Sūkta 8
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Madhucchandas Vaiśvāmitra
- Chandas छन्दस्
- Gāyatrī
Metres by ṛk
1st set of styles gāyatrī (3, 4, 6, 7, 9); nicṛdgāyatrī (1, 5, 8); virāḍgāyatrī (2); gāyatrī (vardhamānā gāyatrī) (10)
2nd set of styles gāyatrī
-
Ṛk 1
एंद्र॑ सान॒सिं र॒यिं स॒जित्वा॑नं सदा॒सहं॑ ।
वर्षि॑ष्ठमू॒तये॑ भर ॥एन्द्र सानसिं रयिं सजित्वानं सदासहम् |
वर्षिष्ठम् ऊतये भर ||éndra sānasím rayím sajítvānam sadāsáham ǀ
várṣiṣṭhamūtáye bhara ǁendra sānasiṃ rayiṃ sajitvānaṃ sadāsaham |
varṣiṣṭham ūtaye bhara ||आ । इ॒न्द्र॒ । सा॒न॒सिम् । र॒यिम् । स॒ऽजित्वा॑नम् । स॒दा॒ऽसह॑म् ।
वर्षि॑ष्ठम् । ऊ॒तये॑ । भ॒र॒ ॥आ । इन्द्र । सानसिम् । रयिम् । सऽजित्वानम् । सदाऽसहम् ।
वर्षिष्ठम् । ऊतये । भर ॥ā́ ǀ indra ǀ sānasím ǀ rayím ǀ sa-jítvānam ǀ sadā-sáham ǀ
várṣiṣṭham ǀ ūtáye ǀ bhara ǁā ǀ indra ǀ sānasim ǀ rayim ǀ sa-jitvānam ǀ sadā-saham ǀ
varṣiṣṭham ǀ ūtaye ǀ bhara ǁ1.8.1 Aṣṭaka 1.1.15.1Anuvāka 1.3.1
-
Ṛk 2
नि येन॑ मुष्टिह॒त्यया॒ नि वृ॒त्रा रु॒णधा॑महै ।
त्वोता॑सो॒ न्यर्व॑ता ॥नि येन मुष्टिहत्यया नि वृत्रा रुणधामहै |
त्वोतासो न्य् अर्वता ||ní yéna muṣṭihatyáyā ní vṛtrā́ ruṇádhāmahai ǀ
tvótāso nyárvatā ǁni yena muṣṭihatyayā ni vṛtrā ruṇadhāmahai |
tvotāso ny arvatā ||नि । येन॑ । मु॒ष्टि॒ऽह॒त्यया॑ । नि । वृ॒त्रा । रु॒णधा॑महै ।
त्वाऽऊ॑तासः । नि । अर्व॑ता ॥नि । येन । मुष्टिऽहत्यया । नि । वृत्रा । रुणधामहै ।
त्वाऽऊतासः । नि । अर्वता ॥ní ǀ yéna ǀ muṣṭi-hatyáyā ǀ ní ǀ vṛtrā́ ǀ ruṇádhāmahai ǀ
tvā́-ūtāsaḥ ǀ ní ǀ árvatā ǁni ǀ yena ǀ muṣṭi-hatyayā ǀ ni ǀ vṛtrā ǀ ruṇadhāmahai ǀ
tvā-ūtāsaḥ ǀ ni ǀ arvatā ǁ1.8.2 Aṣṭaka 1.1.15.2Anuvāka 1.3.2
-
Ṛk 3
इंद्र॒ त्वोता॑स॒ आ व॒यं वज्रं॑ घ॒ना द॑दीमहि ।
जये॑म॒ सं यु॒धि स्पृधः॑ ॥इन्द्र त्वोतास आ वयं वज्रं घना ददीमहि |
जयेम सं युधि स्पृधः ||índra tvótāsa ā́ vayám vájram ghanā́ dadīmahi ǀ
