Sūkta 1
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Madhucchandas Vaiśvāmitra
- Chandas छन्दस्
- Gāyatrī
Metres by ṛk
1st set of styles gāyatrī (1, 3-5, 7); pipīlikāmadhyānicṛdgāyatrī (2); nicṛdgāyatrī (6); yavamadhyāvirāḍgāyatrī (8); virāḍgāyatrī (9)
2nd set of styles gāyatrī
-
Ṛk 1
अ॒ग्निमी॑ळे पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वमृ॒त्विजं॑ ।
होता॑रं रत्न॒धात॑मं ॥अग्निम् ईळे पुरोहितं यज्ञस्य देवम् ऋत्विजम् |
होतारं रत्नधातमम् ||agnímīḷe puróhitam yajñásya devámṛtvíjam ǀ
hótāram ratnadhā́tamam ǁagnim īḷe purohitaṃ yajñasya devam ṛtvijam |
hotāraṃ ratnadhātamam ||अ॒ग्निम् । ई॒ळे॒ । पु॒रःऽहि॑तम् । य॒ज्ञस्य॑ । दे॒वम् । ऋ॒त्विज॑म् ।
होता॑रम् । र॒त्न॒ऽधात॑मम् ॥अग्निम् । ईळे । पुरःऽहितम् । यज्ञस्य । देवम् । ऋत्विजम् ।
होतारम् । रत्नऽधातमम् ॥agním ǀ īḷe ǀ puráḥ-hitam ǀ yajñásya ǀ devám ǀ ṛtvíjam ǀ
hótāram ǀ ratna-dhā́tamam ǁagnim ǀ īḷe ǀ puraḥ-hitam ǀ yajñasya ǀ devam ǀ ṛtvijam ǀ
hotāram ǀ ratna-dhātamam ǁ1.1.1 Aṣṭaka 1.1.1.1Anuvāka 1.1.1
-
Ṛk 2
अ॒ग्निः पूर्वे॑भि॒र्ऋषि॑भि॒रीड्यो॒ नूत॑नैरु॒त ।
स दे॒वाँ एह व॑क्षति ॥अग्निः पूर्वेभिर् ऋषिभिर् ईड्यो नूतनैर् उत |
स देवां एह वक्षति ||agníḥ pū́rvebhirṛ́ṣibhirī́ḍyo nū́tanairutá ǀ
sá devā́m̐ éhá vakṣati ǁagniḥ pūrvebhir ṛṣibhir īḍyo nūtanair uta |
sa devāṃ eha vakṣati ||अ॒ग्निः । पूर्वे॑भिः । ऋषि॑ऽभिः । ईड्यः॑ । नूत॑नैः । उ॒त ।
सः । दे॒वान् । आ । इ॒ह । व॒क्ष॒ति॒ ॥अग्निः । पूर्वेभिः । ऋषिऽभिः । ईड्यः । नूतनैः । उत ।
सः । देवान् । आ । इह । वक्षति ॥agníḥ ǀ pū́rvebhiḥ ǀ ṛ́ṣi-bhiḥ ǀ ī́ḍyaḥ ǀ nū́tanaiḥ ǀ utá ǀ
sáḥ ǀ devā́n ǀ ā́ ǀ ihá ǀ vakṣati ǁagniḥ ǀ pūrvebhiḥ ǀ ṛṣi-bhiḥ ǀ īḍyaḥ ǀ nūtanaiḥ ǀ uta ǀ
saḥ ǀ devān ǀ ā ǀ iha ǀ vakṣati ǁ1.1.2 Aṣṭaka 1.1.1.2Anuvāka 1.1.2
-
Ṛk 3
अ॒ग्निना॑ र॒यिम॑श्नव॒त्पोष॑मे॒व दि॒वेदि॑वे ।
य॒शसं॑ वी॒रव॑त्तमं ॥अग्निना रयिम् अश्नवत् पोषम् एव दिवे-दिवे |
यशसं वीरवत्तमम् ||agnínā rayímaśnavatpóṣamevá divédive ǀ
yaśásam vīrávattamam ǁagninā rayim aśnavat poṣam eva dive-dive |
yaśasaṃ vīravattamam ||अ॒ग्निना॑ । र॒यिम् । अ॒श्न॒व॒त् । पोष॑म् । ए॒व । दि॒वेऽदि॑वे ।
य॒शस॑म् । वी॒रव॑त्ऽतमम् ॥अग्निना । रयिम् । अश्नवत् । पोषम् । एव । दिवेऽदिवे ।
यशसम् । वीरवत्ऽतमम् ॥agnínā ǀ rayím ǀ aśnavat ǀ póṣam ǀ evá ǀ divé-dive ǀ
