Sūkta 156
- Devatā देवता
- Viṣṇu
- Ṛṣi ऋषि
- Dīrghatamas Aucathya
- Chandas छन्दस्
- Jagatī
Metres by ṛk
1st set of styles nicṛttriṣṭup (1); virāṭtrisṭup (2); nicṛjjagatī (3); jagatī (4); svarāṭtriṣṭup (5)
2nd set of styles jagatī
-
Ṛk 1
भवा॑ मि॒त्रो न शेव्यो॑ घृ॒तासु॑ति॒र्विभू॑तद्युम्न एव॒या उ॑ स॒प्रथाः॑ ।
अधा॑ ते विष्णो वि॒दुषा॑ चि॒दर्ध्यः॒ स्तोमो॑ य॒ज्ञश्च॒ राध्यो॑ ह॒विष्म॑ता ॥भवा मित्रो न शेव्यो घृतासुतिर् विभूतद्युम्न एवया उ सप्रथाः |
अधा ते विष्णो विदुषा चिद् अर्ध्य स्तोमो यज्ञश् च राध्यो हविष्मता ||bhávā mitró ná śévyo ghṛtā́sutirvíbhūtadyumna evayā́ u sapráthāḥ ǀ
ádhā te viṣṇo vidúṣā cidárdhyaḥ stómo yajñáśca rā́dhyo havíṣmatā ǁbhavā mitro na śevyo ghṛtāsutir vibhūtadyumna evayā u saprathāḥ |
adhā te viṣṇo viduṣā cid ardhya stomo yajñaś ca rādhyo haviṣmatā ||भव॑ । मि॒त्रः । न । शेव्यः॑ । घृ॒तऽआ॑सुतिः । विभू॑तऽद्युम्नः । ए॒व॒ऽयाः । ऊं॒ इति॑ । स॒ऽप्रथाः॑ ।
अध॑ । ते॒ । वि॒ष्णो॒ इति॑ । वि॒दुषा॑ । चि॒त् । अर्ध्यः॑ । स्तोमः॑ । य॒ज्ञः । च॒ । राध्यः॑ । ह॒विष्म॑ता ॥भव । मित्रः । न । शेव्यः । घृतऽआसुतिः । विभूतऽद्युम्नः । एवऽयाः । ऊं इति । सऽप्रथाः ।
अध । ते । विष्णो इति । विदुषा । चित् । अर्ध्यः । स्तोमः । यज्ञः । च । राध्यः । हविष्मता ॥bháva ǀ mitráḥ ǀ ná ǀ śévyaḥ ǀ ghṛtá-āsutiḥ ǀ víbhūta-dyumnaḥ ǀ eva-yā́ḥ ǀ ūṃ íti ǀ sa-práthāḥ ǀ
ádha ǀ te ǀ viṣṇo íti ǀ vidúṣā ǀ cit ǀ árdhyaḥ ǀ stómaḥ ǀ yajñáḥ ǀ ca ǀ rā́dhyaḥ ǀ havíṣmatā ǁbhava ǀ mitraḥ ǀ na ǀ śevyaḥ ǀ ghṛta-āsutiḥ ǀ vibhūta-dyumnaḥ ǀ eva-yāḥ ǀ ūṃ iti ǀ sa-prathāḥ ǀ
adha ǀ te ǀ viṣṇo iti ǀ viduṣā ǀ cit ǀ ardhyaḥ ǀ stomaḥ ǀ yajñaḥ ǀ ca ǀ rādhyaḥ ǀ haviṣmatā ǁ1.156.1 Aṣṭaka 2.2.26.1Anuvāka 1.21.115
-
Ṛk 2
यः पू॒र्व्याय॑ वे॒धसे॒ नवी॑यसे सु॒मज्जा॑नये॒ विष्ण॑वे॒ ददा॑शति ।
यो जा॒तम॑स्य मह॒तो महि॒ ब्रव॒त्सेदु॒ श्रवो॑भि॒र्युज्यं॑ चिद॒भ्य॑सत् ॥यः पूर्व्याय वेधसे नवीयसे सुमज्जानये विष्णवे ददाशति |
यो जातम् अस्य महतो महि ब्रवत् सेद् उ श्रवोभिर् युज्यं चिद् अभ्य् असत् ||yáḥ pūrvyā́ya vedháse návīyase sumájjānaye víṣṇave dádāśati ǀ
yó jātámasya maható máhi brávatsédu śrávobhiryújyam cidabhyasat ǁyaḥ pūrvyāya vedhase navīyase sumajjānaye viṣṇave dadāśati |
yo jātam asya mahato mahi bravat sed u śravobhir yujyaṃ cid abhy asat ||यः । पू॒र्व्याय॑ । वे॒धसे॑ । नवी॑यसे । सु॒मत्ऽजा॑नये । विष्ण॑वे । ददा॑शति ।
