Sūkta 22
- Devatā देवता
- 1-4: Aśvins; 5-8: Savitṛ; 9, 10: Agni; 11: Devās; 12: Agnāyī, Indrāṇī, Varuṇānī; 13, 14: Divaḥ, Pṛthivī; 15: Pṛthivī; 16: Viṣṇu Or Devās; 17-21: Viṣṇu
- Ṛṣi ऋषि
- Medhātithi Kāṇva
- Chandas छन्दस्
- Gāyatrī
Metres by ṛk
1st set of styles gāyatrī (4, 5, 7-11, 13, 14, 16, 20, 21); pipīlikāmadhyānicṛdgāyatrī (1-3, 12, 17, 18); nicṛdgāyatrī (6, 19); virāḍgāyatrī (15)
2nd set of styles gāyatrī
-
Ṛk 1
प्रा॒त॒र्युजा॒ वि बो॑धया॒श्विना॒वेह ग॑च्छतां ।
अ॒स्य सोम॑स्य पी॒तये॑ ॥प्रातर्युजा वि बोधयाश्विनाव् एह गच्छताम् |
अस्य सोमस्य पीतये ||prātaryújā ví bodhayāśvínāvéhá gacchatām ǀ
asyá sómasya pītáye ǁprātaryujā vi bodhayāśvināv eha gacchatām |
asya somasya pītaye ||प्रा॒तः॒ऽयुजा॑ । वि । बो॒ध॒य॒ । अ॒श्विनौ॑ । आ । इ॒ह । ग॒च्छ॒ता॒म् ।
अ॒स्य । सोम॑स्य । पी॒तये॑ ॥प्रातःऽयुजा । वि । बोधय । अश्विनौ । आ । इह । गच्छताम् ।
अस्य । सोमस्य । पीतये ॥prātaḥ-yújā ǀ ví ǀ bodhaya ǀ aśvínau ǀ ā́ ǀ ihá ǀ gacchatām ǀ
asyá ǀ sómasya ǀ pītáye ǁprātaḥ-yujā ǀ vi ǀ bodhaya ǀ aśvinau ǀ ā ǀ iha ǀ gacchatām ǀ
asya ǀ somasya ǀ pītaye ǁ1.22.1 Aṣṭaka 1.2.4.1Anuvāka 1.5.33
-
Ṛk 2
या सु॒रथा॑ र॒थीत॑मो॒भा दे॒वा दि॑वि॒स्पृशा॑ ।
अ॒श्विना॒ ता ह॑वामहे ॥या सुरथा रथीतमोभा देवा दिविस्पृशा |
अश्विना ता हवामहे ||yā́ suráthā rathī́tamobhā́ devā́ divispṛ́śā ǀ
aśvínā tā́ havāmahe ǁyā surathā rathītamobhā devā divispṛśā |
aśvinā tā havāmahe ||या । सु॒ऽरथा॑ । र॒थिऽत॑मा । उ॒भा । दे॒वा । दि॒वि॒ऽस्पृशा॑ ।
अ॒श्विना॑ । ता । ह॒वा॒म॒हे॒ ॥या । सुऽरथा । रथिऽतमा । उभा । देवा । दिविऽस्पृशा ।
अश्विना । ता । हवामहे ॥yā́ ǀ su-ráthā ǀ rathí-tamā ǀ ubhā́ ǀ devā́ ǀ divi-spṛ́śā ǀ
aśvínā ǀ tā́ ǀ havāmahe ǁyā ǀ su-rathā ǀ rathi-tamā ǀ ubhā ǀ devā ǀ divi-spṛśā ǀ
aśvinā ǀ tā ǀ havāmahe ǁ1.22.2 Aṣṭaka 1.2.4.2Anuvāka 1.5.34
-
Ṛk 3
या वां॒ कशा॒ मधु॑म॒त्यश्वि॑ना सू॒नृता॑वती ।
तया॑ य॒ज्ञं मि॑मिक्षतं ॥या वां कशा मधुमत्य् अश्विना सूनृतावती |