yaśásam ǀ vīrávat-tamam ǁagninā ǀ rayim ǀ aśnavat ǀ poṣam ǀ eva ǀ dive-dive ǀ
yaśasam ǀ vīravat-tamam ǁ1.1.3 Aṣṭaka 1.1.1.3Anuvāka 1.1.3
-
Ṛk 4
अग्ने॒ यं य॒ज्ञम॑ध्व॒रं वि॒श्वतः॑ परि॒भूरसि॑ ।
स इद्दे॒वेषु॑ गच्छति ॥अग्ने यं यज्ञम् अध्वरं विश्वतः परिभूर् असि |
स इद् देवेषु गच्छति ||ágne yám yajñámadhvarám viśvátaḥ paribhū́rási ǀ
sá íddevéṣu gacchati ǁagne yaṃ yajñam adhvaraṃ viśvataḥ paribhūr asi |
sa id deveṣu gacchati ||अग्ने॑ । यम् । य॒ज्ञम् । अ॒ध्व॒रम् । वि॒श्वतः॑ । प॒रि॒ऽभूः । असि॑ ।
सः । इत् । दे॒वेषु॑ । ग॒च्छ॒ति॒ ॥अग्ने । यम् । यज्ञम् । अध्वरम् । विश्वतः । परिऽभूः । असि ।
सः । इत् । देवेषु । गच्छति ॥ágne ǀ yám ǀ yajñám ǀ adhvarám ǀ viśvátaḥ ǀ pari-bhū́ḥ ǀ ási ǀ
sáḥ ǀ ít ǀ devéṣu ǀ gacchati ǁagne ǀ yam ǀ yajñam ǀ adhvaram ǀ viśvataḥ ǀ pari-bhūḥ ǀ asi ǀ
saḥ ǀ it ǀ deveṣu ǀ gacchati ǁ1.1.4 Aṣṭaka 1.1.1.4Anuvāka 1.1.4
-
Ṛk 5
अ॒ग्निर्होता॑ क॒विक्र॑तुः स॒त्यश्चि॒त्रश्र॑वस्तमः ।
दे॒वो दे॒वेभि॒रा ग॑मत् ॥अग्निर् होता कविक्रतुः सत्यश् चित्रश्रवस्तमः |
देवो देवेभिर् आ गमत् ||agnírhótā kavíkratuḥ satyáścitráśravastamaḥ ǀ
devó devébhirā́ gamat ǁagnir hotā kavikratuḥ satyaś citraśravastamaḥ |
devo devebhir ā gamat ||अ॒ग्निः । होता॑ । क॒विऽक्र॑तुः । स॒त्यः । चि॒त्रश्र॑वःऽतमः ।
दे॒वः । दे॒वेभिः॑ । आ । ग॒म॒त् ॥अग्निः । होता । कविऽक्रतुः । सत्यः । चित्रश्रवःऽतमः ।
देवः । देवेभिः । आ । गमत् ॥agníḥ ǀ hótā ǀ kaví-kratuḥ ǀ satyáḥ ǀ citráśravaḥ-tamaḥ ǀ
deváḥ ǀ devébhiḥ ǀ ā́ ǀ gamat ǁagniḥ ǀ hotā ǀ kavi-kratuḥ ǀ satyaḥ ǀ citraśravaḥ-tamaḥ ǀ
devaḥ ǀ devebhiḥ ǀ ā ǀ gamat ǁ1.1.5 Aṣṭaka 1.1.1.5Anuvāka 1.1.5
-
Ṛk 6
यदं॒ग दा॒शुषे॒ त्वमग्ने॑ भ॒द्रं क॑रि॒ष्यसि॑ ।
तवेत्तत्स॒त्यमं॑गिरः ॥यद् अङ्ग दाशुषे त्वम् अग्ने भद्रं करिष्यसि |
तवेत् तत् सत्यम् अङ्गिरः ||yádaṅgá dāśúṣe tvámágne bhadrám kariṣyási ǀ
távéttátsatyámaṅgiraḥ ǁyad aṅga dāśuṣe tvam agne bhadraṃ kariṣyasi |
tavet tat satyam aṅgiraḥ ||यत् । अ॒ङ्ग । दा॒शुषे॑ । त्वम् । अग्ने॑ । भ॒द्रम् । क॒रि॒ष्यसि॑ ।
तव॑ । इत् । तत् । स॒त्यम् । अ॒ङ्गि॒रः॒ ॥यत् । अङ्ग । दाशुषे । त्वम् । अग्ने । भद्रम् । करिष्यसि ।
तव । इत् । तत् । सत्यम् । अङ्गिरः ॥yát ǀ aṅgá ǀ dāśúṣe ǀ tvám ǀ ágne ǀ bhadrám ǀ kariṣyási ǀ
