Sūkta 160
- Devatā देवता
- Divaḥ, Pṛthivī
- Ṛṣi ऋषि
- Dīrghatamas Aucathya
- Chandas छन्दस्
- Jagatī
Metres by ṛk
1st set of styles nicṛjjagatī (2-5); virāḍjagatī (1)
2nd set of styles jagatī
-
Ṛk 1
ते हि द्यावा॑पृथि॒वी वि॒श्वशं॑भुव ऋ॒ताव॑री॒ रज॑सो धार॒यत्क॑वी ।
सु॒जन्म॑नी धि॒षणे॑ अं॒तरी॑यते दे॒वो दे॒वी धर्म॑णा॒ सूर्यः॒ शुचिः॑ ॥ते हि द्यावापृथिवी विश्वशम्भुव ऋतावरी रजसो धारयत्कवी |
सुजन्मनी धिषणे अन्तर् ईयते देवो देवी धर्मणा सूर्यः शुचिः ||té hí dyā́vāpṛthivī́ viśváśambhuva ṛtā́varī rájaso dhārayátkavī ǀ
sujánmanī dhiṣáṇe antárīyate devó devī́ dhármaṇā sū́ryaḥ śúciḥ ǁte hi dyāvāpṛthivī viśvaśambhuva ṛtāvarī rajaso dhārayatkavī |
sujanmanī dhiṣaṇe antar īyate devo devī dharmaṇā sūryaḥ śuciḥ ||ते इति॑ । हि । द्यावा॑पृथि॒वी इति॑ । वि॒श्वऽश॑म्भुवा । ऋ॒तव॑री॒ इत्यृ॒तऽव॑री । रज॑सः । धा॒र॒यत्क॑वी॒ इति॑ धा॒र॒यत्ऽक॑वी ।
सु॒जन्म॑नी॒ इति॑ सु॒ऽजन्म॑नी । धि॒षणे॒ इति॑ । अ॒न्तः । ई॒य॒ते॒ । दे॒वः । दे॒वी इति॑ । धर्म॑णा । सूर्यः॑ । शुचिः॑ ॥ते इति । हि । द्यावापृथिवी इति । विश्वऽशम्भुवा । ऋतवरी इत्यृतऽवरी । रजसः । धारयत्कवी इति धारयत्ऽकवी ।
सुजन्मनी इति सुऽजन्मनी । धिषणे इति । अन्तः । ईयते । देवः । देवी इति । धर्मणा । सूर्यः । शुचिः ॥té íti ǀ hí ǀ dyā́vāpṛthivī́ íti ǀ viśvá-śambhuvā ǀ ṛtávarī ítyṛtá-varī ǀ rájasaḥ ǀ dhārayátkavī íti dhārayát-kavī ǀ
sujánmanī íti su-jánmanī ǀ dhiṣáṇe íti ǀ antáḥ ǀ īyate ǀ deváḥ ǀ devī́ íti ǀ dhármaṇā ǀ sū́ryaḥ ǀ śúciḥ ǁte iti ǀ hi ǀ dyāvāpṛthivī iti ǀ viśva-śambhuvā ǀ ṛtavarī ityṛta-varī ǀ rajasaḥ ǀ dhārayatkavī iti dhārayat-kavī ǀ
sujanmanī iti su-janmanī ǀ dhiṣaṇe iti ǀ antaḥ ǀ īyate ǀ devaḥ ǀ devī iti ǀ dharmaṇā ǀ sūryaḥ ǀ śuciḥ ǁ1.160.1 Aṣṭaka 2.3.3.0
-
Ṛk 2
उ॒रु॒व्यच॑सा म॒हिनी॑ अस॒श्चता॑ पि॒ता मा॒ता च॒ भुव॑नानि रक्षतः ।
सु॒धृष्ट॑मे वपु॒ष्ये॒३॒॑ न रोद॑सी पि॒ता यत्सी॑म॒भि रू॒पैरवा॑सयत् ॥उरुव्यचसा महिनी असश्चता पिता माता च भुवनानि रक्षतः |
सुधृष्टमे वपुष्ये न रोदसी पिता यत् सीम् अभि रूपैर् अवासयत् ||uruvyácasā mahínī asaścátā pitā́ mātā́ ca bhúvanāni rakṣataḥ ǀ
sudhṛ́ṣṭame vapuṣyé ná ródasī pitā́ yátsīmabhí rūpáirávāsayat ǁuruvyacasā mahinī asaścatā pitā mātā ca bhuvanāni rakṣataḥ |
sudhṛṣṭame vapuṣye na rodasī pitā yat sīm abhi rūpair avāsayat ||उ॒रु॒ऽव्यच॑सा । म॒हिनी॒ इति॑ । अ॒स॒श्चता॑ । पि॒ता । मा॒ता । च॒ । भुव॑नानि । र॒क्ष॒तः॒ ।
