Ṛgveda · Maṇḍala 1 · Sūkta 158
Ṛk 1.158.3
Saṃhitā
यु॒क्तो ह॒ यद्वां॑ तौ॒ग्र्याय॑ पे॒रुर्वि मध्ये॒ अर्ण॑सो॒ धायि॑ प॒ज्रः ।
उप॑ वा॒मवः॑ शर॒णं ग॑मेयं॒ शूरो॒ नाज्म॑ प॒तय॑द्भि॒रेवैः॑ ॥
युक्तो ह यद् वां तौग्र्याय पेरुर् वि मध्ये अर्णसो धायि पज्रः |
उप वाम् अवः शरणं गमेयं शूरो नाज्म पतयद्भिर् एवैः ||
yuktó ha yádvām taugryā́ya perúrví mádhye árṇaso dhā́yi pajráḥ ǀ
úpa vāmávaḥ śaraṇám gameyam śū́ro nā́jma patáyadbhirévaiḥ ǁ
yukto ha yad vāṃ taugryāya perur vi madhye arṇaso dhāyi pajraḥ |
upa vām avaḥ śaraṇaṃ gameyaṃ śūro nājma patayadbhir evaiḥ ||
Padapāṭha
यु॒क्तः । ह॒ । यत् । वा॒म् । तौ॒ग्र्याय॑ । पे॒रुः । वि । मध्ये॑ । अर्ण॑सः । धायि॑ । प॒ज्रः ।
उप॑ । वा॒म् । अवः॑ । श॒र॒णम् । ग॒मे॒य॒म् । शूरः॑ । न । अज्म॑ । प॒तय॑त्ऽभिः । एवैः॑ ॥
युक्तः । ह । यत् । वाम् । तौग्र्याय । पेरुः । वि । मध्ये । अर्णसः । धायि । पज्रः ।
उप । वाम् । अवः । शरणम् । गमेयम् । शूरः । न । अज्म । पतयत्ऽभिः । एवैः ॥
yuktáḥ ǀ ha ǀ yát ǀ vām ǀ taugryā́ya ǀ perúḥ ǀ ví ǀ mádhye ǀ árṇasaḥ ǀ dhā́yi ǀ pajráḥ ǀ
úpa ǀ vām ǀ ávaḥ ǀ śaraṇám ǀ gameyam ǀ śū́raḥ ǀ ná ǀ ájma ǀ patáyat-bhiḥ ǀ évaiḥ ǁ
yuktaḥ ǀ ha ǀ yat ǀ vām ǀ taugryāya ǀ peruḥ ǀ vi ǀ madhye ǀ arṇasaḥ ǀ dhāyi ǀ pajraḥ ǀ
upa ǀ vām ǀ avaḥ ǀ śaraṇam ǀ gameyam ǀ śūraḥ ǀ na ǀ ajma ǀ patayat-bhiḥ ǀ evaiḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.158.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.3.01.00
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Dīrghatamas Aucathya
- Chandas छन्दस्
- Triṣṭubh, Anuṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.