táva ǀ ít ǀ tát ǀ satyám ǀ aṅgiraḥ ǁyat ǀ aṅga ǀ dāśuṣe ǀ tvam ǀ agne ǀ bhadram ǀ kariṣyasi ǀ
tava ǀ it ǀ tat ǀ satyam ǀ aṅgiraḥ ǁ1.1.6 Aṣṭaka 1.1.2.1Anuvāka 1.1.6
-
Ṛk 7
उप॑ त्वाग्ने दि॒वेदि॑वे॒ दोषा॑वस्तर्धि॒या व॒यं ।
नमो॒ भरं॑त॒ एम॑सि ॥उप त्वाग्ने दिवे-दिवे दोषावस्तर् धिया वयम् |
नमो भरन्त एमसि ||úpa tvāgne divédive dóṣāvastardhiyā́ vayám ǀ
námo bháranta émasi ǁupa tvāgne dive-dive doṣāvastar dhiyā vayam |
namo bharanta emasi ||उप॑ । त्वा॒ । अ॒ग्ने॒ । दि॒वेऽदि॑वे । दोषा॑ऽवस्तः । धि॒या । व॒यम् ।
नमः॑ । भर॑न्तः । आ । इ॒म॒सि॒ ॥उप । त्वा । अग्ने । दिवेऽदिवे । दोषाऽवस्तः । धिया । वयम् ।
नमः । भरन्तः । आ । इमसि ॥úpa ǀ tvā ǀ agne ǀ divé-dive ǀ dóṣā-vastaḥ ǀ dhiyā́ ǀ vayám ǀ
námaḥ ǀ bhárantaḥ ǀ ā́ ǀ imasi ǁupa ǀ tvā ǀ agne ǀ dive-dive ǀ doṣā-vastaḥ ǀ dhiyā ǀ vayam ǀ
namaḥ ǀ bharantaḥ ǀ ā ǀ imasi ǁ1.1.7 Aṣṭaka 1.1.2.2Anuvāka 1.1.7
-
Ṛk 8
राजं॑तमध्व॒राणां॑ गो॒पामृ॒तस्य॒ दीदि॑विं ।
वर्ध॑मानं॒ स्वे दमे॑ ॥राजन्तम् अध्वराणां गोपाम् ऋतस्य दीदिविम् |
वर्धमानं स्वे दमे ||rā́jantamadhvarā́ṇām gopā́mṛtásya dī́divim ǀ
várdhamānam své dáme ǁrājantam adhvarāṇāṃ gopām ṛtasya dīdivim |
vardhamānaṃ sve dame ||राज॑न्तम् । अ॒ध्व॒राणा॑म् । गो॒पाम् । ऋ॒तस्य॑ । दीदि॑विम् ।
वर्ध॑मानम् । स्वे । दमे॑ ॥राजन्तम् । अध्वराणाम् । गोपाम् । ऋतस्य । दीदिविम् ।
वर्धमानम् । स्वे । दमे ॥rā́jantam ǀ adhvarā́ṇām ǀ gopā́m ǀ ṛtásya ǀ dī́divim ǀ
várdhamānam ǀ své ǀ dáme ǁrājantam ǀ adhvarāṇām ǀ gopām ǀ ṛtasya ǀ dīdivim ǀ
vardhamānam ǀ sve ǀ dame ǁ1.1.8 Aṣṭaka 1.1.2.3Anuvāka 1.1.8
-
Ṛk 9
स नः॑ पि॒तेव॑ सू॒नवेऽग्ने॑ सूपाय॒नो भ॑व ।
सच॑स्वा नः स्व॒स्तये॑ ॥स नः पितेव सूनवे ऽग्ने सूपायनो भव |
सचस्वा नः स्वस्तये ||sá naḥ pitéva sūnávé’gne sūpāyanó bhava ǀ
sácasvā naḥ svastáye ǁsa naḥ piteva sūnave 'gne sūpāyano bhava |
sacasvā naḥ svastaye ||सः । नः॒ । पि॒ताऽइ॑व । सू॒नवे॑ । अग्ने॑ । सु॒ऽउ॒पा॒य॒नः । भ॒व॒ ।
सच॑स्व । नः॒ । स्व॒स्तये॑ ॥सः । नः । पिताऽइव । सूनवे । अग्ने । सुऽउपायनः । भव ।
सचस्व । नः । स्वस्तये ॥sáḥ ǀ naḥ ǀ pitā́-iva ǀ sūnáve ǀ ágne ǀ su-upāyanáḥ ǀ bhava ǀ
sácasva ǀ naḥ ǀ svastáye ǁsaḥ ǀ naḥ ǀ pitā-iva ǀ sūnave ǀ agne ǀ su-upāyanaḥ ǀ bhava ǀ
sacasva ǀ naḥ ǀ svastaye ǁ1.1.9 Aṣṭaka 1.1.2.4Anuvāka 1.1.9
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.