Ṛgveda · Maṇḍala 1

Sūkta 145

Agni · Dīrghatamas Aucathya · 5 ṛks

Link
Devatā देवता
Agni
Ṛṣi ऋषि
Dīrghatamas Aucathya
Chandas छन्दस्
Jagatī, Triṣṭubh
Metres by ṛk

1st set of styles nicṛjjagatī (2, 5); bhuriktriṣṭup (3, 4); virāḍjagatī (1)

2nd set of styles jagatī (1-4); triṣṭubh (5)

  1. Ṛk 1

    तं पृ॑च्छता॒ स ज॑गामा॒ स वे॑द॒ स चि॑कि॒त्वाँ ई॑यते॒ सा न्वी॑यते ।
    तस्मि॑न्त्संति प्र॒शिष॒स्तस्मि॑न्नि॒ष्टयः॒ स वाज॑स्य॒ शव॑सः शु॒ष्मिण॒स्पतिः॑ ॥

    तम् पृच्छता स जगामा स वेद स चिकित्वां ईयते सा न्व् ईयते |
    तस्मिन् सन्ति प्रशिषस् तस्मिन्न् इष्टयः स वाजस्य शवसः शुष्मिणस् पतिः ||

    tám pṛcchatā sá jagāmā sá veda sá cikitvā́m̐ īyate sā́ nvī́yate ǀ
    tásmintsanti praśíṣastásminniṣṭáyaḥ sá vā́jasya śávasaḥ śuṣmíṇaspátiḥ ǁ

    tam pṛcchatā sa jagāmā sa veda sa cikitvāṃ īyate sā nv īyate |
    tasmin santi praśiṣas tasminn iṣṭayaḥ sa vājasya śavasaḥ śuṣmiṇas patiḥ ||

    तम् । पृ॒च्छ॒त॒ । सः । ज॒गा॒म॒ । सः । वे॒द॒ । सः । चि॒कि॒त्वान् । ई॒य॒ते॒ । सः । नु । ई॒य॒ते॒ ।
    तस्मि॑न् । स॒न्ति॒ । प्र॒ऽशिषः॑ । तस्मि॑न् । इ॒ष्टयः॑ । सः । वाज॑स्य । शव॑सः । शु॒ष्मिणः॑ । पतिः॑ ॥

    तम् । पृच्छत । सः । जगाम । सः । वेद । सः । चिकित्वान् । ईयते । सः । नु । ईयते ।
    तस्मिन् । सन्ति । प्रऽशिषः । तस्मिन् । इष्टयः । सः । वाजस्य । शवसः । शुष्मिणः । पतिः ॥

    tám ǀ pṛcchata ǀ sáḥ ǀ jagāma ǀ sáḥ ǀ veda ǀ sáḥ ǀ cikitvā́n ǀ īyate ǀ sáḥ ǀ nú ǀ īyate ǀ
    tásmin ǀ santi ǀ pra-śíṣaḥ ǀ tásmin ǀ iṣṭáyaḥ ǀ sáḥ ǀ vā́jasya ǀ śávasaḥ ǀ śuṣmíṇaḥ ǀ pátiḥ ǁ

    tam ǀ pṛcchata ǀ saḥ ǀ jagāma ǀ saḥ ǀ veda ǀ saḥ ǀ cikitvān ǀ īyate ǀ saḥ ǀ nu ǀ īyate ǀ
    tasmin ǀ santi ǀ pra-śiṣaḥ ǀ tasmin ǀ iṣṭayaḥ ǀ saḥ ǀ vājasya ǀ śavasaḥ ǀ śuṣmiṇaḥ ǀ patiḥ ǁ

    1.145.1 Aṣṭaka 2.2.14.1Anuvāka 1.21.55

  2. Ṛk 2

    तमित्पृ॑च्छंति॒ न सि॒मो वि पृ॑च्छति॒ स्वेने॑व॒ धीरो॒ मन॑सा॒ यदग्र॑भीत् ।
    न मृ॑ष्यते प्रथ॒मं नाप॑रं॒ वचो॒ऽस्य क्रत्वा॑ सचते॒ अप्र॑दृपितः ॥