तया यज्ञम् मिमिक्षतम् ||yā́ vām káśā mádhumatyáśvinā sūnṛ́tāvatī ǀ
táyā yajñám mimikṣatam ǁyā vāṃ kaśā madhumaty aśvinā sūnṛtāvatī |
tayā yajñam mimikṣatam ||या । वा॒म् । कशा॑ । मधु॑ऽमती । अश्वि॑ना । सू॒नृता॑ऽवती ।
तया॑ । य॒ज्ञम् । मि॒मि॒क्ष॒त॒म् ॥या । वाम् । कशा । मधुऽमती । अश्विना । सूनृताऽवती ।
तया । यज्ञम् । मिमिक्षतम् ॥yā́ ǀ vām ǀ káśā ǀ mádhu-matī ǀ áśvinā ǀ sūnṛ́tā-vatī ǀ
táyā ǀ yajñám ǀ mimikṣatam ǁyā ǀ vām ǀ kaśā ǀ madhu-matī ǀ aśvinā ǀ sūnṛtā-vatī ǀ
tayā ǀ yajñam ǀ mimikṣatam ǁ1.22.3 Aṣṭaka 1.2.4.3Anuvāka 1.5.35
-
Ṛk 4
न॒हि वा॒मस्ति॑ दूर॒के यत्रा॒ रथे॑न॒ गच्छ॑थः ।
अश्वि॑ना सो॒मिनो॑ गृ॒हं ॥नहि वाम् अस्ति दूरके यत्रा रथेन गच्छथः |
अश्विना सोमिनो गृहम् ||nahí vāmásti dūraké yátrā ráthena gácchathaḥ ǀ
áśvinā somíno gṛhám ǁnahi vām asti dūrake yatrā rathena gacchathaḥ |
aśvinā somino gṛham ||न॒हि । वा॒म् । अस्ति॑ । दू॒र॒के । यत्र॑ । रथे॑न । गच्छ॑थः ।
अश्वि॑ना । सो॒मिनः॑ । गृ॒हम् ॥नहि । वाम् । अस्ति । दूरके । यत्र । रथेन । गच्छथः ।
अश्विना । सोमिनः । गृहम् ॥nahí ǀ vām ǀ ásti ǀ dūraké ǀ yátra ǀ ráthena ǀ gácchathaḥ ǀ
áśvinā ǀ somínaḥ ǀ gṛhám ǁnahi ǀ vām ǀ asti ǀ dūrake ǀ yatra ǀ rathena ǀ gacchathaḥ ǀ
aśvinā ǀ sominaḥ ǀ gṛham ǁ1.22.4 Aṣṭaka 1.2.4.4Anuvāka 1.5.36
-
Ṛk 5
हिर॑ण्यपाणिमू॒तये॑ सवि॒तार॒मुप॑ ह्वये ।
स चेत्ता॑ दे॒वता॑ प॒दं ॥हिरण्यपाणिम् ऊतये सवितारम् उप ह्वये |
स चेत्ता देवता पदम् ||híraṇyapāṇimūtáye savitā́ramúpa hvaye ǀ
sá céttā devátā padám ǁhiraṇyapāṇim ūtaye savitāram upa hvaye |
sa cettā devatā padam ||हिर॑ण्यऽपाणिम् । ऊ॒तये॑ । स॒वि॒तार॑म् । उप॑ । ह्व॒ये॒ ।
सः । चेत्ता॑ । दे॒वता॑ । प॒दम् ॥हिरण्यऽपाणिम् । ऊतये । सवितारम् । उप । ह्वये ।
सः । चेत्ता । देवता । पदम् ॥híraṇya-pāṇim ǀ ūtáye ǀ savitā́ram ǀ úpa ǀ hvaye ǀ
sáḥ ǀ céttā ǀ devátā ǀ padám ǁhiraṇya-pāṇim ǀ ūtaye ǀ savitāram ǀ upa ǀ hvaye ǀ
saḥ ǀ cettā ǀ devatā ǀ padam ǁ1.22.5 Aṣṭaka 1.2.4.5Anuvāka 1.5.37
