Ṛgveda · Maṇḍala 1 · Sūkta 156
Ṛk 1.156.3
Saṃhitā
तमु॑ स्तोतारः पू॒र्व्यं यथा॑ वि॒द ऋ॒तस्य॒ गर्भं॑ ज॒नुषा॑ पिपर्तन ।
आस्य॑ जा॒नंतो॒ नाम॑ चिद्विवक्तन म॒हस्ते॑ विष्णो सुम॒तिं भ॑जामहे ॥
तम् उ स्तोतारः पूर्व्यं यथा विद ऋतस्य गर्भं जनुषा पिपर्तन |
आस्य जानन्तो नाम चिद् विवक्तन महस् ते विष्णो सुमतिम् भजामहे ||
támu stotāraḥ pūrvyám yáthā vidá ṛtásya gárbham janúṣā pipartana ǀ
ā́sya jānánto nā́ma cidvivaktana maháste viṣṇo sumatím bhajāmahe ǁ
tam u stotāraḥ pūrvyaṃ yathā vida ṛtasya garbhaṃ januṣā pipartana |
āsya jānanto nāma cid vivaktana mahas te viṣṇo sumatim bhajāmahe ||
Padapāṭha
तम् । ऊं॒ इति॑ । स्तो॒ता॒रः॒ । पू॒र्व्यम् । यथा॑ । वि॒द । ऋ॒तस्य॑ । गर्भ॑म् । ज॒नुषा॑ । पि॒प॒र्त॒न॒ ।
आ । अ॒स्य॒ । जा॒नन्तः॑ । नाम॑ । चि॒त् । वि॒व॒क्त॒न॒ । म॒हः । ते॒ । वि॒ष्णो॒ इति॑ । सु॒ऽम॒तिम् । भ॒जा॒म॒हे॒ ॥
तम् । ऊं इति । स्तोतारः । पूर्व्यम् । यथा । विद । ऋतस्य । गर्भम् । जनुषा । पिपर्तन ।
आ । अस्य । जानन्तः । नाम । चित् । विवक्तन । महः । ते । विष्णो इति । सुऽमतिम् । भजामहे ॥
tám ǀ ūṃ íti ǀ stotāraḥ ǀ pūrvyám ǀ yáthā ǀ vidá ǀ ṛtásya ǀ gárbham ǀ janúṣā ǀ pipartana ǀ
ā́ ǀ asya ǀ jānántaḥ ǀ nā́ma ǀ cit ǀ vivaktana ǀ maháḥ ǀ te ǀ viṣṇo íti ǀ su-matím ǀ bhajāmahe ǁ
tam ǀ ūṃ iti ǀ stotāraḥ ǀ pūrvyam ǀ yathā ǀ vida ǀ ṛtasya ǀ garbham ǀ januṣā ǀ pipartana ǀ
ā ǀ asya ǀ jānantaḥ ǀ nāma ǀ cit ǀ vivaktana ǀ mahaḥ ǀ te ǀ viṣṇo iti ǀ su-matim ǀ bhajāmahe ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.156.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.2.26.03
- Maṇḍala · Anuvāka · Ṛk
- 1.21.117
- Devatā देवता
- Viṣṇu
- Ṛṣi ऋषि
- Dīrghatamas Aucathya
- Chandas छन्दस्
- Jagatī
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.