Sūkta 82
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Gotama Rāhūgaṇa
- Chandas छन्दस्
- Paṅkti, Jagatī
Metres by ṛk
1st set of styles virāḍāstārapaṅkti (2, 3, 5); nicṛdāstārapaṅkti (1, 4); virāḍjagatī (6)
2nd set of styles paṅkti (1-5); jagatī (6)
-
Ṛk 1
उपो॒ षु शृ॑णु॒ही गिरो॒ मघ॑व॒न्मात॑था इव ।
य॒दा नः॑ सू॒नृता॑वतः॒ कर॒ आद॒र्थया॑स॒ इद्योजा॒ न्विं॑द्र ते॒ हरी॑ ॥उपो षु शृणुही गिरो मघवन् मातथा इव |
यदा नः सूनृतावतः कर आद् अर्थयास इद् योजा न्व् इन्द्र ते हरी ||úpo ṣú śṛṇuhī́ gíro mághavanmā́tathā iva ǀ
yadā́ naḥ sūnṛ́tāvataḥ kára ā́dartháyāsa ídyójā nvíndra te hárī ǁupo ṣu śṛṇuhī giro maghavan mātathā iva |
yadā naḥ sūnṛtāvataḥ kara ād arthayāsa id yojā nv indra te harī ||उपो॒ इति॑ । सु । शृ॒णु॒हि । गिरः॑ । मघ॑ऽवन् । मा । अत॑थाःऽइव ।
य॒दा । नः॒ । सू॒नृता॑ऽवतः । करः॑ । आत् । अ॒र्थया॑से । इत् । योज॑ । नु । इ॒न्द्र॒ । ते॒ । हरी॒ इति॑ ॥उपो इति । सु । शृणुहि । गिरः । मघऽवन् । मा । अतथाःऽइव ।
यदा । नः । सूनृताऽवतः । करः । आत् । अर्थयासे । इत् । योज । नु । इन्द्र । ते । हरी इति ॥úpo íti ǀ sú ǀ śṛṇuhí ǀ gíraḥ ǀ mágha-van ǀ mā́ ǀ átathāḥ-iva ǀ
yadā́ ǀ naḥ ǀ sūnṛ́tā-vataḥ ǀ káraḥ ǀ ā́t ǀ artháyāse ǀ ít ǀ yója ǀ nú ǀ indra ǀ te ǀ hárī íti ǁupo iti ǀ su ǀ śṛṇuhi ǀ giraḥ ǀ magha-van ǀ mā ǀ atathāḥ-iva ǀ
yadā ǀ naḥ ǀ sūnṛtā-vataḥ ǀ karaḥ ǀ āt ǀ arthayāse ǀ it ǀ yoja ǀ nu ǀ indra ǀ te ǀ harī iti ǁ1.82.1 Aṣṭaka 1.6.3.0
-
Ṛk 2
अक्ष॒न्नमी॑मदंत॒ ह्यव॑ प्रि॒या अ॑धूषत ।
अस्तो॑षत॒ स्वभा॑नवो॒ विप्रा॒ नवि॑ष्ठया म॒ती योजा॒ न्विं॑द्र ते॒ हरी॑ ॥अक्षन्न् अमीमदन्त ह्य् अव प्रिया अधूषत |
अस्तोषत स्वभानवो विप्रा नविष्ठया मती योजा न्व् इन्द्र ते हरी ||ákṣannámīmadanta hyáva priyā́ adhūṣata ǀ
ástoṣata svábhānavo víprā náviṣṭhayā matī́ yójā nvíndra te hárī ǁakṣann amīmadanta hy ava priyā adhūṣata |
astoṣata svabhānavo viprā naviṣṭhayā matī yojā nv indra te harī ||अक्ष॑न् । अमी॑मदन्त । हि । अव॑ । प्रि॒याः । अ॒धू॒ष॒त॒ ।