-
Ṛk 6
अ॒पां नपा॑त॒मव॑से सवि॒तार॒मुप॑ स्तुहि ।
तस्य॑ व्र॒तान्यु॑श्मसि ॥अपां नपातम् अवसे सवितारम् उप स्तुहि |
तस्य व्रतान्य् उश्मसि ||apā́m nápātamávase savitā́ramúpa stuhi ǀ
tásya vratā́nyuśmasi ǁapāṃ napātam avase savitāram upa stuhi |
tasya vratāny uśmasi ||अ॒पाम् । नपा॑तम् । अव॑से । स॒वि॒तार॑म् । उप॑ । स्तु॒हि॒ ।
तस्य॑ । व्र॒तानि॑ । उ॒श्म॒सि॒ ॥अपाम् । नपातम् । अवसे । सवितारम् । उप । स्तुहि ।
तस्य । व्रतानि । उश्मसि ॥apā́m ǀ nápātam ǀ ávase ǀ savitā́ram ǀ úpa ǀ stuhi ǀ
tásya ǀ vratā́ni ǀ uśmasi ǁapām ǀ napātam ǀ avase ǀ savitāram ǀ upa ǀ stuhi ǀ
tasya ǀ vratāni ǀ uśmasi ǁ1.22.6 Aṣṭaka 1.2.5.1Anuvāka 1.5.38
-
Ṛk 7
वि॒भ॒क्तारं॑ हवामहे॒ वसो॑श्चि॒त्रस्य॒ राध॑सः ।
स॒वि॒तारं॑ नृ॒चक्ष॑सं ॥विभक्तारं हवामहे वसोश् चित्रस्य राधसः |
सवितारं नृचक्षसम् ||vibhaktā́ram havāmahe vásościtrásya rā́dhasaḥ ǀ
savitā́ram nṛcákṣasam ǁvibhaktāraṃ havāmahe vasoś citrasya rādhasaḥ |
savitāraṃ nṛcakṣasam ||वि॒ऽभ॒क्तार॑म् । ह॒वा॒म॒हे॒ । वसोः॑ । चि॒त्रस्य॑ । राध॑सः ।
स॒वि॒तार॑म् । नृ॒ऽचक्ष॑सम् ॥विऽभक्तारम् । हवामहे । वसोः । चित्रस्य । राधसः ।
सवितारम् । नृऽचक्षसम् ॥vi-bhaktā́ram ǀ havāmahe ǀ vásoḥ ǀ citrásya ǀ rā́dhasaḥ ǀ
savitā́ram ǀ nṛ-cákṣasam ǁvi-bhaktāram ǀ havāmahe ǀ vasoḥ ǀ citrasya ǀ rādhasaḥ ǀ
savitāram ǀ nṛ-cakṣasam ǁ1.22.7 Aṣṭaka 1.2.5.2Anuvāka 1.5.39
-
Ṛk 8
सखा॑य॒ आ नि षी॑दत सवि॒ता स्तोम्यो॒ नु नः॑ ।
दाता॒ राधां॑सि शुंभति ॥सखाय आ नि षीदत सविता स्तोम्यो नु नः |
दाता राधांसि शुम्भति ||sákhāya ā́ ní ṣīdata savitā́ stómyo nú naḥ ǀ
dā́tā rā́dhāṃsi śumbhati ǁsakhāya ā ni ṣīdata savitā stomyo nu naḥ |
dātā rādhāṃsi śumbhati ||सखा॑यः । आ । नि । सी॒द॒त॒ । स॒वि॒ता । स्तोम्यः॑ । नु । नः॒ ।
दाता॑ । राधां॑सि । शु॒म्भ॒ति॒ ॥सखायः । आ । नि । सीदत । सविता । स्तोम्यः । नु । नः ।
दाता । राधांसि । शुम्भति ॥sákhāyaḥ ǀ ā́ ǀ ní ǀ sīdata ǀ savitā́ ǀ stómyaḥ ǀ nú ǀ naḥ ǀ