    तम् इत् पृच्छन्ति न सिमो वि पृच्छति स्वेनेव धीरो मनसा यद् अग्रभीत् |
    न मृष्यते प्रथमं नापरं वचो ऽस्य क्रत्वा सचते अप्रदृपितः ||

    támítpṛcchanti ná simó ví pṛcchati svéneva dhī́ro mánasā yádágrabhīt ǀ
    ná mṛṣyate prathamám nā́param váco’syá krátvā sacate ápradṛpitaḥ ǁ

    tam it pṛcchanti na simo vi pṛcchati sveneva dhīro manasā yad agrabhīt |
    na mṛṣyate prathamaṃ nāparaṃ vaco 'sya kratvā sacate apradṛpitaḥ ||

    तम् । इत् । पृ॒च्छ॒न्ति॒ । न । सि॒मः । वि । पृ॒च्छ॒ति॒ । स्वेन॑ऽव । धीरः॑ । मन॑सा । यत् । अग्र॑भीत् ।
    न । मृ॒ष्य॒ते॒ । प्र॒थ॒मम् । न । अप॑रम् । वचः॑ । अ॒स्य । क्रत्वा॑ । स॒च॒ते॒ । अप्र॑ऽदृपितः ॥

    तम् । इत् । पृच्छन्ति । न । सिमः । वि । पृच्छति । स्वेनऽव । धीरः । मनसा । यत् । अग्रभीत् ।
    न । मृष्यते । प्रथमम् । न । अपरम् । वचः । अस्य । क्रत्वा । सचते । अप्रऽदृपितः ॥

    tám ǀ ít ǀ pṛcchanti ǀ ná ǀ simáḥ ǀ ví ǀ pṛcchati ǀ svéna-va ǀ dhī́raḥ ǀ mánasā ǀ yát ǀ ágrabhīt ǀ
    ná ǀ mṛṣyate ǀ prathamám ǀ ná ǀ áparam ǀ vácaḥ ǀ asyá ǀ krátvā ǀ sacate ǀ ápra-dṛpitaḥ ǁ

    tam ǀ it ǀ pṛcchanti ǀ na ǀ simaḥ ǀ vi ǀ pṛcchati ǀ svena-va ǀ dhīraḥ ǀ manasā ǀ yat ǀ agrabhīt ǀ
    na ǀ mṛṣyate ǀ prathamam ǀ na ǀ aparam ǀ vacaḥ ǀ asya ǀ kratvā ǀ sacate ǀ apra-dṛpitaḥ ǁ

    1.145.2 Aṣṭaka 2.2.14.2Anuvāka 1.21.56

  3. Ṛk 3

    तमिद्ग॑च्छंति जु॒ह्व१॒॑स्तमर्व॑ती॒र्विश्वा॒न्येकः॑ शृणव॒द्वचां॑सि मे ।
    पु॒रु॒प्रै॒षस्ततु॑रिर्यज्ञ॒साध॒नोऽच्छि॑द्रोतिः॒ शिशु॒राद॑त्त॒ सं रभः॑ ॥

    तम् इद् गच्छन्ति जुह्वस् तम् अर्वतीर् विश्वान्य् एकः शृणवद् वचांसि मे |
    पुरुप्रैषस् ततुरिर् यज्ञसाधनो ऽच्छिद्रोतिः शिशुर् आदत्त सं रभः ||

    támídgacchanti juhvástámárvatīrvíśvānyékaḥ śṛṇavadvácāṃsi me ǀ
    purupraiṣástáturiryajñasā́dhanó’cchidrotiḥ śíśurā́datta sám rábhaḥ ǁ

    tam id gacchanti juhvas tam arvatīr viśvāny ekaḥ śṛṇavad vacāṃsi me |
    purupraiṣas taturir yajñasādhano 'cchidrotiḥ śiśur ādatta saṃ rabhaḥ ||

    तम् । इत् । ग॒च्छ॒न्ति॒ । जु॒ह्वः॑ । तम् । अर्व॑तीः । विश्वा॑नि । एकः॑ । शृ॒ण॒व॒त् । वचां॑सि । मे॒ ।
    पु॒रु॒ऽप्रै॒षः । ततु॑रिः । य॒ज्ञ॒ऽसाध॑नः । अच्छि॑द्रऽऊतिः । शिशुः॑ । आ । अ॒द॒त्त॒ । सम् । रभः॑ ॥

