Sūkta 158
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Dīrghatamas Aucathya
- Chandas छन्दस्
- Triṣṭubh, Anuṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (1, 4, 5); triṣṭup (2); bhurikpaṅkti (3); nicrṛdanuṣṭup (6)
2nd set of styles triṣṭubh (1-5); anuṣṭubh (6)
-
Ṛk 1
वसू॑ रु॒द्रा पु॑रु॒मंतू॑ वृ॒धंता॑ दश॒स्यतं॑ नो वृषणाव॒भिष्टौ॑ ।
दस्रा॑ ह॒ यद्रेक्ण॑ औच॒थ्यो वां॒ प्र यत्स॒स्राथे॒ अक॑वाभिरू॒ती ॥वसू रुद्रा पुरुमन्तू वृधन्ता दशस्यतं नो वृषणाव् अभिष्टौ |
दस्रा ह यद् रेक्ण औचथ्यो वाम् प्र यत् सस्राथे अकवाभिर् ऊती ||vásū rudrā́ purumántū vṛdhántā daśasyátam no vṛṣaṇāvabhíṣṭau ǀ
dásrā ha yádrékṇa aucathyó vām prá yátsasrā́the ákavābhirūtī́ ǁvasū rudrā purumantū vṛdhantā daśasyataṃ no vṛṣaṇāv abhiṣṭau |
dasrā ha yad rekṇa aucathyo vām pra yat sasrāthe akavābhir ūtī ||वसू॒ इति॑ । रु॒द्रा । पु॒रु॒मन्तू॒ इति॑ पु॒रु॒ऽमन्तू॑ । वृ॒धन्ता॑ । द॒श॒स्यत॑म् । नः॒ । वृ॒ष॒णौ॒ । अ॒भिष्टौ॑ ।
दस्रा॑ । ह॒ । यत् । रेक्णः॑ । औ॒च॒थ्यः । वा॒म् । प्र । यत् । स॒स्राथे॒ इति॑ । अक॑वाभिः । ऊ॒ती ॥वसू इति । रुद्रा । पुरुमन्तू इति पुरुऽमन्तू । वृधन्ता । दशस्यतम् । नः । वृषणौ । अभिष्टौ ।
दस्रा । ह । यत् । रेक्णः । औचथ्यः । वाम् । प्र । यत् । सस्राथे इति । अकवाभिः । ऊती ॥vásū íti ǀ rudrā́ ǀ purumántū íti puru-mántū ǀ vṛdhántā ǀ daśasyátam ǀ naḥ ǀ vṛṣaṇau ǀ abhíṣṭau ǀ
dásrā ǀ ha ǀ yát ǀ rékṇaḥ ǀ aucathyáḥ ǀ vām ǀ prá ǀ yát ǀ sasrā́the íti ǀ ákavābhiḥ ǀ ūtī́ ǁvasū iti ǀ rudrā ǀ purumantū iti puru-mantū ǀ vṛdhantā ǀ daśasyatam ǀ naḥ ǀ vṛṣaṇau ǀ abhiṣṭau ǀ
dasrā ǀ ha ǀ yat ǀ rekṇaḥ ǀ aucathyaḥ ǀ vām ǀ pra ǀ yat ǀ sasrāthe iti ǀ akavābhiḥ ǀ ūtī ǁ1.158.1 Aṣṭaka 2.3.1.0
-
Ṛk 2
को वां॑ दाशत्सुम॒तये॑ चिद॒स्यै वसू॒ यद्धेथे॒ नम॑सा प॒दे गोः ।
जि॒गृ॒तम॒स्मे रे॒वतीः॒ पुरं॑धीः काम॒प्रेणे॑व॒ मन॑सा॒ चरं॑ता ॥को वां दाशत् सुमतये चिद् अस्यै वसू यद् धेथे नमसा पदे गोः |
जिगृतम् अस्मे रेवतीः पुरन्धीः कामप्रेणेव मनसा चरन्ता ||kó vām dāśatsumatáye cidasyái vásū yáddhéthe námasā padé góḥ ǀ