dā́tā ǀ rā́dhāṃsi ǀ śumbhati ǁsakhāyaḥ ǀ ā ǀ ni ǀ sīdata ǀ savitā ǀ stomyaḥ ǀ nu ǀ naḥ ǀ
dātā ǀ rādhāṃsi ǀ śumbhati ǁ1.22.8 Aṣṭaka 1.2.5.3Anuvāka 1.5.40
-
Ṛk 9
अग्ने॒ पत्नी॑रि॒हा व॑ह दे॒वाना॑मुश॒तीरुप॑ ।
त्वष्टा॑रं॒ सोम॑पीतये ॥अग्ने पत्नीर् इहा वह देवानाम् उशतीर् उप |
त्वष्टारं सोमपीतये ||ágne pátnīrihā́ vaha devā́nāmuśatī́rúpa ǀ
tváṣṭāram sómapītaye ǁagne patnīr ihā vaha devānām uśatīr upa |
tvaṣṭāraṃ somapītaye ||अग्ने॑ । पत्नीः॑ । इ॒ह । आ । व॒ह॒ । दे॒वाना॑म् । उ॒श॒तीः । उप॑ ।
त्वष्टा॑रम् । सोम॑ऽपीतये ॥अग्ने । पत्नीः । इह । आ । वह । देवानाम् । उशतीः । उप ।
त्वष्टारम् । सोमऽपीतये ॥ágne ǀ pátnīḥ ǀ ihá ǀ ā́ ǀ vaha ǀ devā́nām ǀ uśatī́ḥ ǀ úpa ǀ
tváṣṭāram ǀ sóma-pītaye ǁagne ǀ patnīḥ ǀ iha ǀ ā ǀ vaha ǀ devānām ǀ uśatīḥ ǀ upa ǀ
tvaṣṭāram ǀ soma-pītaye ǁ1.22.9 Aṣṭaka 1.2.5.4Anuvāka 1.5.41
-
Ṛk 10
आ ग्ना अ॑ग्न इ॒हाव॑से॒ होत्रां॑ यविष्ठ॒ भार॑तीं ।
वरू॑त्रीं धि॒षणां॑ वह ॥आ ग्ना अग्न इहावसे होत्रां यविष्ठ भारतीम् |
वरूत्रीं धिषणां वह ||ā́ gnā́ agna ihā́vase hótrām yaviṣṭha bhā́ratīm ǀ
várūtrīm dhiṣáṇām vaha ǁā gnā agna ihāvase hotrāṃ yaviṣṭha bhāratīm |
varūtrīṃ dhiṣaṇāṃ vaha ||आ । ग्नाः । अ॒ग्ने॒ । इ॒ह । अव॑से । होत्रा॑म् । य॒वि॒ष्ठ॒ । भार॑तीम् ।
वरू॑त्रीम् । धि॒षणा॑म् । व॒ह॒ ॥आ । ग्नाः । अग्ने । इह । अवसे । होत्राम् । यविष्ठ । भारतीम् ।
वरूत्रीम् । धिषणाम् । वह ॥ā́ ǀ gnā́ḥ ǀ agne ǀ ihá ǀ ávase ǀ hótrām ǀ yaviṣṭha ǀ bhā́ratīm ǀ
várūtrīm ǀ dhiṣáṇām ǀ vaha ǁā ǀ gnāḥ ǀ agne ǀ iha ǀ avase ǀ hotrām ǀ yaviṣṭha ǀ bhāratīm ǀ
varūtrīm ǀ dhiṣaṇām ǀ vaha ǁ1.22.10 Aṣṭaka 1.2.5.5Anuvāka 1.5.42
-
Ṛk 11
अ॒भि नो॑ दे॒वीरव॑सा म॒हः शर्म॑णा नृ॒पत्नीः॑ ।
अच्छि॑न्नपत्राः सचंतां ॥अभि नो देवीर् अवसा महः शर्मणा नृपत्नीः |
अच्छिन्नपत्राः सचन्ताम् ||abhí no devī́rávasā maháḥ śármaṇā nṛpátnīḥ ǀ
ácchinnapatrāḥ sacantām ǁabhi no devīr avasā mahaḥ śarmaṇā nṛpatnīḥ |
acchinnapatrāḥ sacantām ||अ॒भि । नः॒ । दे॒वीः । अव॑सा । म॒हः । शर्म॑णा । नृ॒ऽपत्नीः॑ ।