jáyema sám yudhí spṛ́dhaḥ ǁindra tvotāsa ā vayaṃ vajraṃ ghanā dadīmahi |
jayema saṃ yudhi spṛdhaḥ ||इन्द्र॑ । त्वाऽऊ॑तासः । आ । व॒यम् । वज्र॑म् । घ॒ना । द॒दी॒म॒हि॒ ।
जये॑म । सम् । यु॒धि । स्पृधः॑ ॥इन्द्र । त्वाऽऊतासः । आ । वयम् । वज्रम् । घना । ददीमहि ।
जयेम । सम् । युधि । स्पृधः ॥índra ǀ tvā́-ūtāsaḥ ǀ ā́ ǀ vayám ǀ vájram ǀ ghanā́ ǀ dadīmahi ǀ
jáyema ǀ sám ǀ yudhí ǀ spṛ́dhaḥ ǁindra ǀ tvā-ūtāsaḥ ǀ ā ǀ vayam ǀ vajram ǀ ghanā ǀ dadīmahi ǀ
jayema ǀ sam ǀ yudhi ǀ spṛdhaḥ ǁ1.8.3 Aṣṭaka 1.1.15.3Anuvāka 1.3.3
-
Ṛk 4
व॒यं शूरे॑भि॒रस्तृ॑भि॒रिंद्र॒ त्वया॑ यु॒जा व॒यं ।
सा॒स॒ह्याम॑ पृतन्य॒तः ॥वयं शूरेभिर् अस्तृभिर् इन्द्र त्वया युजा वयम् |
सासह्याम पृतन्यतः ||vayám śū́rebhirástṛbhiríndra tváyā yujā́ vayám ǀ
sāsahyā́ma pṛtanyatáḥ ǁvayaṃ śūrebhir astṛbhir indra tvayā yujā vayam |
sāsahyāma pṛtanyataḥ ||व॒यम् । शूरे॑भिः । अस्तृ॑ऽभिः । इन्द्र॑ । त्वया॑ । यु॒जा । व॒यम् ।
स॒स॒ह्याम॑ । पृ॒त॒न्य॒तः ॥वयम् । शूरेभिः । अस्तृऽभिः । इन्द्र । त्वया । युजा । वयम् ।
ससह्याम । पृतन्यतः ॥vayám ǀ śū́rebhiḥ ǀ ástṛ-bhiḥ ǀ índra ǀ tváyā ǀ yujā́ ǀ vayám ǀ
sasahyā́ma ǀ pṛtanyatáḥ ǁvayam ǀ śūrebhiḥ ǀ astṛ-bhiḥ ǀ indra ǀ tvayā ǀ yujā ǀ vayam ǀ
sasahyāma ǀ pṛtanyataḥ ǁ1.8.4 Aṣṭaka 1.1.15.4Anuvāka 1.3.4
-
Ṛk 5
म॒हाँ इंद्रः॑ प॒रश्च॒ नु म॑हि॒त्वम॑स्तु व॒ज्रिणे॑ ।
द्यौर्न प्र॑थि॒ना शवः॑ ॥महां इन्द्रः परश् च नु महित्वम् अस्तु वज्रिणे |
द्यौर् न प्रथिना शवः ||mahā́m̐ índraḥ paráśca nú mahitvámastu vajríṇe ǀ
dyáurná prathinā́ śávaḥ ǁmahāṃ indraḥ paraś ca nu mahitvam astu vajriṇe |
dyaur na prathinā śavaḥ ||म॒हान् । इन्द्रः॑ । प॒रः । च॒ । नु । म॒हि॒ऽत्वम् । अ॒स्तु॒ । व॒ज्रिणे॑ ।
द्यौः । न । प्र॒थि॒ना । शवः॑ ॥महान् । इन्द्रः । परः । च । नु । महिऽत्वम् । अस्तु । वज्रिणे ।
द्यौः । न । प्रथिना । शवः ॥mahā́n ǀ índraḥ ǀ paráḥ ǀ ca ǀ nú ǀ mahi-tvám ǀ astu ǀ vajríṇe ǀ
