Ṛk 1.8.10
Saṃhitā
ए॒वा ह्य॑स्य॒ काम्या॒ स्तोम॑ उ॒क्थं च॒ शंस्या॑ ।
इंद्रा॑य॒ सोम॑पीतये ॥
एवा ह्य् अस्य काम्या स्तोम उक्थं च शंस्या |
इन्द्राय सोमपीतये ||
evā́ hyásya kā́myā stóma ukthám ca śáṃsyā ǀ
índrāya sómapītaye ǁ
evā hy asya kāmyā stoma ukthaṃ ca śaṃsyā |
indrāya somapītaye ||
Padapāṭha
ए॒व । हि । अ॒स्य॒ । काम्या॑ । स्तोमः॑ । उ॒क्थम् । च॒ । शंस्या॑ ।
इन्द्रा॑य । सोम॑ऽपीतये ॥
एव । हि । अस्य । काम्या । स्तोमः । उक्थम् । च । शंस्या ।
इन्द्राय । सोमऽपीतये ॥
evá ǀ hí ǀ asya ǀ kā́myā ǀ stómaḥ ǀ ukthám ǀ ca ǀ śáṃsyā ǀ
índrāya ǀ sóma-pītaye ǁ
eva ǀ hi ǀ asya ǀ kāmyā ǀ stomaḥ ǀ uktham ǀ ca ǀ śaṃsyā ǀ
indrāya ǀ soma-pītaye ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.008.10
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.1.16.05
- Maṇḍala · Anuvāka · Ṛk
- 01.03.010
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Madhucchandas Vaiśvāmitra
- Chandas छन्दस्
- Gāyatrī
- Svara स्वरः
- षड्जः
Text and interpretations from the Ṛgveda database of theveda.org.in.