jigṛtámasmé revátīḥ púraṃdhīḥ kāmapréṇeva mánasā cárantā ǁko vāṃ dāśat sumataye cid asyai vasū yad dhethe namasā pade goḥ |
jigṛtam asme revatīḥ purandhīḥ kāmapreṇeva manasā carantā ||कः । वा॒म् । दा॒श॒त् । सु॒ऽम॒तये॑ । चि॒त् । अ॒स्यै । वसू॒ इति॑ । यत् । धेथे॒ इति॑ । नम॑सा । प॒दे । गोः ।
जि॒गृ॒तम् । अ॒स्मे इति॑ । रे॒वतीः॑ । पुर॑म्ऽधीः । का॒म॒प्रेण॑ऽइव । मन॑सा । चर॑न्ता ॥कः । वाम् । दाशत् । सुऽमतये । चित् । अस्यै । वसू इति । यत् । धेथे इति । नमसा । पदे । गोः ।
जिगृतम् । अस्मे इति । रेवतीः । पुरम्ऽधीः । कामप्रेणऽइव । मनसा । चरन्ता ॥káḥ ǀ vām ǀ dāśat ǀ su-matáye ǀ cit ǀ asyái ǀ vásū íti ǀ yát ǀ dhéthe íti ǀ námasā ǀ padé ǀ góḥ ǀ
jigṛtám ǀ asmé íti ǀ revátīḥ ǀ púram-dhīḥ ǀ kāmapréṇa-iva ǀ mánasā ǀ cárantā ǁkaḥ ǀ vām ǀ dāśat ǀ su-mataye ǀ cit ǀ asyai ǀ vasū iti ǀ yat ǀ dhethe iti ǀ namasā ǀ pade ǀ goḥ ǀ
jigṛtam ǀ asme iti ǀ revatīḥ ǀ puram-dhīḥ ǀ kāmapreṇa-iva ǀ manasā ǀ carantā ǁ1.158.2 Aṣṭaka 2.3.1.0
-
Ṛk 3
यु॒क्तो ह॒ यद्वां॑ तौ॒ग्र्याय॑ पे॒रुर्वि मध्ये॒ अर्ण॑सो॒ धायि॑ प॒ज्रः ।
उप॑ वा॒मवः॑ शर॒णं ग॑मेयं॒ शूरो॒ नाज्म॑ प॒तय॑द्भि॒रेवैः॑ ॥युक्तो ह यद् वां तौग्र्याय पेरुर् वि मध्ये अर्णसो धायि पज्रः |
उप वाम् अवः शरणं गमेयं शूरो नाज्म पतयद्भिर् एवैः ||yuktó ha yádvām taugryā́ya perúrví mádhye árṇaso dhā́yi pajráḥ ǀ
úpa vāmávaḥ śaraṇám gameyam śū́ro nā́jma patáyadbhirévaiḥ ǁyukto ha yad vāṃ taugryāya perur vi madhye arṇaso dhāyi pajraḥ |
upa vām avaḥ śaraṇaṃ gameyaṃ śūro nājma patayadbhir evaiḥ ||यु॒क्तः । ह॒ । यत् । वा॒म् । तौ॒ग्र्याय॑ । पे॒रुः । वि । मध्ये॑ । अर्ण॑सः । धायि॑ । प॒ज्रः ।
उप॑ । वा॒म् । अवः॑ । श॒र॒णम् । ग॒मे॒य॒म् । शूरः॑ । न । अज्म॑ । प॒तय॑त्ऽभिः । एवैः॑ ॥युक्तः । ह । यत् । वाम् । तौग्र्याय । पेरुः । वि । मध्ये । अर्णसः । धायि । पज्रः ।
उप । वाम् । अवः । शरणम् । गमेयम् । शूरः । न । अज्म । पतयत्ऽभिः । एवैः ॥yuktáḥ ǀ ha ǀ yát ǀ vām ǀ taugryā́ya ǀ perúḥ ǀ ví ǀ mádhye ǀ árṇasaḥ ǀ dhā́yi ǀ pajráḥ ǀ
