Sūkta 170
- Devatā देवता
- 1, 3: Agastya; 2, 4, 5: Indra
- Ṛṣi ऋषि
- Agastya Maitrāvaruṇi
- Chandas छन्दस्
- Anuṣṭubh, Bṛhatī, Triṣṭubh
Metres by ṛk
1st set of styles svarāḍanuṣṭup (1); anuṣṭup (2); virāḍanuṣṭup (3); nicṛdanuṣṭup (4); bhurikpaṅkti (5)
2nd set of styles anuṣṭubh (2-4); bṛhatī (1); triṣṭubh (5)
-
Ṛk 1
न नू॒नमस्ति॒ नो श्वः कस्तद्वे॑द॒ यदद्भु॑तं ।
अ॒न्यस्य॑ चि॒त्तम॒भि सं॑च॒रेण्य॑मु॒ताधी॑तं॒ वि न॑श्यति ॥न नूनम् अस्ति नो श्वः कस् तद् वेद यद् अद्भुतम् |
अन्यस्य चित्तम् अभि संचरेण्यम् उताधीतं वि नश्यति ||ná nūnámásti nó śváḥ kástádveda yádádbhutam ǀ
anyásya cittámabhí saṃcaréṇyamutā́dhītam ví naśyati ǁna nūnam asti no śvaḥ kas tad veda yad adbhutam |
anyasya cittam abhi saṃcareṇyam utādhītaṃ vi naśyati ||न । नू॒नम् । अस्ति॑ । नो इति॑ । श्वः । कः । तत् । वे॒द॒ । यत् । अद्भु॑तम् ।
अ॒न्यस्य॑ । चि॒त्तम् । अ॒भि । स॒म्ऽच॒रेण्य॑म् । उ॒त । आऽधी॑तम् । वि । न॒श्य॒ति॒ ॥न । नूनम् । अस्ति । नो इति । श्वः । कः । तत् । वेद । यत् । अद्भुतम् ।
अन्यस्य । चित्तम् । अभि । सम्ऽचरेण्यम् । उत । आऽधीतम् । वि । नश्यति ॥ná ǀ nūnám ǀ ásti ǀ nó íti ǀ śváḥ ǀ káḥ ǀ tát ǀ veda ǀ yát ǀ ádbhutam ǀ
anyásya ǀ cittám ǀ abhí ǀ sam-caréṇyam ǀ utá ǀ ā́-dhītam ǀ ví ǀ naśyati ǁna ǀ nūnam ǀ asti ǀ no iti ǀ śvaḥ ǀ kaḥ ǀ tat ǀ veda ǀ yat ǀ adbhutam ǀ
anyasya ǀ cittam ǀ abhi ǀ sam-careṇyam ǀ uta ǀ ā-dhītam ǀ vi ǀ naśyati ǁ1.170.1 Aṣṭaka 2.4.10.1Anuvāka 1.23.60
-
Ṛk 2
किं न॑ इंद्र जिघांससि॒ भ्रात॑रो म॒रुत॒स्तव॑ ।
तेभिः॑ कल्पस्व साधु॒या मा नः॑ स॒मर॑णे वधीः ॥किं न इन्द्र जिघांससि भ्रातरो मरुतस् तव |
तेभिः कल्पस्व साधुया मा नः समरणे वधीः ||kím na indra jighāṃsasi bhrā́taro marútastáva ǀ
tébhiḥ kalpasva sādhuyā́ mā́ naḥ samáraṇe vadhīḥ ǁkiṃ na indra jighāṃsasi bhrātaro marutas tava |
tebhiḥ kalpasva sādhuyā mā naḥ samaraṇe vadhīḥ ||किम् । नः॒ । इ॒न्द्र॒ । जि॒घां॒स॒सि॒ । भ्रात॑रः । म॒रुतः॑ । तव॑ ।