अच्छि॑न्नऽपत्राः । स॒च॒न्ता॒म् ॥अभि । नः । देवीः । अवसा । महः । शर्मणा । नृऽपत्नीः ।
अच्छिन्नऽपत्राः । सचन्ताम् ॥abhí ǀ naḥ ǀ devī́ḥ ǀ ávasā ǀ maháḥ ǀ śármaṇā ǀ nṛ-pátnīḥ ǀ
ácchinna-patrāḥ ǀ sacantām ǁabhi ǀ naḥ ǀ devīḥ ǀ avasā ǀ mahaḥ ǀ śarmaṇā ǀ nṛ-patnīḥ ǀ
acchinna-patrāḥ ǀ sacantām ǁ1.22.11 Aṣṭaka 1.2.6.1Anuvāka 1.5.43
-
Ṛk 12
इ॒हेंद्रा॒णीमुप॑ ह्वये वरुणा॒नीं स्व॒स्तये॑ ।
अ॒ग्नायीं॒ सोम॑पीतये ॥इहेन्द्राणीम् उप ह्वये वरुणानीं स्वस्तये |
अग्नायीं सोमपीतये ||ihéndrāṇī́múpa hvaye varuṇānī́m svastáye ǀ
agnā́yīm sómapītaye ǁihendrāṇīm upa hvaye varuṇānīṃ svastaye |
agnāyīṃ somapītaye ||इ॒ह । इ॒न्द्रा॒णीम् । उप॑ । ह्व॒ये॒ । व॒रु॒णा॒नीम् । स्व॒स्तये॑ ।
अ॒ग्नायी॑म् । सोम॑ऽपीतये ॥इह । इन्द्राणीम् । उप । ह्वये । वरुणानीम् । स्वस्तये ।
अग्नायीम् । सोमऽपीतये ॥ihá ǀ indrāṇī́m ǀ úpa ǀ hvaye ǀ varuṇānī́m ǀ svastáye ǀ
agnā́yīm ǀ sóma-pītaye ǁiha ǀ indrāṇīm ǀ upa ǀ hvaye ǀ varuṇānīm ǀ svastaye ǀ
agnāyīm ǀ soma-pītaye ǁ1.22.12 Aṣṭaka 1.2.6.2Anuvāka 1.5.44
-
Ṛk 13
म॒ही द्यौः पृ॑थि॒वी च॑ न इ॒मं य॒ज्ञं मि॑मिक्षतां ।
पि॒पृ॒तां नो॒ भरी॑मभिः ॥मही द्यौः पृथिवी च न इमं यज्ञम् मिमिक्षताम् |
पिपृतां नो भरीमभिः ||mahī́ dyáuḥ pṛthivī́ ca na imám yajñám mimikṣatām ǀ
pipṛtā́m no bhárīmabhiḥ ǁmahī dyauḥ pṛthivī ca na imaṃ yajñam mimikṣatām |
pipṛtāṃ no bharīmabhiḥ ||म॒ही । द्यौः । पृ॒थि॒वी । च॒ । नः॒ । इ॒मम् । य॒ज्ञम् । मि॒मि॒क्ष॒ता॒म् ।
पि॒पृ॒ताम् । नः॒ । भरी॑मऽभिः ॥मही । द्यौः । पृथिवी । च । नः । इमम् । यज्ञम् । मिमिक्षताम् ।
पिपृताम् । नः । भरीमऽभिः ॥mahī́ ǀ dyáuḥ ǀ pṛthivī́ ǀ ca ǀ naḥ ǀ imám ǀ yajñám ǀ mimikṣatām ǀ
pipṛtā́m ǀ naḥ ǀ bhárīma-bhiḥ ǁmahī ǀ dyauḥ ǀ pṛthivī ǀ ca ǀ naḥ ǀ imam ǀ yajñam ǀ mimikṣatām ǀ
pipṛtām ǀ naḥ ǀ bharīma-bhiḥ ǁ1.22.13 Aṣṭaka 1.2.6.3Anuvāka 1.5.45
-
Ṛk 14
तयो॒रिद्घृ॒तव॒त्पयो॒ विप्रा॑ रिहंति धी॒तिभिः॑ ।
गं॒ध॒र्वस्य॑ ध्रु॒वे प॒दे ॥तयोर् इद् घृतवत् पयो विप्रा रिहन्ति धीतिभिः |