अस्तो॑षत । स्वऽभा॑नवः । विप्राः॑ । नवि॑ष्ठया । म॒ती । योज॑ । नु । इ॒न्द्र॒ । ते॒ । हरी॒ इति॑ ॥अक्षन् । अमीमदन्त । हि । अव । प्रियाः । अधूषत ।
अस्तोषत । स्वऽभानवः । विप्राः । नविष्ठया । मती । योज । नु । इन्द्र । ते । हरी इति ॥ákṣan ǀ ámīmadanta ǀ hí ǀ áva ǀ priyā́ḥ ǀ adhūṣata ǀ
ástoṣata ǀ svá-bhānavaḥ ǀ víprāḥ ǀ náviṣṭhayā ǀ matī́ ǀ yója ǀ nú ǀ indra ǀ te ǀ hárī íti ǁakṣan ǀ amīmadanta ǀ hi ǀ ava ǀ priyāḥ ǀ adhūṣata ǀ
astoṣata ǀ sva-bhānavaḥ ǀ viprāḥ ǀ naviṣṭhayā ǀ matī ǀ yoja ǀ nu ǀ indra ǀ te ǀ harī iti ǁ1.82.2 Aṣṭaka 1.6.3.0
-
Ṛk 3
सु॒सं॒दृशं॑ त्वा व॒यं मघ॑वन्वंदिषी॒महि॑ ।
प्र नू॒नं पू॒र्णवं॑धुरः स्तु॒तो या॑हि॒ वशाँ॒ अनु॒ योजा॒ न्विं॑द्र ते॒ हरी॑ ॥सुसंदृशं त्वा वयम् मघवन् वन्दिषीमहि |
प्र नूनम् पूर्णवन्धुर स्तुतो याहि वशां अनु योजा न्व् इन्द्र ते हरी ||susaṃdṛ́śam tvā vayám mághavanvandiṣīmáhi ǀ
prá nūnám pūrṇávandhuraḥ stutó yāhi váśām̐ ánu yójā nvíndra te hárī ǁsusaṃdṛśaṃ tvā vayam maghavan vandiṣīmahi |
pra nūnam pūrṇavandhura stuto yāhi vaśāṃ anu yojā nv indra te harī ||सु॒ऽस॒न्दृश॑म् । त्वा॒ । व॒यम् । मघ॑ऽवन् । व॒न्दि॒षी॒महि॑ ।
प्र । नू॒नम् । पू॒र्णऽव॑न्धुरः । स्तु॒तः । या॒हि॒ । वशा॑न् । अनु॑ । योज॑ । नु । इ॒न्द्र॒ । ते॒ । हरी॒ इति॑ ॥सुऽसन्दृशम् । त्वा । वयम् । मघऽवन् । वन्दिषीमहि ।
प्र । नूनम् । पूर्णऽवन्धुरः । स्तुतः । याहि । वशान् । अनु । योज । नु । इन्द्र । ते । हरी इति ॥su-sandṛ́śam ǀ tvā ǀ vayám ǀ mágha-van ǀ vandiṣīmáhi ǀ
prá ǀ nūnám ǀ pūrṇá-vandhuraḥ ǀ stutáḥ ǀ yāhi ǀ váśān ǀ ánu ǀ yója ǀ nú ǀ indra ǀ te ǀ hárī íti ǁsu-sandṛśam ǀ tvā ǀ vayam ǀ magha-van ǀ vandiṣīmahi ǀ
pra ǀ nūnam ǀ pūrṇa-vandhuraḥ ǀ stutaḥ ǀ yāhi ǀ vaśān ǀ anu ǀ yoja ǀ nu ǀ indra ǀ te ǀ harī iti ǁ1.82.3 Aṣṭaka 1.6.3.0
-
Ṛk 4
स घा॒ तं वृष॑णं॒ रथ॒मधि॑ तिष्ठाति गो॒विदं॑ ।
यः पात्रं॑ हारियोज॒नं पू॒र्णमिं॑द्र॒ चिके॑तति॒ योजा॒ न्विं॑द्र ते॒ हरी॑ ॥स घा तं वृषणं रथम् अधि तिष्ठाति गोविदम् |