यः । जा॒तम् । अ॒स्य॒ । म॒ह॒तः । महि॑ । ब्रव॑त् । सः । इत् । ऊं॒ इति॑ । श्रवः॑ऽभिः । युज्य॑म् । चि॒त् । अ॒भि । अ॒स॒त् ॥यः । पूर्व्याय । वेधसे । नवीयसे । सुमत्ऽजानये । विष्णवे । ददाशति ।
यः । जातम् । अस्य । महतः । महि । ब्रवत् । सः । इत् । ऊं इति । श्रवःऽभिः । युज्यम् । चित् । अभि । असत् ॥yáḥ ǀ pūrvyā́ya ǀ vedháse ǀ návīyase ǀ sumát-jānaye ǀ víṣṇave ǀ dádāśati ǀ
yáḥ ǀ jātám ǀ asya ǀ mahatáḥ ǀ máhi ǀ brávat ǀ sáḥ ǀ ít ǀ ūṃ íti ǀ śrávaḥ-bhiḥ ǀ yújyam ǀ cit ǀ abhí ǀ asat ǁyaḥ ǀ pūrvyāya ǀ vedhase ǀ navīyase ǀ sumat-jānaye ǀ viṣṇave ǀ dadāśati ǀ
yaḥ ǀ jātam ǀ asya ǀ mahataḥ ǀ mahi ǀ bravat ǀ saḥ ǀ it ǀ ūṃ iti ǀ śravaḥ-bhiḥ ǀ yujyam ǀ cit ǀ abhi ǀ asat ǁ1.156.2 Aṣṭaka 2.2.26.2Anuvāka 1.21.116
-
Ṛk 3
तमु॑ स्तोतारः पू॒र्व्यं यथा॑ वि॒द ऋ॒तस्य॒ गर्भं॑ ज॒नुषा॑ पिपर्तन ।
आस्य॑ जा॒नंतो॒ नाम॑ चिद्विवक्तन म॒हस्ते॑ विष्णो सुम॒तिं भ॑जामहे ॥तम् उ स्तोतारः पूर्व्यं यथा विद ऋतस्य गर्भं जनुषा पिपर्तन |
आस्य जानन्तो नाम चिद् विवक्तन महस् ते विष्णो सुमतिम् भजामहे ||támu stotāraḥ pūrvyám yáthā vidá ṛtásya gárbham janúṣā pipartana ǀ
ā́sya jānánto nā́ma cidvivaktana maháste viṣṇo sumatím bhajāmahe ǁtam u stotāraḥ pūrvyaṃ yathā vida ṛtasya garbhaṃ januṣā pipartana |
āsya jānanto nāma cid vivaktana mahas te viṣṇo sumatim bhajāmahe ||तम् । ऊं॒ इति॑ । स्तो॒ता॒रः॒ । पू॒र्व्यम् । यथा॑ । वि॒द । ऋ॒तस्य॑ । गर्भ॑म् । ज॒नुषा॑ । पि॒प॒र्त॒न॒ ।
आ । अ॒स्य॒ । जा॒नन्तः॑ । नाम॑ । चि॒त् । वि॒व॒क्त॒न॒ । म॒हः । ते॒ । वि॒ष्णो॒ इति॑ । सु॒ऽम॒तिम् । भ॒जा॒म॒हे॒ ॥तम् । ऊं इति । स्तोतारः । पूर्व्यम् । यथा । विद । ऋतस्य । गर्भम् । जनुषा । पिपर्तन ।
आ । अस्य । जानन्तः । नाम । चित् । विवक्तन । महः । ते । विष्णो इति । सुऽमतिम् । भजामहे ॥tám ǀ ūṃ íti ǀ stotāraḥ ǀ pūrvyám ǀ yáthā ǀ vidá ǀ ṛtásya ǀ gárbham ǀ janúṣā ǀ pipartana ǀ
ā́ ǀ asya ǀ jānántaḥ ǀ nā́ma ǀ cit ǀ vivaktana ǀ maháḥ ǀ te ǀ viṣṇo íti ǀ su-matím ǀ bhajāmahe ǁtam ǀ ūṃ iti ǀ stotāraḥ ǀ pūrvyam ǀ yathā ǀ vida ǀ ṛtasya ǀ garbham ǀ januṣā ǀ pipartana ǀ
ā ǀ asya ǀ jānantaḥ ǀ nāma ǀ cit ǀ vivaktana ǀ mahaḥ ǀ te ǀ viṣṇo iti ǀ su-matim ǀ bhajāmahe ǁ1.156.3 Aṣṭaka 2.2.26.3Anuvāka 1.21.117
-
Ṛk 4
तम॑स्य॒ राजा॒ वरु॑ण॒स्तम॒श्विना॒ क्रतुं॑ सचंत॒ मारु॑तस्य वे॒धसः॑ ।
दा॒धार॒ दक्ष॑मुत्त॒मम॑ह॒र्विदं॑ व्र॒जं च॒ विष्णुः॒ सखि॑वाँ अपोर्णु॒ते ॥तम् अस्य राजा वरुणस् तम् अश्विना क्रतुं सचन्त मारुतस्य वेधसः |
दाधार दक्षम् उत्तमम् अहर्विदं व्रजं च विष्णुः सखिवां अपोर्णुते ||támasya rā́jā váruṇastámaśvínā krátum sacanta mā́rutasya vedhásaḥ ǀ