गन्धर्वस्य ध्रुवे पदे ||táyorídghṛtávatpáyo víprā rihanti dhītíbhiḥ ǀ
gandharvásya dhruvé padé ǁtayor id ghṛtavat payo viprā rihanti dhītibhiḥ |
gandharvasya dhruve pade ||तयोः॑ । इत् । घृ॒तऽव॑त् । पयः॑ । विप्राः॑ । रि॒ह॒न्ति॒ । धी॒तिऽभिः॑ ।
ग॒न्ध॒र्वस्य॑ । ध्रु॒वे । प॒दे ॥तयोः । इत् । घृतऽवत् । पयः । विप्राः । रिहन्ति । धीतिऽभिः ।
गन्धर्वस्य । ध्रुवे । पदे ॥táyoḥ ǀ ít ǀ ghṛtá-vat ǀ páyaḥ ǀ víprāḥ ǀ rihanti ǀ dhītí-bhiḥ ǀ
gandharvásya ǀ dhruvé ǀ padé ǁtayoḥ ǀ it ǀ ghṛta-vat ǀ payaḥ ǀ viprāḥ ǀ rihanti ǀ dhīti-bhiḥ ǀ
gandharvasya ǀ dhruve ǀ pade ǁ1.22.14 Aṣṭaka 1.2.6.4Anuvāka 1.5.46
-
Ṛk 15
स्यो॒ना पृ॑थिवि भवानृक्ष॒रा नि॒वेश॑नी ।
यच्छा॑ नः॒ शर्म॑ स॒प्रथः॑ ॥स्योना पृथिवि भवानृक्षरा निवेशनी |
यच्छा नः शर्म सप्रथः ||syonā́ pṛthivi bhavānṛkṣarā́ nivéśanī ǀ
yácchā naḥ śárma sapráthaḥ ǁsyonā pṛthivi bhavānṛkṣarā niveśanī |
yacchā naḥ śarma saprathaḥ ||स्यो॒ना । पृ॒थि॒वि॒ । भ॒व॒ । अ॒नृ॒क्ष॒रा । नि॒ऽवेश॑नी ।
यच्छ॑ । नः॒ । शर्म॑ । स॒ऽप्रथः॑ ॥स्योना । पृथिवि । भव । अनृक्षरा । निऽवेशनी ।
यच्छ । नः । शर्म । सऽप्रथः ॥syonā́ ǀ pṛthivi ǀ bhava ǀ anṛkṣarā́ ǀ ni-véśanī ǀ
yáccha ǀ naḥ ǀ śárma ǀ sa-práthaḥ ǁsyonā ǀ pṛthivi ǀ bhava ǀ anṛkṣarā ǀ ni-veśanī ǀ
yaccha ǀ naḥ ǀ śarma ǀ sa-prathaḥ ǁ1.22.15 Aṣṭaka 1.2.6.5Anuvāka 1.5.47
-
Ṛk 16
अतो॑ दे॒वा अ॑वंतु नो॒ यतो॒ विष्णु॑र्विचक्र॒मे ।
पृ॒थि॒व्याः स॒प्त धाम॑भिः ॥अतो देवा अवन्तु नो यतो विष्णुर् विचक्रमे |
पृथिव्याः सप्त धामभिः ||áto devā́ avantu no yáto víṣṇurvicakramé ǀ
pṛthivyā́ḥ saptá dhā́mabhiḥ ǁato devā avantu no yato viṣṇur vicakrame |
pṛthivyāḥ sapta dhāmabhiḥ ||अतः॑ । दे॒वाः । अ॒व॒न्तु॒ । नः॒ । यतः॑ । विष्णुः॑ । वि॒ऽच॒क्र॒मे ।
पृ॒थि॒व्याः । स॒प्त । धाम॑ऽभिः ॥अतः । देवाः । अवन्तु । नः । यतः । विष्णुः । विऽचक्रमे ।
पृथिव्याः । सप्त । धामऽभिः ॥átaḥ ǀ devā́ḥ ǀ avantu ǀ naḥ ǀ yátaḥ ǀ víṣṇuḥ ǀ vi-cakramé ǀ