यः पात्रं हारियोजनम् पूर्णम् इन्द्र चिकेतति योजा न्व् इन्द्र ते हरी ||sá ghā tám vṛ́ṣaṇam ráthamádhi tiṣṭhāti govídam ǀ
yáḥ pā́tram hāriyojanám pūrṇámindra cíketati yójā nvíndra te hárī ǁsa ghā taṃ vṛṣaṇaṃ ratham adhi tiṣṭhāti govidam |
yaḥ pātraṃ hāriyojanam pūrṇam indra ciketati yojā nv indra te harī ||सः । घ॒ । तम् । वृष॑णम् । रथ॑म् । अधि॑ । ति॒ष्ठा॒ति॒ । गो॒ऽविद॑म् ।
यः । पात्र॑म् । हा॒रि॒ऽयो॒ज॒नम् । पू॒र्णम् । इ॒न्द्र॒ । चिके॑तति । योज॑ । नु । इ॒न्द्र॒ । ते॒ । हरी॒ इति॑ ॥सः । घ । तम् । वृषणम् । रथम् । अधि । तिष्ठाति । गोऽविदम् ।
यः । पात्रम् । हारिऽयोजनम् । पूर्णम् । इन्द्र । चिकेतति । योज । नु । इन्द्र । ते । हरी इति ॥sáḥ ǀ gha ǀ tám ǀ vṛ́ṣaṇam ǀ rátham ǀ ádhi ǀ tiṣṭhāti ǀ go-vídam ǀ
yáḥ ǀ pā́tram ǀ hāri-yojanám ǀ pūrṇám ǀ indra ǀ cíketati ǀ yója ǀ nú ǀ indra ǀ te ǀ hárī íti ǁsaḥ ǀ gha ǀ tam ǀ vṛṣaṇam ǀ ratham ǀ adhi ǀ tiṣṭhāti ǀ go-vidam ǀ
yaḥ ǀ pātram ǀ hāri-yojanam ǀ pūrṇam ǀ indra ǀ ciketati ǀ yoja ǀ nu ǀ indra ǀ te ǀ harī iti ǁ1.82.4 Aṣṭaka 1.6.3.0
-
Ṛk 5
यु॒क्तस्ते॑ अस्तु॒ दक्षि॑ण उ॒त स॒व्यः श॑तक्रतो ।
तेन॑ जा॒यामुप॑ प्रि॒यां मं॑दा॒नो या॒ह्यंध॑सो॒ योजा॒ न्विं॑द्र ते॒ हरी॑ ॥युक्तस् ते अस्तु दक्षिण उत सव्यः शतक्रतो |
तेन जायाम् उप प्रियाम् मन्दानो याह्य् अन्धसो योजा न्व् इन्द्र ते हरी ||yuktáste astu dákṣiṇa utá savyáḥ śatakrato ǀ
téna jāyā́múpa priyā́m mandānó yāhyándhaso yójā nvíndra te hárī ǁyuktas te astu dakṣiṇa uta savyaḥ śatakrato |
tena jāyām upa priyām mandāno yāhy andhaso yojā nv indra te harī ||यु॒क्तः । ते॒ । अ॒स्तु॒ । दक्षि॑णः । उ॒त । स॒व्यः । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।
तेन॑ । जा॒याम् । उप॑ । प्रि॒याम् । म॒न्दा॒नः । या॒हि॒ । अन्ध॑सः । योज॑ । नु । इ॒न्द्र॒ । ते॒ । हरी॒ इति॑ ॥युक्तः । ते । अस्तु । दक्षिणः । उत । सव्यः । शतक्रतो इति शतऽक्रतो ।