सु॒धृष्ट॑मे॒ इति॑ सु॒ऽधृष्ट॑मे । व॒पु॒ष्येः॒३॒॑ इति॑ । न । रोद॑सी॒ इति॑ । पि॒ता । यत् । सी॒म् । अ॒भि । रू॒पैः । अवा॑सयत् ॥उरुऽव्यचसा । महिनी इति । असश्चता । पिता । माता । च । भुवनानि । रक्षतः ।
सुधृष्टमे इति सुऽधृष्टमे । वपुष्येः इति । न । रोदसी इति । पिता । यत् । सीम् । अभि । रूपैः । अवासयत् ॥uru-vyácasā ǀ mahínī íti ǀ asaścátā ǀ pitā́ ǀ mātā́ ǀ ca ǀ bhúvanāni ǀ rakṣataḥ ǀ
sudhṛ́ṣṭame íti su-dhṛ́ṣṭame ǀ vapuṣyéḥ íti ǀ ná ǀ ródasī íti ǀ pitā́ ǀ yát ǀ sīm ǀ abhí ǀ rūpáiḥ ǀ ávāsayat ǁuru-vyacasā ǀ mahinī iti ǀ asaścatā ǀ pitā ǀ mātā ǀ ca ǀ bhuvanāni ǀ rakṣataḥ ǀ
sudhṛṣṭame iti su-dhṛṣṭame ǀ vapuṣyeḥ iti ǀ na ǀ rodasī iti ǀ pitā ǀ yat ǀ sīm ǀ abhi ǀ rūpaiḥ ǀ avāsayat ǁ1.160.2 Aṣṭaka 2.3.3.0
-
Ṛk 3
स वह्निः॑ पु॒त्रः पि॒त्रोः प॒वित्र॑वान्पु॒नाति॒ धीरो॒ भुव॑नानि मा॒यया॑ ।
धे॒नुं च॒ पृश्निं॑ वृष॒भं सु॒रेत॑सं वि॒श्वाहा॑ शु॒क्रं पयो॑ अस्य दुक्षत ॥स वह्निः पुत्रः पित्रोः पवित्रवान् पुनाति धीरो भुवनानि मायया |
धेनुं च पृश्निं वृषभं सुरेतसं विश्वाहा शुक्रम् पयो अस्य दुक्षत ||sá váhniḥ putráḥ pitróḥ pavítravānpunā́ti dhī́ro bhúvanāni māyáyā ǀ
dhenúm ca pṛ́śnim vṛṣabhám surétasam viśvā́hā śukrám páyo asya dukṣata ǁsa vahniḥ putraḥ pitroḥ pavitravān punāti dhīro bhuvanāni māyayā |
dhenuṃ ca pṛśniṃ vṛṣabhaṃ suretasaṃ viśvāhā śukram payo asya dukṣata ||सः । वह्निः॑ । पु॒त्रः । पि॒त्रोः । प॒वित्र॑ऽवान् । पु॒नाति॑ । धीरः॑ । भुव॑नानि । मा॒यया॑ ।
धे॒नुम् । च॒ । पृश्नि॑म् । वृ॒ष॒भम् । सु॒ऽरेत॑सम् । वि॒श्वाहा॑ । शु॒क्रम् । पयः॑ । अ॒स्य॒ । धु॒क्ष॒त॒ ॥सः । वह्निः । पुत्रः । पित्रोः । पवित्रऽवान् । पुनाति । धीरः । भुवनानि । मायया ।
धेनुम् । च । पृश्निम् । वृषभम् । सुऽरेतसम् । विश्वाहा । शुक्रम् । पयः । अस्य । धुक्षत ॥sáḥ ǀ váhniḥ ǀ putráḥ ǀ pitróḥ ǀ pavítra-vān ǀ punā́ti ǀ dhī́raḥ ǀ bhúvanāni ǀ māyáyā ǀ
dhenúm ǀ ca ǀ pṛ́śnim ǀ vṛṣabhám ǀ su-rétasam ǀ viśvā́hā ǀ śukrám ǀ páyaḥ ǀ asya ǀ dhukṣata ǁsaḥ ǀ vahniḥ ǀ putraḥ ǀ pitroḥ ǀ pavitra-vān ǀ punāti ǀ dhīraḥ ǀ bhuvanāni ǀ māyayā ǀ
dhenum ǀ ca ǀ pṛśnim ǀ vṛṣabham ǀ su-retasam ǀ viśvāhā ǀ śukram ǀ payaḥ ǀ asya ǀ dhukṣata ǁ1.160.3 Aṣṭaka 2.3.3.0
-
Ṛk 4
अ॒यं दे॒वाना॑म॒पसा॑म॒पस्त॑मो॒ यो ज॒जान॒ रोद॑सी वि॒श्वशं॑भुवा ।
वि यो म॒मे रज॑सी सुक्रतू॒यया॒जरे॑भिः॒ स्कंभ॑नेभिः॒ समा॑नृचे ॥अयं देवानाम् अपसाम् अपस्तमो यो जजान रोदसी विश्वशम्भुवा |
वि यो ममे रजसी सुक्रतूययाजरेभि स्कम्भनेभिः सम् आनृचे ||ayám devā́nāmapásāmapástamo yó jajā́na ródasī viśváśambhuvā ǀ