dyáuḥ ǀ ná ǀ prathinā́ ǀ śávaḥ ǁmahān ǀ indraḥ ǀ paraḥ ǀ ca ǀ nu ǀ mahi-tvam ǀ astu ǀ vajriṇe ǀ
dyauḥ ǀ na ǀ prathinā ǀ śavaḥ ǁ1.8.5 Aṣṭaka 1.1.15.5Anuvāka 1.3.5
-
Ṛk 6
स॒मो॒हे वा॒ य आश॑त॒ नर॑स्तो॒कस्य॒ सनि॑तौ ।
विप्रा॑सो वा धिया॒यवः॑ ॥समोहे वा य आशत नरस् तोकस्य सनितौ |
विप्रासो वा धियायवः ||samohé vā yá ā́śata nárastokásya sánitau ǀ
víprāso vā dhiyāyávaḥ ǁsamohe vā ya āśata naras tokasya sanitau |
viprāso vā dhiyāyavaḥ ||स॒म्ऽओ॒हे । वा॒ । ये । आश॑त । नरः॑ । तो॒कस्य॑ । सनि॑तौ ।
विप्रा॑सः । वा॒ । धि॒या॒ऽयवः॑ ॥सम्ऽओहे । वा । ये । आशत । नरः । तोकस्य । सनितौ ।
विप्रासः । वा । धियाऽयवः ॥sam-ohé ǀ vā ǀ yé ǀ ā́śata ǀ náraḥ ǀ tokásya ǀ sánitau ǀ
víprāsaḥ ǀ vā ǀ dhiyā-yávaḥ ǁsam-ohe ǀ vā ǀ ye ǀ āśata ǀ naraḥ ǀ tokasya ǀ sanitau ǀ
viprāsaḥ ǀ vā ǀ dhiyā-yavaḥ ǁ1.8.6 Aṣṭaka 1.1.16.1Anuvāka 1.3.6
-
Ṛk 7
यः कु॒क्षिः सो॑म॒पात॑मः समु॒द्र इ॑व॒ पिन्व॑ते ।
उ॒र्वीरापो॒ न का॒कुदः॑ ॥यः कुक्षिः सोमपातमः समुद्र इव पिन्वते |
उर्वीर् आपो न काकुदः ||yáḥ kukṣíḥ somapā́tamaḥ samudrá iva pínvate ǀ
urvī́rā́po ná kākúdaḥ ǁyaḥ kukṣiḥ somapātamaḥ samudra iva pinvate |
urvīr āpo na kākudaḥ ||यः । कु॒क्षिः । सो॒म॒ऽपात॑मः । स॒मु॒द्रःऽइ॑व । पिन्व॑ते ।
उ॒र्वीः । आपः॑ । न । का॒कुदः॑ ॥यः । कुक्षिः । सोमऽपातमः । समुद्रःऽइव । पिन्वते ।
उर्वीः । आपः । न । काकुदः ॥yáḥ ǀ kukṣíḥ ǀ soma-pā́tamaḥ ǀ samudráḥ-iva ǀ pínvate ǀ
urvī́ḥ ǀ ā́paḥ ǀ ná ǀ kākúdaḥ ǁyaḥ ǀ kukṣiḥ ǀ soma-pātamaḥ ǀ samudraḥ-iva ǀ pinvate ǀ
urvīḥ ǀ āpaḥ ǀ na ǀ kākudaḥ ǁ1.8.7 Aṣṭaka 1.1.16.2Anuvāka 1.3.7
-
Ṛk 8
ए॒वा ह्य॑स्य सू॒नृता॑ विर॒प्शी गोम॑ती म॒ही ।
प॒क्वा शाखा॒ न दा॒शुषे॑ ॥एवा ह्य् अस्य सूनृता विरप्शी गोमती मही |
पक्वा शाखा न दाशुषे ||evā́ hyásya sūnṛ́tā virapśī́ gómatī mahī́ ǀ
pakvā́ śā́khā ná dāśúṣe ǁevā hy asya sūnṛtā virapśī gomatī mahī |