    तम् । इत् । गच्छन्ति । जुह्वः । तम् । अर्वतीः । विश्वानि । एकः । शृणवत् । वचांसि । मे ।
    पुरुऽप्रैषः । ततुरिः । यज्ञऽसाधनः । अच्छिद्रऽऊतिः । शिशुः । आ । अदत्त । सम् । रभः ॥

    tám ǀ ít ǀ gacchanti ǀ juhváḥ ǀ tám ǀ árvatīḥ ǀ víśvāni ǀ ékaḥ ǀ śṛṇavat ǀ vácāṃsi ǀ me ǀ
    puru-praiṣáḥ ǀ táturiḥ ǀ yajña-sā́dhanaḥ ǀ ácchidra-ūtiḥ ǀ śíśuḥ ǀ ā́ ǀ adatta ǀ sám ǀ rábhaḥ ǁ

    tam ǀ it ǀ gacchanti ǀ juhvaḥ ǀ tam ǀ arvatīḥ ǀ viśvāni ǀ ekaḥ ǀ śṛṇavat ǀ vacāṃsi ǀ me ǀ
    puru-praiṣaḥ ǀ taturiḥ ǀ yajña-sādhanaḥ ǀ acchidra-ūtiḥ ǀ śiśuḥ ǀ ā ǀ adatta ǀ sam ǀ rabhaḥ ǁ

    1.145.3 Aṣṭaka 2.2.14.3Anuvāka 1.21.57

  4. Ṛk 4

    उ॒प॒स्थायं॑ चरति॒ यत्स॒मार॑त स॒द्यो जा॒तस्त॑त्सार॒ युज्ये॑भिः ।
    अ॒भि श्वां॒तं मृ॑शते नां॒द्ये॑ मु॒दे यदीं॒ गच्छं॑त्युश॒तीर॑पिष्ठि॒तं ॥

    उपस्थायं चरति यत् समारत सद्यो जातस् तत्सार युज्येभिः |
    अभि श्वान्तम् मृशते नान्द्ये मुदे यद् ईं गच्छन्त्य् उशतीर् अपिष्ठितम् ||

    upasthā́yam carati yátsamā́rata sadyó jātástatsāra yújyebhiḥ ǀ
    abhí śvāntám mṛśate nāndyé mudé yádīm gácchantyuśatī́rapiṣṭhitám ǁ

    upasthāyaṃ carati yat samārata sadyo jātas tatsāra yujyebhiḥ |
    abhi śvāntam mṛśate nāndye mude yad īṃ gacchanty uśatīr apiṣṭhitam ||

    उ॒प॒ऽस्थाय॑म् । च॒र॒ति॒ । यत् । स॒म्ऽआर॑त । स॒द्यः । जा॒तः । त॒त्सा॒र॒ । युज्ये॑भिः ।
    अ॒भि । श्वा॒न्तम् । मृ॒श॒ते॒ । ना॒न्द्ये॑ । मु॒दे । यत् । ई॒म् । गच्छ॑न्ति । उ॒श॒तीः । अ॒पि॒ऽस्थि॒तम् ॥

    उपऽस्थायम् । चरति । यत् । सम्ऽआरत । सद्यः । जातः । तत्सार । युज्येभिः ।
    अभि । श्वान्तम् । मृशते । नान्द्ये । मुदे । यत् । ईम् । गच्छन्ति । उशतीः । अपिऽस्थितम् ॥

    upa-sthā́yam ǀ carati ǀ yát ǀ sam-ā́rata ǀ sadyáḥ ǀ jātáḥ ǀ tatsāra ǀ yújyebhiḥ ǀ
    abhí ǀ śvāntám ǀ mṛśate ǀ nāndyé ǀ mudé ǀ yát ǀ īm ǀ gácchanti ǀ uśatī́ḥ ǀ api-sthitám ǁ

    upa-sthāyam ǀ carati ǀ yat ǀ sam-ārata ǀ sadyaḥ ǀ jātaḥ ǀ tatsāra ǀ yujyebhiḥ ǀ
    abhi ǀ śvāntam ǀ mṛśate ǀ nāndye ǀ mude ǀ yat ǀ īm ǀ gacchanti ǀ uśatīḥ ǀ api-sthitam ǁ

