám ǀ gī́ḥ ǀ diváḥ ǀ duhitrā́ ǀ uṣásā ǀ sacethe íti ǁ

    su-vṛt ǀ rathaḥ ǀ vartate ǀ yan ǀ abhi ǀ kṣām ǀ yat ǀ tiṣṭhathaḥ ǀ kratu-mantā ǀ anu ǀ pṛkṣe ǀ
    vapuḥ ǀ vapuṣyā ǀ sacatām ǀ iyam ǀ gīḥ ǀ divaḥ ǀ duhitrā ǀ uṣasā ǀ sacethe iti ǁ

    1.183.2 Aṣṭaka 2.4.29.2Anuvāka 1.24.29

  3. Ṛk 3

    आ ति॑ष्ठतं सु॒वृतं॒ यो रथो॑ वा॒मनु॑ व्र॒तानि॒ वर्त॑ते ह॒विष्मा॑न् ।
    येन॑ नरा नासत्येष॒यध्यै॑ व॒र्तिर्या॒थस्तन॑याय॒ त्मने॑ च ॥

    आ तिष्ठतं सुवृतं यो रथो वाम् अनु व्रतानि वर्तते हविष्मान् |
    येन नरा नासत्येषयध्यै वर्तिर् याथस् तनयाय त्मने च ||

    ā́ tiṣṭhatam suvṛ́tam yó rátho vāmánu vratā́ni vártate havíṣmān ǀ
    yéna narā nāsatyeṣayádhyai vartíryāthástánayāya tmáne ca ǁ

    ā tiṣṭhataṃ suvṛtaṃ yo ratho vām anu vratāni vartate haviṣmān |
    yena narā nāsatyeṣayadhyai vartir yāthas tanayāya tmane ca ||

    आ । ति॒ष्ठ॒त॒म् । सु॒ऽवृत॑म् । यः । रथः॑ । वा॒म् । अनु॑ । व्र॒तानि॑ । वर्त॑ते । ह॒विष्मा॑न् ।
    येन॑ । न॒रा॒ । ना॒स॒त्या॒ । इ॒ष॒यध्यै॑ । व॒र्तिः । या॒थः । तन॑याय । त्मने॑ । च॒ ॥

    आ । तिष्ठतम् । सुऽवृतम् । यः । रथः । वाम् । अनु । व्रतानि । वर्तते । हविष्मान् ।
    येन । नरा । नासत्या । इषयध्यै । वर्तिः । याथः । तनयाय । त्मने । च ॥

    ā́ ǀ tiṣṭhatam ǀ su-vṛ́tam ǀ yáḥ ǀ ráthaḥ ǀ vām ǀ ánu ǀ vratā́ni ǀ vártate ǀ havíṣmān ǀ
    yéna ǀ narā ǀ nāsatyā ǀ iṣayádhyai ǀ vartíḥ ǀ yātháḥ ǀ tánayāya ǀ tmáne ǀ ca ǁ

    ā ǀ tiṣṭhatam ǀ su-vṛtam ǀ yaḥ ǀ rathaḥ ǀ vām ǀ anu ǀ vratāni ǀ vartate ǀ haviṣmān ǀ
    yena ǀ narā ǀ nāsatyā ǀ iṣayadhyai ǀ vartiḥ ǀ yāthaḥ ǀ tanayāya ǀ tmane ǀ ca ǁ

    1.183.3 Aṣṭaka 2.4.29.3Anuvāka 1.24.30

  4. Ṛk 4

    मा वां॒ वृको॒ मा वृ॒कीरा द॑धर्षी॒न्मा परि॑ वर्क्तमु॒त माति॑ धक्तं ।
    अ॒यं वां॑ भा॒गो निहि॑त इ॒यं गीर्दस्रा॑वि॒मे वां॑ नि॒धयो॒ मधू॑नां ॥

    मा वां वृको मा वृकीर् आ दधर्षीन् मा परि वर्क्तम् उत माति धक्तम् |
    अयं वाम् भागो निहित इयं गीर् दस्राव् इमे वां निधयो मधूनाम् ||

    mā́ vām vṛ́ko mā́ vṛkī́rā́ dadharṣīnmā́ pári varktamutá mā́ti dhaktam ǀ
    ayám vām bhāgó níhita iyám gī́rdásrāvimé vām nidháyo mádhūnām ǁ

    mā vāṃ vṛko mā vṛkīr ā dadharṣīn mā pari varktam uta māti dhaktam |
    ayaṃ vām bhāgo nihita iyaṃ gīr dasrāv ime vāṃ nidhayo madhūnām ||