तेन । जायाम् । उप । प्रियाम् । मन्दानः । याहि । अन्धसः । योज । नु । इन्द्र । ते । हरी इति ॥yuktáḥ ǀ te ǀ astu ǀ dákṣiṇaḥ ǀ utá ǀ savyáḥ ǀ śatakrato íti śata-krato ǀ
téna ǀ jāyā́m ǀ úpa ǀ priyā́m ǀ mandānáḥ ǀ yāhi ǀ ándhasaḥ ǀ yója ǀ nú ǀ indra ǀ te ǀ hárī íti ǁyuktaḥ ǀ te ǀ astu ǀ dakṣiṇaḥ ǀ uta ǀ savyaḥ ǀ śatakrato iti śata-krato ǀ
tena ǀ jāyām ǀ upa ǀ priyām ǀ mandānaḥ ǀ yāhi ǀ andhasaḥ ǀ yoja ǀ nu ǀ indra ǀ te ǀ harī iti ǁ1.82.5 Aṣṭaka 1.6.3.0
-
Ṛk 6
यु॒नज्मि॑ ते॒ ब्रह्म॑णा के॒शिना॒ हरी॒ उप॒ प्र या॑हि दधि॒षे गभ॑स्त्योः ।
उत्त्वा॑ सु॒तासो॑ रभ॒सा अ॑मंदिषुः पूष॒ण्वान्व॑ज्रि॒न्त्समु॒ पत्न्या॑मदः ॥युनज्मि ते ब्रह्मणा केशिना हरी उप प्र याहि दधिषे गभस्त्योः |
उत् त्वा सुतासो रभसा अमन्दिषुः पूषण्वान् वज्रिन् सम् उ पत्न्यामदः ||yunájmi te bráhmaṇā keśínā hárī úpa prá yāhi dadhiṣé gábhastyoḥ ǀ
úttvā sutā́so rabhasā́ amandiṣuḥ pūṣaṇvā́nvajrintsámu pátnyāmadaḥ ǁyunajmi te brahmaṇā keśinā harī upa pra yāhi dadhiṣe gabhastyoḥ |
ut tvā sutāso rabhasā amandiṣuḥ pūṣaṇvān vajrin sam u patnyāmadaḥ ||यु॒नज्मि॑ । ते॒ । ब्रह्म॑णा । के॒शिना॑ । हरी॒ इति॑ । उप॑ । प्र । या॒हि॒ । द॒धि॒षे । गभ॑स्त्योः ।
उत् । त्वा॒ । सु॒तासः॑ । र॒भ॒साः । अ॒म॒न्दि॒षुः॒ । पू॒ष॒ण्ऽवान् । व॒ज्रि॒न् । सम् । ऊं॒ इति॑ । पत्न्या॑ । अ॒म॒दः॒ ॥युनज्मि । ते । ब्रह्मणा । केशिना । हरी इति । उप । प्र । याहि । दधिषे । गभस्त्योः ।
उत् । त्वा । सुतासः । रभसाः । अमन्दिषुः । पूषण्ऽवान् । वज्रिन् । सम् । ऊं इति । पत्न्या । अमदः ॥yunájmi ǀ te ǀ bráhmaṇā ǀ keśínā ǀ hárī íti ǀ úpa ǀ prá ǀ yāhi ǀ dadhiṣé ǀ gábhastyoḥ ǀ
út ǀ tvā ǀ sutā́saḥ ǀ rabhasā́ḥ ǀ amandiṣuḥ ǀ pūṣaṇ-vā́n ǀ vajrin ǀ sám ǀ ūṃ íti ǀ pátnyā ǀ amadaḥ ǁyunajmi ǀ te ǀ brahmaṇā ǀ keśinā ǀ harī iti ǀ upa ǀ pra ǀ yāhi ǀ dadhiṣe ǀ gabhastyoḥ ǀ
ut ǀ tvā ǀ sutāsaḥ ǀ rabhasāḥ ǀ amandiṣuḥ ǀ pūṣaṇ-vān ǀ vajrin ǀ sam ǀ ūṃ iti ǀ patnyā ǀ amadaḥ ǁ1.82.6 Aṣṭaka 1.6.3.0
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.