Ṛgveda · Maṇḍala 1 · Sūkta 160
Ṛk 1.160.2
Saṃhitā
उ॒रु॒व्यच॑सा म॒हिनी॑ अस॒श्चता॑ पि॒ता मा॒ता च॒ भुव॑नानि रक्षतः ।
सु॒धृष्ट॑मे वपु॒ष्ये॒३॒॑ न रोद॑सी पि॒ता यत्सी॑म॒भि रू॒पैरवा॑सयत् ॥
उरुव्यचसा महिनी असश्चता पिता माता च भुवनानि रक्षतः |
सुधृष्टमे वपुष्ये न रोदसी पिता यत् सीम् अभि रूपैर् अवासयत् ||
uruvyácasā mahínī asaścátā pitā́ mātā́ ca bhúvanāni rakṣataḥ ǀ
sudhṛ́ṣṭame vapuṣyé ná ródasī pitā́ yátsīmabhí rūpáirávāsayat ǁ
uruvyacasā mahinī asaścatā pitā mātā ca bhuvanāni rakṣataḥ |
sudhṛṣṭame vapuṣye na rodasī pitā yat sīm abhi rūpair avāsayat ||
Padapāṭha
उ॒रु॒ऽव्यच॑सा । म॒हिनी॒ इति॑ । अ॒स॒श्चता॑ । पि॒ता । मा॒ता । च॒ । भुव॑नानि । र॒क्ष॒तः॒ ।
सु॒धृष्ट॑मे॒ इति॑ सु॒ऽधृष्ट॑मे । व॒पु॒ष्येः॒३॒॑ इति॑ । न । रोद॑सी॒ इति॑ । पि॒ता । यत् । सी॒म् । अ॒भि । रू॒पैः । अवा॑सयत् ॥
उरुऽव्यचसा । महिनी इति । असश्चता । पिता । माता । च । भुवनानि । रक्षतः ।
सुधृष्टमे इति सुऽधृष्टमे । वपुष्येः इति । न । रोदसी इति । पिता । यत् । सीम् । अभि । रूपैः । अवासयत् ॥
uru-vyácasā ǀ mahínī íti ǀ asaścátā ǀ pitā́ ǀ mātā́ ǀ ca ǀ bhúvanāni ǀ rakṣataḥ ǀ
sudhṛ́ṣṭame íti su-dhṛ́ṣṭame ǀ vapuṣyéḥ íti ǀ ná ǀ ródasī íti ǀ pitā́ ǀ yát ǀ sīm ǀ abhí ǀ rūpáiḥ ǀ ávāsayat ǁ
uru-vyacasā ǀ mahinī iti ǀ asaścatā ǀ pitā ǀ mātā ǀ ca ǀ bhuvanāni ǀ rakṣataḥ ǀ
sudhṛṣṭame iti su-dhṛṣṭame ǀ vapuṣyeḥ iti ǀ na ǀ rodasī iti ǀ pitā ǀ yat ǀ sīm ǀ abhi ǀ rūpaiḥ ǀ avāsayat ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.160.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.3.03.00
- Devatā देवता
- Divaḥ, Pṛthivī
- Ṛṣi ऋषि
- Dīrghatamas Aucathya
- Chandas छन्दस्
- Jagatī
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.