    मा । वा॒म् । वृकः॑ । मा । वृ॒कीः । आ । द॒ध॒र्षी॒त् । मा । परि॑ । व॒र्क्त॒म् । उ॒त । मा । अति॑ । ध॒क्त॒म् ।
    अ॒यम् । वा॒म् । भा॒गः । निऽहि॑तः । इ॒यम् । गीः । दस्रौ॑ । इ॒मे । वा॒म् । नि॒ऽधयः॑ । मधू॑नाम् ॥

    मा । वाम् । वृकः । मा । वृकीः । आ । दधर्षीत् । मा । परि । वर्क्तम् । उत । मा । अति । धक्तम् ।
    अयम् । वाम् । भागः । निऽहितः । इयम् । गीः । दस्रौ । इमे । वाम् । निऽधयः । मधूनाम् ॥

    mā́ ǀ vām ǀ vṛ́kaḥ ǀ mā́ ǀ vṛkī́ḥ ǀ ā́ ǀ dadharṣīt ǀ mā́ ǀ pári ǀ varktam ǀ utá ǀ mā́ ǀ áti ǀ dhaktam ǀ
    ayám ǀ vām ǀ bhāgáḥ ǀ ní-hitaḥ ǀ iyám ǀ gī́ḥ ǀ dásrau ǀ imé ǀ vām ǀ ni-dháyaḥ ǀ mádhūnām ǁ

    mā ǀ vām ǀ vṛkaḥ ǀ mā ǀ vṛkīḥ ǀ ā ǀ dadharṣīt ǀ mā ǀ pari ǀ varktam ǀ uta ǀ mā ǀ ati ǀ dhaktam ǀ
    ayam ǀ vām ǀ bhāgaḥ ǀ ni-hitaḥ ǀ iyam ǀ gīḥ ǀ dasrau ǀ ime ǀ vām ǀ ni-dhayaḥ ǀ madhūnām ǁ

    1.183.4 Aṣṭaka 2.4.29.4Anuvāka 1.24.31

  5. Ṛk 5

    यु॒वां गोत॑मः पुरुमी॒ळ्हो अत्रि॒र्दस्रा॒ हव॒तेऽव॑से ह॒विष्मा॑न् ।
    दिशं॒ न दि॒ष्टामृ॑जू॒येव॒ यंता मे॒ हवं॑ नास॒त्योप॑ यातं ॥

    युवां गोतमः पुरुमीऌहो अत्रिर् दस्रा हवते ऽवसे हविष्मान् |
    दिशं न दिष्टाम् ऋजूयेव यन्ता मे हवं नासत्योप यातम् ||

    yuvā́m gótamaḥ purumīḷhó átrirdásrā hávaté’vase havíṣmān ǀ
    díśam ná diṣṭā́mṛjūyéva yántā́ me hávam nāsatyópa yātam ǁ

    yuvāṃ gotamaḥ purumīḷho atrir dasrā havate 'vase haviṣmān |
    diśaṃ na diṣṭām ṛjūyeva yantā me havaṃ nāsatyopa yātam ||

    यु॒वम् । गोत॑मः । पु॒रु॒ऽमी॒ळ्हः । अत्रिः॑ । दस्रा॑ । हव॑ते । अव॑से । ह॒विष्मा॑न् ।
    दिश॑म् । न । दि॒ष्टाम् । ऋ॒जु॒याऽइ॑व । यन्ता॑ । आ । मे॒ । हव॑म् । ना॒स॒त्या॒ । उप॑ । या॒त॒म् ॥