pṛthivyā́ḥ ǀ saptá ǀ dhā́ma-bhiḥ ǁataḥ ǀ devāḥ ǀ avantu ǀ naḥ ǀ yataḥ ǀ viṣṇuḥ ǀ vi-cakrame ǀ
pṛthivyāḥ ǀ sapta ǀ dhāma-bhiḥ ǁ1.22.16 Aṣṭaka 1.2.7.1Anuvāka 1.5.48
-
Ṛk 17
इ॒दं विष्णु॒र्वि च॑क्रमे त्रे॒धा नि द॑धे प॒दं ।
समू॑ळ्हमस्य पांसु॒रे ॥इदं विष्णुर् वि चक्रमे त्रेधा नि दधे पदम् |
समूऌहम् अस्य पांसुरे ||idám víṣṇurví cakrame tredhā́ ní dadhe padám ǀ
sámūḷhamasya pāṃsuré ǁidaṃ viṣṇur vi cakrame tredhā ni dadhe padam |
samūḷham asya pāṃsure ||इ॒दम् । विष्णुः॑ । वि । च॒क्र॒मे॒ । त्रे॒धा । नि । द॒धे॒ । प॒दम् ।
सम्ऽऊ॑ळ्हम् । अ॒स्य॒ । पां॒सु॒रे ॥इदम् । विष्णुः । वि । चक्रमे । त्रेधा । नि । दधे । पदम् ।
सम्ऽऊळ्हम् । अस्य । पांसुरे ॥idám ǀ víṣṇuḥ ǀ ví ǀ cakrame ǀ tredhā́ ǀ ní ǀ dadhe ǀ padám ǀ
sám-ūḷham ǀ asya ǀ pāṃsuré ǁidam ǀ viṣṇuḥ ǀ vi ǀ cakrame ǀ tredhā ǀ ni ǀ dadhe ǀ padam ǀ
sam-ūḷham ǀ asya ǀ pāṃsure ǁ1.22.17 Aṣṭaka 1.2.7.2Anuvāka 1.5.49
-
Ṛk 18
त्रीणि॑ प॒दा वि च॑क्रमे॒ विष्णु॑र्गो॒पा अदा॑भ्यः ।
अतो॒ धर्मा॑णि धा॒रय॑न् ॥त्रीणि पदा वि चक्रमे विष्णुर् गोपा अदाभ्यः |
अतो धर्माणि धारयन् ||trī́ṇi padā́ ví cakrame víṣṇurgopā́ ádābhyaḥ ǀ
áto dhármāṇi dhāráyan ǁtrīṇi padā vi cakrame viṣṇur gopā adābhyaḥ |
ato dharmāṇi dhārayan ||त्रीणि॑ । प॒दा । वि । च॒क्र॒मे॒ । विष्णुः॑ । गो॒पाः । अदा॑भ्यः ।
अतः॑ । धर्मा॑णि । धा॒रय॑न् ॥त्रीणि । पदा । वि । चक्रमे । विष्णुः । गोपाः । अदाभ्यः ।
अतः । धर्माणि । धारयन् ॥trī́ṇi ǀ padā́ ǀ ví ǀ cakrame ǀ víṣṇuḥ ǀ gopā́ḥ ǀ ádābhyaḥ ǀ
átaḥ ǀ dhármāṇi ǀ dhāráyan ǁtrīṇi ǀ padā ǀ vi ǀ cakrame ǀ viṣṇuḥ ǀ gopāḥ ǀ adābhyaḥ ǀ
ataḥ ǀ dharmāṇi ǀ dhārayan ǁ1.22.18 Aṣṭaka 1.2.7.3Anuvāka 1.5.50
-
Ṛk 19
विष्णोः॒ कर्मा॑णि पश्यत॒ यतो॑ व्र॒तानि॑ पस्प॒शे ।
इंद्र॑स्य॒ युज्यः॒ सखा॑ ॥विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे |
इन्द्रस्य युज्यः सखा ||víṣṇoḥ kármāṇi paśyata yáto vratā́ni paspaśé ǀ
índrasya yújyaḥ sákhā ǁviṣṇoḥ karmāṇi paśyata yato vratāni paspaśe |