dādhā́ra dákṣamuttamámaharvídam vrajám ca víṣṇuḥ sákhivām̐ aporṇuté ǁtam asya rājā varuṇas tam aśvinā kratuṃ sacanta mārutasya vedhasaḥ |
dādhāra dakṣam uttamam aharvidaṃ vrajaṃ ca viṣṇuḥ sakhivāṃ aporṇute ||तम् । अ॒स्य॒ । राजा॑ । वरु॑णः । तम् । अ॒श्विना॑ । क्रतु॑म् । स॒च॒न्त॒ । मारु॑तस्य । वे॒धसः॑ ।
दा॒धार॑ । दक्ष॑म् । उ॒त्ऽत॒मम् । अ॒हः॒ऽविद॑म् । व्र॒जम् । च॒ । विष्णुः॑ । सखि॑ऽवान् । अ॒प॒ऽऊ॒र्णु॒ते ॥तम् । अस्य । राजा । वरुणः । तम् । अश्विना । क्रतुम् । सचन्त । मारुतस्य । वेधसः ।
दाधार । दक्षम् । उत्ऽतमम् । अहःऽविदम् । व्रजम् । च । विष्णुः । सखिऽवान् । अपऽऊर्णुते ॥tám ǀ asya ǀ rā́jā ǀ váruṇaḥ ǀ tám ǀ aśvínā ǀ krátum ǀ sacanta ǀ mā́rutasya ǀ vedhásaḥ ǀ
dādhā́ra ǀ dákṣam ǀ ut-tamám ǀ ahaḥ-vídam ǀ vrajám ǀ ca ǀ víṣṇuḥ ǀ sákhi-vān ǀ apa-ūrṇuté ǁtam ǀ asya ǀ rājā ǀ varuṇaḥ ǀ tam ǀ aśvinā ǀ kratum ǀ sacanta ǀ mārutasya ǀ vedhasaḥ ǀ
dādhāra ǀ dakṣam ǀ ut-tamam ǀ ahaḥ-vidam ǀ vrajam ǀ ca ǀ viṣṇuḥ ǀ sakhi-vān ǀ apa-ūrṇute ǁ1.156.4 Aṣṭaka 2.2.26.4Anuvāka 1.21.118
-
Ṛk 5
आ यो वि॒वाय॑ स॒चथा॑य॒ दैव्य॒ इंद्रा॑य॒ विष्णुः॑ सु॒कृते॑ सु॒कृत्त॑रः ।
वे॒धा अ॑जिन्वत्त्रिषध॒स्थ आर्य॑मृ॒तस्य॑ भा॒गे यज॑मान॒माभ॑जत् ॥आ यो विवाय सचथाय दैव्य इन्द्राय विष्णुः सुकृते सुकृत्तरः |
वेधा अजिन्वत् त्रिषधस्थ आर्यम् ऋतस्य भागे यजमानम् आभजत् ||ā́ yó vivā́ya sacáthāya dáivya índrāya víṣṇuḥ sukṛ́te sukṛ́ttaraḥ ǀ
vedhā́ ajinvattriṣadhasthá ā́ryamṛtásya bhāgé yájamānamā́bhajat ǁā yo vivāya sacathāya daivya indrāya viṣṇuḥ sukṛte sukṛttaraḥ |
vedhā ajinvat triṣadhastha āryam ṛtasya bhāge yajamānam ābhajat ||आ । यः । वि॒वाय॑ । स॒चथा॑य । दैव्यः॑ । इन्द्रा॑य । विष्णुः॑ । सु॒ऽकृते॑ । सु॒कृत्ऽत॑रः ।
वे॒धाः । अ॒जि॒न्व॒त् । त्रि॒ऽस॒ध॒स्थः । आर्य॑म् । ऋ॒तस्य॑ । भा॒गे । यज॑मानम् । आ । अ॒भ॒ज॒त् ॥आ । यः । विवाय । सचथाय । दैव्यः । इन्द्राय । विष्णुः । सुऽकृते । सुकृत्ऽतरः ।
वेधाः । अजिन्वत् । त्रिऽसधस्थः । आर्यम् । ऋतस्य । भागे । यजमानम् । आ । अभजत् ॥ā́ ǀ yáḥ ǀ vivā́ya ǀ sacáthāya ǀ dáivyaḥ ǀ índrāya ǀ víṣṇuḥ ǀ su-kṛ́te ǀ sukṛ́t-taraḥ ǀ
vedhā́ḥ ǀ ajinvat ǀ tri-sadhastháḥ ǀ ā́ryam ǀ ṛtásya ǀ bhāgé ǀ yájamānam ǀ ā́ ǀ abhajat ǁā ǀ yaḥ ǀ vivāya ǀ sacathāya ǀ daivyaḥ ǀ indrāya ǀ viṣṇuḥ ǀ su-kṛte ǀ sukṛt-taraḥ ǀ
vedhāḥ ǀ ajinvat ǀ tri-sadhasthaḥ ǀ āryam ǀ ṛtasya ǀ bhāge ǀ yajamānam ǀ ā ǀ abhajat ǁ1.156.5 Aṣṭaka 2.2.26.5Anuvāka 1.21.119
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.