úpa ǀ vām ǀ ávaḥ ǀ śaraṇám ǀ gameyam ǀ śū́raḥ ǀ ná ǀ ájma ǀ patáyat-bhiḥ ǀ évaiḥ ǁyuktaḥ ǀ ha ǀ yat ǀ vām ǀ taugryāya ǀ peruḥ ǀ vi ǀ madhye ǀ arṇasaḥ ǀ dhāyi ǀ pajraḥ ǀ
upa ǀ vām ǀ avaḥ ǀ śaraṇam ǀ gameyam ǀ śūraḥ ǀ na ǀ ajma ǀ patayat-bhiḥ ǀ evaiḥ ǁ1.158.3 Aṣṭaka 2.3.1.0
-
Ṛk 4
उप॑स्तुतिरौच॒थ्यमु॑रुष्ये॒न्मा मामि॒मे प॑त॒त्रिणी॒ वि दु॑ग्धां ।
मा मामेधो॒ दश॑तयश्चि॒तो धा॒क् प्र यद्वां॑ ब॒द्धस्त्मनि॒ खाद॑ति॒ क्षां ॥उपस्तुतिर् औचथ्यम् उरुष्येन् मा माम् इमे पतत्रिणी वि दुग्धाम् |
मा माम् एधो दशतयश् चितो धाक् प्र यद् वाम् बद्धस् त्मनि खादति क्षाम् ||úpastutiraucathyámuruṣyenmā́ mā́mimé patatríṇī ví dugdhām ǀ
mā́ mā́médho dáśatayaścitó dhāk prá yádvām baddhástmáni khā́dati kṣā́m ǁupastutir aucathyam uruṣyen mā mām ime patatriṇī vi dugdhām |
mā mām edho daśatayaś cito dhāk pra yad vām baddhas tmani khādati kṣām ||उप॑ऽस्तुतिः । औ॒च॒थ्यम् । उ॒रु॒ष्ये॒त् । मा । माम् । इ॒मे इति॑ । प॒त॒त्रिणी॒ इति॑ । वि । दु॒ग्धा॒म् ।
मा । माम् । एधः॑ । दश॑ऽतयः । चि॒तः । धा॒क् । प्र । यत् । वा॒म् । ब॒द्धः । त्मनि॑ । खाद॑ति । क्षाम् ॥उपऽस्तुतिः । औचथ्यम् । उरुष्येत् । मा । माम् । इमे इति । पतत्रिणी इति । वि । दुग्धाम् ।
मा । माम् । एधः । दशऽतयः । चितः । धाक् । प्र । यत् । वाम् । बद्धः । त्मनि । खादति । क्षाम् ॥úpa-stutiḥ ǀ aucathyám ǀ uruṣyet ǀ mā́ ǀ mā́m ǀ imé íti ǀ patatríṇī íti ǀ ví ǀ dugdhām ǀ
mā́ ǀ mā́m ǀ édhaḥ ǀ dáśa-tayaḥ ǀ citáḥ ǀ dhāk ǀ prá ǀ yát ǀ vām ǀ baddháḥ ǀ tmáni ǀ khā́dati ǀ kṣā́m ǁupa-stutiḥ ǀ aucathyam ǀ uruṣyet ǀ mā ǀ mām ǀ ime iti ǀ patatriṇī iti ǀ vi ǀ dugdhām ǀ
mā ǀ mām ǀ edhaḥ ǀ daśa-tayaḥ ǀ citaḥ ǀ dhāk ǀ pra ǀ yat ǀ vām ǀ baddhaḥ ǀ tmani ǀ khādati ǀ kṣām ǁ1.158.4 Aṣṭaka 2.3.1.0
-
Ṛk 5
न मा॑ गरन्न॒द्यो॑ मा॒तृत॑मा दा॒सा यदीं॒ सुस॑मुब्धम॒वाधुः॑ ।
शिरो॒ यद॑स्य त्रैत॒नो वि॒तक्ष॑त्स्व॒यं दा॒स उरो॒ अंसा॒वपि॑ ग्ध ॥न मा गरन् नद्यो मातृतमा दासा यद् ईं सुसमुब्धम् अवाधुः |
शिरो यद् अस्य त्रैतनो वितक्षत् स्वयं दास उरो अंसाव् अपि ग्ध ||ná mā garannadyó mātṛ́tamā dāsā́ yádīm súsamubdhamavā́dhuḥ ǀ