indrasya yujyaḥ sakhā ||विष्णोः॑ । कर्मा॑णि । प॒श्य॒त॒ । यतः॑ । व्र॒तानि॑ । प॒स्प॒शे ।
इन्द्र॑स्य । युज्यः॑ । सखा॑ ॥विष्णोः । कर्माणि । पश्यत । यतः । व्रतानि । पस्पशे ।
इन्द्रस्य । युज्यः । सखा ॥víṣṇoḥ ǀ kármāṇi ǀ paśyata ǀ yátaḥ ǀ vratā́ni ǀ paspaśé ǀ
índrasya ǀ yújyaḥ ǀ sákhā ǁviṣṇoḥ ǀ karmāṇi ǀ paśyata ǀ yataḥ ǀ vratāni ǀ paspaśe ǀ
indrasya ǀ yujyaḥ ǀ sakhā ǁ1.22.19 Aṣṭaka 1.2.7.4Anuvāka 1.5.51
-
Ṛk 20
तद्विष्णोः॑ पर॒मं प॒दं सदा॑ पश्यंति सू॒रयः॑ ।
दि॒वी॑व॒ चक्षु॒रात॑तं ॥तद् विष्णोः परमम् पदं सदा पश्यन्ति सूरयः |
दिवीव चक्षुर् आततम् ||tádvíṣṇoḥ paramám padám sádā paśyanti sūráyaḥ ǀ
divī́va cákṣurā́tatam ǁtad viṣṇoḥ paramam padaṃ sadā paśyanti sūrayaḥ |
divīva cakṣur ātatam ||तत् । विष्णोः॑ । प॒र॒मम् । प॒दम् । सदा॑ । प॒श्य॒न्ति॒ । सू॒रयः॑ ।
दि॒विऽइ॑व । चक्षुः॑ । आऽत॑तम् ॥तत् । विष्णोः । परमम् । पदम् । सदा । पश्यन्ति । सूरयः ।
दिविऽइव । चक्षुः । आऽततम् ॥tát ǀ víṣṇoḥ ǀ paramám ǀ padám ǀ sádā ǀ paśyanti ǀ sūráyaḥ ǀ
diví-iva ǀ cákṣuḥ ǀ ā́-tatam ǁtat ǀ viṣṇoḥ ǀ paramam ǀ padam ǀ sadā ǀ paśyanti ǀ sūrayaḥ ǀ
divi-iva ǀ cakṣuḥ ǀ ā-tatam ǁ1.22.20 Aṣṭaka 1.2.7.5Anuvāka 1.5.52
-
Ṛk 21
तद्विप्रा॑सो विप॒न्यवो॑ जागृ॒वांसः॒ समिं॑धते ।
विष्णो॒र्यत्प॑र॒मं प॒दं ॥तद् विप्रासो विपन्यवो जागृवांसः सम् इन्धते |
विष्णोर् यत् परमम् पदम् ||tádvíprāso vipanyávo jāgṛvā́ṃsaḥ sámindhate ǀ
víṣṇoryátparamám padám ǁtad viprāso vipanyavo jāgṛvāṃsaḥ sam indhate |
viṣṇor yat paramam padam ||तत् । विप्रा॑सः । वि॒प॒न्यवः॑ । जा॒गृ॒ऽवांसः॑ । सम् । इ॒न्ध॒ते॒ ।
विष्णोः॑ । यत् । प॒र॒मम् । प॒दम् ॥तत् । विप्रासः । विपन्यवः । जागृऽवांसः । सम् । इन्धते ।
विष्णोः । यत् । परमम् । पदम् ॥tát ǀ víprāsaḥ ǀ vipanyávaḥ ǀ jāgṛ-vā́ṃsaḥ ǀ sám ǀ indhate ǀ
víṣṇoḥ ǀ yát ǀ paramám ǀ padám ǁtat ǀ viprāsaḥ ǀ vipanyavaḥ ǀ jāgṛ-vāṃsaḥ ǀ sam ǀ indhate ǀ
viṣṇoḥ ǀ yat ǀ paramam ǀ padam ǁ1.22.21 Aṣṭaka 1.2.7.6Anuvāka 1.5.53
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.