ví yó mamé rájasī sukratūyáyājárebhiḥ skámbhanebhiḥ sámānṛce ǁayaṃ devānām apasām apastamo yo jajāna rodasī viśvaśambhuvā |
vi yo mame rajasī sukratūyayājarebhi skambhanebhiḥ sam ānṛce ||अ॒यम् । दे॒वाना॑म् । अ॒पसा॑म् । अ॒पःऽत॑मः । यः । ज॒जान॑ । रोद॑सी॒ इति॑ । वि॒श्वऽश॑म्भुवा ।
वि । यः । म॒मे । रज॑सी॒ इति॑ । सु॒क्र॒तु॒ऽयया॑ । अ॒जरे॑भिः । स्कम्भ॑नेभिः । सम् । आ॒नृ॒चे॒ ॥अयम् । देवानाम् । अपसाम् । अपःऽतमः । यः । जजान । रोदसी इति । विश्वऽशम्भुवा ।
वि । यः । ममे । रजसी इति । सुक्रतुऽयया । अजरेभिः । स्कम्भनेभिः । सम् । आनृचे ॥ayám ǀ devā́nām ǀ apásām ǀ apáḥ-tamaḥ ǀ yáḥ ǀ jajā́na ǀ ródasī íti ǀ viśvá-śambhuvā ǀ
ví ǀ yáḥ ǀ mamé ǀ rájasī íti ǀ sukratu-yáyā ǀ ajárebhiḥ ǀ skámbhanebhiḥ ǀ sám ǀ ānṛce ǁayam ǀ devānām ǀ apasām ǀ apaḥ-tamaḥ ǀ yaḥ ǀ jajāna ǀ rodasī iti ǀ viśva-śambhuvā ǀ
vi ǀ yaḥ ǀ mame ǀ rajasī iti ǀ sukratu-yayā ǀ ajarebhiḥ ǀ skambhanebhiḥ ǀ sam ǀ ānṛce ǁ1.160.4 Aṣṭaka 2.3.3.0
-
Ṛk 5
ते नो॑ गृणा॒ने म॑हिनी॒ महि॒ श्रवः॑ क्ष॒त्रं द्या॑वापृथिवी धासथो बृ॒हत् ।
येना॒भि कृ॒ष्टीस्त॒तना॑म वि॒श्वहा॑ प॒नाय्य॒मोजो॑ अ॒स्मे समि॑न्वतं ॥ते नो गृणाने महिनी महि श्रवः क्षत्रं द्यावापृथिवी धासथो बृहत् |
येनाभि कृष्टीस् ततनाम विश्वहा पनाय्यम् ओजो अस्मे सम् इन्वतम् ||té no gṛṇāné mahinī máhi śrávaḥ kṣatrám dyāvāpṛthivī dhāsatho bṛhát ǀ
yénābhí kṛṣṭī́statánāma viśváhā panā́yyamójo asmé sáminvatam ǁte no gṛṇāne mahinī mahi śravaḥ kṣatraṃ dyāvāpṛthivī dhāsatho bṛhat |
yenābhi kṛṣṭīs tatanāma viśvahā panāyyam ojo asme sam invatam ||ते । नः॒ । गृ॒णा॒ने इति॑ । म॒हि॒नी॒ इति॑ । महि॑ । श्रवः॑ । क्ष॒त्रम् । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । धा॒स॒थः॒ । बृ॒हत् ।
येन॑ । अ॒भि । कृ॒ष्टीः । त॒तना॑म । वि॒श्वहा॑ । प॒नाय्य॑म् । ओजः॑ । अ॒स्मे इति॑ । सम् । इ॒न्व॒त॒म् ॥ते । नः । गृणाने इति । महिनी इति । महि । श्रवः । क्षत्रम् । द्यावापृथिवी इति । धासथः । बृहत् ।
येन । अभि । कृष्टीः । ततनाम । विश्वहा । पनाय्यम् । ओजः । अस्मे इति । सम् । इन्वतम् ॥té ǀ naḥ ǀ gṛṇāné íti ǀ mahinī íti ǀ máhi ǀ śrávaḥ ǀ kṣatrám ǀ dyāvāpṛthivī íti ǀ dhāsathaḥ ǀ bṛhát ǀ
yéna ǀ abhí ǀ kṛṣṭī́ḥ ǀ tatánāma ǀ viśváhā ǀ panā́yyam ǀ ójaḥ ǀ asmé íti ǀ sám ǀ invatam ǁte ǀ naḥ ǀ gṛṇāne iti ǀ mahinī iti ǀ mahi ǀ śravaḥ ǀ kṣatram ǀ dyāvāpṛthivī iti ǀ dhāsathaḥ ǀ bṛhat ǀ
yena ǀ abhi ǀ kṛṣṭīḥ ǀ tatanāma ǀ viśvahā ǀ panāyyam ǀ ojaḥ ǀ asme iti ǀ sam ǀ invatam ǁ1.160.5 Aṣṭaka 2.3.3.0
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.