śíro yádasya traitanó vitákṣatsvayám dāsá úro áṃsāvápi gdha ǁna mā garan nadyo mātṛtamā dāsā yad īṃ susamubdham avādhuḥ |
śiro yad asya traitano vitakṣat svayaṃ dāsa uro aṃsāv api gdha ||न । मा॒ । ग॒र॒न् । न॒द्यः॑ । मा॒तृऽत॑माः । दा॒साः । यत् । ई॒म् । सुऽस॑मुब्धम् । अ॒व॒ऽअधुः॑ ।
शिरः॑ । यत् । अ॒स्य॒ । त्रै॒त॒नः । वि॒ऽतक्ष॑त् । स्व॒यम् । दा॒सः । उरः॑ । अंसौ॑ । अपि॑ । ग्धेति॑ग्ध ॥न । मा । गरन् । नद्यः । मातृऽतमाः । दासाः । यत् । ईम् । सुऽसमुब्धम् । अवऽअधुः ।
शिरः । यत् । अस्य । त्रैतनः । विऽतक्षत् । स्वयम् । दासः । उरः । अंसौ । अपि । ग्धेतिग्ध ॥ná ǀ mā ǀ garan ǀ nadyáḥ ǀ mātṛ́-tamāḥ ǀ dāsā́ḥ ǀ yát ǀ īm ǀ sú-samubdham ǀ ava-ádhuḥ ǀ
śíraḥ ǀ yát ǀ asya ǀ traitanáḥ ǀ vi-tákṣat ǀ svayám ǀ dāsáḥ ǀ úraḥ ǀ áṃsau ǀ ápi ǀ gdhétigdha ǁna ǀ mā ǀ garan ǀ nadyaḥ ǀ mātṛ-tamāḥ ǀ dāsāḥ ǀ yat ǀ īm ǀ su-samubdham ǀ ava-adhuḥ ǀ
śiraḥ ǀ yat ǀ asya ǀ traitanaḥ ǀ vi-takṣat ǀ svayam ǀ dāsaḥ ǀ uraḥ ǀ aṃsau ǀ api ǀ gdhetigdha ǁ1.158.5 Aṣṭaka 2.3.1.0
-
Ṛk 6
दी॒र्घत॑मा मामते॒यो जु॑जु॒र्वांद॑श॒मे यु॒गे ।
अ॒पामर्थं॑ य॒तीनां॑ ब्र॒ह्मा भ॑वति॒ सार॑थिः ॥दीर्घतमा मामतेयो जुजुर्वान् दशमे युगे |
अपाम् अर्थं यतीनाम् ब्रह्मा भवति सारथिः ||dīrghátamā māmateyó jujurvā́ndaśamé yugé ǀ
apā́mártham yatī́nām brahmā́ bhavati sā́rathiḥ ǁdīrghatamā māmateyo jujurvān daśame yuge |
apām arthaṃ yatīnām brahmā bhavati sārathiḥ ||दी॒र्घऽत॑माः । मा॒म॒ते॒यः । जु॒जु॒र्वान् । द॒श॒मे । यु॒गे ।
अ॒पाम् । अर्थ॑म् । य॒तीना॑म् । ब्र॒ह्मा । भ॒व॒ति॒ । सार॑थिः ॥दीर्घऽतमाः । मामतेयः । जुजुर्वान् । दशमे । युगे ।
अपाम् । अर्थम् । यतीनाम् । ब्रह्मा । भवति । सारथिः ॥dīrghá-tamāḥ ǀ māmateyáḥ ǀ jujurvā́n ǀ daśamé ǀ yugé ǀ
apā́m ǀ ártham ǀ yatī́nām ǀ brahmā́ ǀ bhavati ǀ sā́rathiḥ ǁdīrgha-tamāḥ ǀ māmateyaḥ ǀ jujurvān ǀ daśame ǀ yuge ǀ
apām ǀ artham ǀ yatīnām ǀ brahmā ǀ bhavati ǀ sārathiḥ ǁ1.158.6 Aṣṭaka 2.3.1.0
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.