pakvā śākhā na dāśuṣe ||ए॒व । हि । अ॒स्य॒ । सू॒नृता॑ । वि॒ऽर॒प्शी । गोऽम॑ती । म॒ही ।
प॒क्वा । शाखा॑ । न । दा॒शुषे॑ ॥एव । हि । अस्य । सूनृता । विऽरप्शी । गोऽमती । मही ।
पक्वा । शाखा । न । दाशुषे ॥evá ǀ hí ǀ asya ǀ sūnṛ́tā ǀ vi-rapśī́ ǀ gó-matī ǀ mahī́ ǀ
pakvā́ ǀ śā́khā ǀ ná ǀ dāśúṣe ǁeva ǀ hi ǀ asya ǀ sūnṛtā ǀ vi-rapśī ǀ go-matī ǀ mahī ǀ
pakvā ǀ śākhā ǀ na ǀ dāśuṣe ǁ1.8.8 Aṣṭaka 1.1.16.3Anuvāka 1.3.8
-
Ṛk 9
ए॒वा हि ते॒ विभू॑तय ऊ॒तय॑ इंद्र॒ माव॑ते ।
स॒द्यश्चि॒त्संति॑ दा॒शुषे॑ ॥एवा हि ते विभूतय ऊतय इन्द्र मावते |
सद्यश् चित् सन्ति दाशुषे ||evā́ hí te víbhūtaya ūtáya indra mā́vate ǀ
sadyáścitsánti dāśúṣe ǁevā hi te vibhūtaya ūtaya indra māvate |
sadyaś cit santi dāśuṣe ||ए॒व । हि । ते॒ । विऽभू॑तयः । ऊ॒तयः॑ । इ॒न्द्र॒ । माऽव॑ते ।
स॒द्यः । चि॒त् । सन्ति॑ । दा॒शुषे॑ ॥एव । हि । ते । विऽभूतयः । ऊतयः । इन्द्र । माऽवते ।
सद्यः । चित् । सन्ति । दाशुषे ॥evá ǀ hí ǀ te ǀ ví-bhūtayaḥ ǀ ūtáyaḥ ǀ indra ǀ mā́-vate ǀ
sadyáḥ ǀ cit ǀ sánti ǀ dāśúṣe ǁeva ǀ hi ǀ te ǀ vi-bhūtayaḥ ǀ ūtayaḥ ǀ indra ǀ mā-vate ǀ
sadyaḥ ǀ cit ǀ santi ǀ dāśuṣe ǁ1.8.9 Aṣṭaka 1.1.16.4Anuvāka 1.3.9
-
Ṛk 10
ए॒वा ह्य॑स्य॒ काम्या॒ स्तोम॑ उ॒क्थं च॒ शंस्या॑ ।
इंद्रा॑य॒ सोम॑पीतये ॥एवा ह्य् अस्य काम्या स्तोम उक्थं च शंस्या |
इन्द्राय सोमपीतये ||evā́ hyásya kā́myā stóma ukthám ca śáṃsyā ǀ
índrāya sómapītaye ǁevā hy asya kāmyā stoma ukthaṃ ca śaṃsyā |
indrāya somapītaye ||ए॒व । हि । अ॒स्य॒ । काम्या॑ । स्तोमः॑ । उ॒क्थम् । च॒ । शंस्या॑ ।
इन्द्रा॑य । सोम॑ऽपीतये ॥एव । हि । अस्य । काम्या । स्तोमः । उक्थम् । च । शंस्या ।
इन्द्राय । सोमऽपीतये ॥evá ǀ hí ǀ asya ǀ kā́myā ǀ stómaḥ ǀ ukthám ǀ ca ǀ śáṃsyā ǀ
índrāya ǀ sóma-pītaye ǁeva ǀ hi ǀ asya ǀ kāmyā ǀ stomaḥ ǀ uktham ǀ ca ǀ śaṃsyā ǀ
indrāya ǀ soma-pītaye ǁ1.8.10 Aṣṭaka 1.1.16.5Anuvāka 1.3.10
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.