Ṛgveda · Maṇḍala 1 · Sūkta 156
Ṛk 1.156.4
Saṃhitā
तम॑स्य॒ राजा॒ वरु॑ण॒स्तम॒श्विना॒ क्रतुं॑ सचंत॒ मारु॑तस्य वे॒धसः॑ ।
दा॒धार॒ दक्ष॑मुत्त॒मम॑ह॒र्विदं॑ व्र॒जं च॒ विष्णुः॒ सखि॑वाँ अपोर्णु॒ते ॥
तम् अस्य राजा वरुणस् तम् अश्विना क्रतुं सचन्त मारुतस्य वेधसः |
दाधार दक्षम् उत्तमम् अहर्विदं व्रजं च विष्णुः सखिवां अपोर्णुते ||
támasya rā́jā váruṇastámaśvínā krátum sacanta mā́rutasya vedhásaḥ ǀ
dādhā́ra dákṣamuttamámaharvídam vrajám ca víṣṇuḥ sákhivām̐ aporṇuté ǁ
tam asya rājā varuṇas tam aśvinā kratuṃ sacanta mārutasya vedhasaḥ |
dādhāra dakṣam uttamam aharvidaṃ vrajaṃ ca viṣṇuḥ sakhivāṃ aporṇute ||
Padapāṭha
तम् । अ॒स्य॒ । राजा॑ । वरु॑णः । तम् । अ॒श्विना॑ । क्रतु॑म् । स॒च॒न्त॒ । मारु॑तस्य । वे॒धसः॑ ।
दा॒धार॑ । दक्ष॑म् । उ॒त्ऽत॒मम् । अ॒हः॒ऽविद॑म् । व्र॒जम् । च॒ । विष्णुः॑ । सखि॑ऽवान् । अ॒प॒ऽऊ॒र्णु॒ते ॥
तम् । अस्य । राजा । वरुणः । तम् । अश्विना । क्रतुम् । सचन्त । मारुतस्य । वेधसः ।
दाधार । दक्षम् । उत्ऽतमम् । अहःऽविदम् । व्रजम् । च । विष्णुः । सखिऽवान् । अपऽऊर्णुते ॥
tám ǀ asya ǀ rā́jā ǀ váruṇaḥ ǀ tám ǀ aśvínā ǀ krátum ǀ sacanta ǀ mā́rutasya ǀ vedhásaḥ ǀ
dādhā́ra ǀ dákṣam ǀ ut-tamám ǀ ahaḥ-vídam ǀ vrajám ǀ ca ǀ víṣṇuḥ ǀ sákhi-vān ǀ apa-ūrṇuté ǁ
tam ǀ asya ǀ rājā ǀ varuṇaḥ ǀ tam ǀ aśvinā ǀ kratum ǀ sacanta ǀ mārutasya ǀ vedhasaḥ ǀ
dādhāra ǀ dakṣam ǀ ut-tamam ǀ ahaḥ-vidam ǀ vrajam ǀ ca ǀ viṣṇuḥ ǀ sakhi-vān ǀ apa-ūrṇute ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.156.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.2.26.04
- Maṇḍala · Anuvāka · Ṛk
- 1.21.118
- Devatā देवता
- Viṣṇu
- Ṛṣi ऋषि
- Dīrghatamas Aucathya
- Chandas छन्दस्
- Jagatī
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.