    1.145.4 Aṣṭaka 2.2.14.4Anuvāka 1.21.58

  5. Ṛk 5

    स ईं॑ मृ॒गो अप्यो॑ वन॒र्गुरुप॑ त्व॒च्यु॑प॒मस्यां॒ नि धा॑यि ।
    व्य॑ब्रवीद्व॒युना॒ मर्त्ये॑भ्यो॒ऽग्निर्वि॒द्वाँ ऋ॑त॒चिद्धि स॒त्यः ॥

    स ईम् मृगो अप्यो वनर्गुर् उप त्वच्य् उपमस्यां नि धायि |
    व्य् अब्रवीद् वयुना मर्त्येभ्यो ऽग्निर् विद्वां ऋतचिद् धि सत्यः ||

    sá īm mṛgó ápyo vanargúrúpa tvacyúpamásyām ní dhāyi ǀ
    vyábravīdvayúnā mártyebhyo’gnírvidvā́m̐ ṛtacíddhí satyáḥ ǁ

    sa īm mṛgo apyo vanargur upa tvacy upamasyāṃ ni dhāyi |
    vy abravīd vayunā martyebhyo 'gnir vidvāṃ ṛtacid dhi satyaḥ ||

    सः । ई॒म् । मृ॒गः । अप्यः॑ । व॒न॒र्गुः । उप॑ । त्व॒चि । उ॒प॒ऽमस्या॒म् । नि । धा॒यि॒ ।
    वि । अ॒ब्र॒वी॒त् । व॒युना॑ । मर्त्ये॑भ्यः । अ॒ग्निः । वि॒द्वान् । ऋ॒त॒ऽचित् । हि । स॒त्यः ॥

    सः । ईम् । मृगः । अप्यः । वनर्गुः । उप । त्वचि । उपऽमस्याम् । नि । धायि ।
    वि । अब्रवीत् । वयुना । मर्त्येभ्यः । अग्निः । विद्वान् । ऋतऽचित् । हि । सत्यः ॥

    sáḥ ǀ īm ǀ mṛgáḥ ǀ ápyaḥ ǀ vanargúḥ ǀ úpa ǀ tvací ǀ upa-másyām ǀ ní ǀ dhāyi ǀ
    ví ǀ abravīt ǀ vayúnā ǀ mártyebhyaḥ ǀ agníḥ ǀ vidvā́n ǀ ṛta-cít ǀ hí ǀ satyáḥ ǁ

    saḥ ǀ īm ǀ mṛgaḥ ǀ apyaḥ ǀ vanarguḥ ǀ upa ǀ tvaci ǀ upa-masyām ǀ ni ǀ dhāyi ǀ
    vi ǀ abravīt ǀ vayunā ǀ martyebhyaḥ ǀ agniḥ ǀ vidvān ǀ ṛta-cit ǀ hi ǀ satyaḥ ǁ

    1.145.5 Aṣṭaka 2.2.14.5Anuvāka 1.21.59

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 1.145 · Agni

Interpretations

Ralph T. H. Griffith

Ṛk 1

Ask ye of him for he is come, he knoweth it; he, full of wisdom, is implored, is now implored. With him are admonitions and with him commands: he is the Lord of Strength, the Lord of Power and Might.

Ṛk 2

They ask of him: not all learn by their questioning what he, the Sage, hath grasped, as ’twere, with his own mind. Forgetting not the former nor the later word, he goeth on, not careless, in his mental power.

Ṛk 3

To him these ladles go, to him these racing mares: he only will give ear to all the words I speak. All-speeding, victor, perfecter of sacrifice, the Babe with flawless help hath mustered vigorous might.

Ṛk 4

Whate’er he meets he grasps and then runs farther on, and straightway, newly born, creeps forward with his kin. He stirs the wearied man to pleasure and great joy what time the longing gifts approach him as he comes.