Ṛgveda · Maṇḍala 1 · Sūkta 158
Ṛk 1.158.4
Saṃhitā
उप॑स्तुतिरौच॒थ्यमु॑रुष्ये॒न्मा मामि॒मे प॑त॒त्रिणी॒ वि दु॑ग्धां ।
मा मामेधो॒ दश॑तयश्चि॒तो धा॒क् प्र यद्वां॑ ब॒द्धस्त्मनि॒ खाद॑ति॒ क्षां ॥
उपस्तुतिर् औचथ्यम् उरुष्येन् मा माम् इमे पतत्रिणी वि दुग्धाम् |
मा माम् एधो दशतयश् चितो धाक् प्र यद् वाम् बद्धस् त्मनि खादति क्षाम् ||
úpastutiraucathyámuruṣyenmā́ mā́mimé patatríṇī ví dugdhām ǀ
mā́ mā́médho dáśatayaścitó dhāk prá yádvām baddhástmáni khā́dati kṣā́m ǁ
upastutir aucathyam uruṣyen mā mām ime patatriṇī vi dugdhām |
mā mām edho daśatayaś cito dhāk pra yad vām baddhas tmani khādati kṣām ||
Padapāṭha
उप॑ऽस्तुतिः । औ॒च॒थ्यम् । उ॒रु॒ष्ये॒त् । मा । माम् । इ॒मे इति॑ । प॒त॒त्रिणी॒ इति॑ । वि । दु॒ग्धा॒म् ।
मा । माम् । एधः॑ । दश॑ऽतयः । चि॒तः । धा॒क् । प्र । यत् । वा॒म् । ब॒द्धः । त्मनि॑ । खाद॑ति । क्षाम् ॥
उपऽस्तुतिः । औचथ्यम् । उरुष्येत् । मा । माम् । इमे इति । पतत्रिणी इति । वि । दुग्धाम् ।
मा । माम् । एधः । दशऽतयः । चितः । धाक् । प्र । यत् । वाम् । बद्धः । त्मनि । खादति । क्षाम् ॥
úpa-stutiḥ ǀ aucathyám ǀ uruṣyet ǀ mā́ ǀ mā́m ǀ imé íti ǀ patatríṇī íti ǀ ví ǀ dugdhām ǀ
mā́ ǀ mā́m ǀ édhaḥ ǀ dáśa-tayaḥ ǀ citáḥ ǀ dhāk ǀ prá ǀ yát ǀ vām ǀ baddháḥ ǀ tmáni ǀ khā́dati ǀ kṣā́m ǁ
upa-stutiḥ ǀ aucathyam ǀ uruṣyet ǀ mā ǀ mām ǀ ime iti ǀ patatriṇī iti ǀ vi ǀ dugdhām ǀ
mā ǀ mām ǀ edhaḥ ǀ daśa-tayaḥ ǀ citaḥ ǀ dhāk ǀ pra ǀ yat ǀ vām ǀ baddhaḥ ǀ tmani ǀ khādati ǀ kṣām ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.158.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.3.01.00
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Dīrghatamas Aucathya
- Chandas छन्दस्
- Triṣṭubh, Anuṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.