तेभिः॑ । क॒ल्प॒स्व॒ । सा॒धु॒ऽया । मा । नः॒ । स॒म्ऽअर॑णे । व॒धीः॒ ॥किम् । नः । इन्द्र । जिघांससि । भ्रातरः । मरुतः । तव ।
तेभिः । कल्पस्व । साधुऽया । मा । नः । सम्ऽअरणे । वधीः ॥kím ǀ naḥ ǀ indra ǀ jighāṃsasi ǀ bhrā́taraḥ ǀ marútaḥ ǀ táva ǀ
tébhiḥ ǀ kalpasva ǀ sādhu-yā́ ǀ mā́ ǀ naḥ ǀ sam-áraṇe ǀ vadhīḥ ǁkim ǀ naḥ ǀ indra ǀ jighāṃsasi ǀ bhrātaraḥ ǀ marutaḥ ǀ tava ǀ
tebhiḥ ǀ kalpasva ǀ sādhu-yā ǀ mā ǀ naḥ ǀ sam-araṇe ǀ vadhīḥ ǁ1.170.2 Aṣṭaka 2.4.10.2Anuvāka 1.23.61
-
Ṛk 3
किं नो॑ भ्रातरगस्त्य॒ सखा॒ सन्नति॑ मन्यसे ।
वि॒द्मा हि ते॒ यथा॒ मनो॒ऽस्मभ्य॒मिन्न दि॑त्ससि ॥किं नो भ्रातर् अगस्त्य सखा सन्न् अति मन्यसे |
विद्मा हि ते यथा मनो ऽस्मभ्यम् इन् न दित्ससि ||kím no bhrātaragastya sákhā sánnáti manyase ǀ
vidmā́ hí te yáthā máno’smábhyamínná ditsasi ǁkiṃ no bhrātar agastya sakhā sann ati manyase |
vidmā hi te yathā mano 'smabhyam in na ditsasi ||किम् । नः॒ । भ्रा॒तः॒ । अ॒ग॒स्त्य॒ । सखा॑ । सन् । अति॑ । म॒न्य॒से॒ ।
वि॒द्म । हि । ते॒ । यथा॑ । मनः॑ । अ॒स्मभ्य॑म् । इत् । न । दि॒त्स॒सि॒ ॥किम् । नः । भ्रातः । अगस्त्य । सखा । सन् । अति । मन्यसे ।
विद्म । हि । ते । यथा । मनः । अस्मभ्यम् । इत् । न । दित्ससि ॥kím ǀ naḥ ǀ bhrātaḥ ǀ agastya ǀ sákhā ǀ sán ǀ áti ǀ manyase ǀ
vidmá ǀ hí ǀ te ǀ yáthā ǀ mánaḥ ǀ asmábhyam ǀ ít ǀ ná ǀ ditsasi ǁkim ǀ naḥ ǀ bhrātaḥ ǀ agastya ǀ sakhā ǀ san ǀ ati ǀ manyase ǀ
vidma ǀ hi ǀ te ǀ yathā ǀ manaḥ ǀ asmabhyam ǀ it ǀ na ǀ ditsasi ǁ1.170.3 Aṣṭaka 2.4.10.3Anuvāka 1.23.62
-
Ṛk 4
अरं॑ कृण्वंतु॒ वेदिं॒ सम॒ग्निमिं॑धतां पु॒रः ।
तत्रा॒मृत॑स्य॒ चेत॑नं य॒ज्ञं ते॑ तनवावहै ॥अरं कृण्वन्तु वेदिं सम् अग्निम् इन्धताम् पुरः |
तत्रामृतस्य चेतनं यज्ञं ते तनवावहै ||áram kṛṇvantu védim sámagnímindhatām puráḥ ǀ
tátrāmṛ́tasya cétanam yajñám te tanavāvahai ǁaraṃ kṛṇvantu vediṃ sam agnim indhatām puraḥ |
