Ṛk 1.8.5
Saṃhitā
म॒हाँ इंद्रः॑ प॒रश्च॒ नु म॑हि॒त्वम॑स्तु व॒ज्रिणे॑ ।
द्यौर्न प्र॑थि॒ना शवः॑ ॥
महां इन्द्रः परश् च नु महित्वम् अस्तु वज्रिणे |
द्यौर् न प्रथिना शवः ||
mahā́m̐ índraḥ paráśca nú mahitvámastu vajríṇe ǀ
dyáurná prathinā́ śávaḥ ǁ
mahāṃ indraḥ paraś ca nu mahitvam astu vajriṇe |
dyaur na prathinā śavaḥ ||
Padapāṭha
म॒हान् । इन्द्रः॑ । प॒रः । च॒ । नु । म॒हि॒ऽत्वम् । अ॒स्तु॒ । व॒ज्रिणे॑ ।
द्यौः । न । प्र॒थि॒ना । शवः॑ ॥
महान् । इन्द्रः । परः । च । नु । महिऽत्वम् । अस्तु । वज्रिणे ।
द्यौः । न । प्रथिना । शवः ॥
mahā́n ǀ índraḥ ǀ paráḥ ǀ ca ǀ nú ǀ mahi-tvám ǀ astu ǀ vajríṇe ǀ
dyáuḥ ǀ ná ǀ prathinā́ ǀ śávaḥ ǁ
mahān ǀ indraḥ ǀ paraḥ ǀ ca ǀ nu ǀ mahi-tvam ǀ astu ǀ vajriṇe ǀ
dyauḥ ǀ na ǀ prathinā ǀ śavaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.008.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.1.15.05
- Maṇḍala · Anuvāka · Ṛk
- 01.03.005
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Madhucchandas Vaiśvāmitra
- Chandas छन्दस्
- Gāyatrī
- Svara स्वरः
- षड्जः
Text and interpretations from the Ṛgveda database of theveda.org.in.