    युवम् । गोतमः । पुरुऽमीळ्हः । अत्रिः । दस्रा । हवते । अवसे । हविष्मान् ।
    दिशम् । न । दिष्टाम् । ऋजुयाऽइव । यन्ता । आ । मे । हवम् । नासत्या । उप । यातम् ॥

    yuvám ǀ gótamaḥ ǀ puru-mīḷháḥ ǀ átriḥ ǀ dásrā ǀ hávate ǀ ávase ǀ havíṣmān ǀ
    díśam ǀ ná ǀ diṣṭā́m ǀ ṛjuyā́-iva ǀ yántā ǀ ā́ ǀ me ǀ hávam ǀ nāsatyā ǀ úpa ǀ yātam ǁ

    yuvam ǀ gotamaḥ ǀ puru-mīḷhaḥ ǀ atriḥ ǀ dasrā ǀ havate ǀ avase ǀ haviṣmān ǀ
    diśam ǀ na ǀ diṣṭām ǀ ṛjuyā-iva ǀ yantā ǀ ā ǀ me ǀ havam ǀ nāsatyā ǀ upa ǀ yātam ǁ

    1.183.5 Aṣṭaka 2.4.29.5Anuvāka 1.24.32

  6. Ṛk 6

    अता॑रिष्म॒ तम॑सस्पा॒रम॒स्य प्रति॑ वां॒ स्तोमो॑ अश्विनावधायि ।
    एह या॑तं प॒थिभि॑र्देव॒यानै॑र्वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुं ॥

    अतारिष्म तमसस् पारम् अस्य प्रति वां स्तोमो अश्विनाव् अधायि |
    एह यातम् पथिभिर् देवयानैर् विद्यामेषं वृजनं जीरदानुम् ||

    átāriṣma támasaspārámasyá práti vām stómo aśvināvadhāyi ǀ
    éhá yātam pathíbhirdevayā́nairvidyā́meṣám vṛjánam jīrádānum ǁ

    atāriṣma tamasas pāram asya prati vāṃ stomo aśvināv adhāyi |
    eha yātam pathibhir devayānair vidyāmeṣaṃ vṛjanaṃ jīradānum ||

    अता॑रिष्म । तम॑सः । पा॒रम् । अ॒स्य । प्रति॑ । वा॒म् । स्तोमः॑ । अ॒श्वि॒नौ॒ । अ॒धा॒यि॒ ।
    आ । इ॒ह । या॒त॒म् । प॒थिऽभिः॑ । दे॒व॒ऽयानैः॑ । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥

    अतारिष्म । तमसः । पारम् । अस्य । प्रति । वाम् । स्तोमः । अश्विनौ । अधायि ।
    आ । इह । यातम् । पथिऽभिः । देवऽयानैः । विद्याम । इषम् । वृजनम् । जीरऽदानुम् ॥

    átāriṣma ǀ támasaḥ ǀ pārám ǀ asyá ǀ práti ǀ vām ǀ stómaḥ ǀ aśvinau ǀ adhāyi ǀ
    ā́ ǀ ihá ǀ yātam ǀ pathí-bhiḥ ǀ deva-yā́naiḥ ǀ vidyā́ma ǀ iṣám ǀ vṛjánam ǀ jīrá-dānum ǁ

    atāriṣma ǀ tamasaḥ ǀ pāram ǀ asya ǀ prati ǀ vām ǀ stomaḥ ǀ aśvinau ǀ adhāyi ǀ
    ā ǀ iha ǀ yātam ǀ pathi-bhiḥ ǀ deva-yānaiḥ ǀ vidyāma ǀ iṣam ǀ vṛjanam ǀ jīra-dānum ǁ

    1.183.6 Aṣṭaka 2.4.29.6Anuvāka 1.24.33

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 1.183 · Aśvins

Interpretations

Ralph T. H. Griffith

Ṛk 1

MAKE ready that which passes thought in swiftness, that hath three wheels and triple seat, ye Mighty, Whereon ye seek the dwelling of the pious, whereon, threefold, ye fly like birds with pinions.

Ṛk 2

Light rolls your easy chariot faring earthward, what time, for food, ye, full of wisdom, mount it. May this song, wondrous fair, attend your glory: ye, as ye travel, wait on Dawn Heaven's Daughter.

Ṛk 3

Ascend your lightly rolling car, approaching the worshipper who turns him to his duties,— Whereon ye come unto the house to quicken man and his offspring, O Nāsatyas, Heroes.

Ṛk 4

Let not the wolf, let not the she-wolf harm you. Forsake me not, nor pass me by or others. Here stands your share, here is your hymn, ye Mighty: yours are these vessels, full of pleasant juices.

Ṛk 5

Gotama, Purumīlha, Atri bringing oblations all invoke you for protection. Like one who goes straight to the point directed, ye Nāsatyas, to mine invocation.