tatrāmṛtasya cetanaṃ yajñaṃ te tanavāvahai ||अर॑म् । कृ॒ण्व॒न्तु॒ । वेदि॑म् । सम् । अ॒ग्निम् । इ॒न्ध॒ता॒म् । पु॒रः ।
तत्र॑ । अ॒मृत॑स्य । चेत॑नम् । य॒ज्ञम् । ते॒ । त॒न॒वा॒व॒है॒ ॥अरम् । कृण्वन्तु । वेदिम् । सम् । अग्निम् । इन्धताम् । पुरः ।
तत्र । अमृतस्य । चेतनम् । यज्ञम् । ते । तनवावहै ॥áram ǀ kṛṇvantu ǀ védim ǀ sám ǀ agním ǀ indhatām ǀ puráḥ ǀ
tátra ǀ amṛ́tasya ǀ cétanam ǀ yajñám ǀ te ǀ tanavāvahai ǁaram ǀ kṛṇvantu ǀ vedim ǀ sam ǀ agnim ǀ indhatām ǀ puraḥ ǀ
tatra ǀ amṛtasya ǀ cetanam ǀ yajñam ǀ te ǀ tanavāvahai ǁ1.170.4 Aṣṭaka 2.4.10.4Anuvāka 1.23.63
-
Ṛk 5
त्वमी॑शिषे वसुपते॒ वसू॑नां॒ त्वं मि॒त्राणां॑ मित्रपते॒ धेष्ठः॑ ।
इंद्र॒ त्वं म॒रुद्भिः॒ सं व॑द॒स्वाध॒ प्राशा॑न ऋतु॒था ह॒वींषि॑ ॥त्वम् ईशिषे वसुपते वसूनां त्वम् मित्राणाम् मित्रपते धेष्ठः |
इन्द्र त्वम् मरुद्भिः सं वदस्वाध प्राशान ऋतुथा हवींषि ||tvámīśiṣe vasupate vásūnām tvám mitrā́ṇām mitrapate dhéṣṭhaḥ ǀ
índra tvám marúdbhiḥ sám vadasvā́dha prā́śāna ṛtuthā́ havī́ṃṣi ǁtvam īśiṣe vasupate vasūnāṃ tvam mitrāṇām mitrapate dheṣṭhaḥ |
indra tvam marudbhiḥ saṃ vadasvādha prāśāna ṛtuthā havīṃṣi ||त्वम् । ई॒शि॒षे॒ । व॒सु॒ऽप॒ते॒ । वसू॑नाम् । त्वम् । मि॒त्राणा॑म् । मि॒त्र॒ऽप॒ते॒ । धेष्ठः॑ ।
इन्द्र॑ । त्वम् । म॒रुत्ऽभिः॑ । सम् । व॒द॒स्व॒ । अध॑ । प्र । अ॒शा॒न॒ । ऋ॒तु॒ऽथा । ह॒वींषि॑ ॥त्वम् । ईशिषे । वसुऽपते । वसूनाम् । त्वम् । मित्राणाम् । मित्रऽपते । धेष्ठः ।
इन्द्र । त्वम् । मरुत्ऽभिः । सम् । वदस्व । अध । प्र । अशान । ऋतुऽथा । हवींषि ॥tvám ǀ īśiṣe ǀ vasu-pate ǀ vásūnām ǀ tvám ǀ mitrā́ṇām ǀ mitra-pate ǀ dhéṣṭhaḥ ǀ
índra ǀ tvám ǀ marút-bhiḥ ǀ sám ǀ vadasva ǀ ádha ǀ prá ǀ aśāna ǀ ṛtu-thā́ ǀ havī́ṃṣi ǁtvam ǀ īśiṣe ǀ vasu-pate ǀ vasūnām ǀ tvam ǀ mitrāṇām ǀ mitra-pate ǀ dheṣṭhaḥ ǀ
indra ǀ tvam ǀ marut-bhiḥ ǀ sam ǀ vadasva ǀ adha ǀ pra ǀ aśāna ǀ ṛtu-thā ǀ havīṃṣi ǁ1.170.5 Aṣṭaka 2.4.10.5Anuvāka 1.23.64
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.