Ṛk 1.82.3
Saṃhitā
सु॒सं॒दृशं॑ त्वा व॒यं मघ॑वन्वंदिषी॒महि॑ ।
प्र नू॒नं पू॒र्णवं॑धुरः स्तु॒तो या॑हि॒ वशाँ॒ अनु॒ योजा॒ न्विं॑द्र ते॒ हरी॑ ॥
सुसंदृशं त्वा वयम् मघवन् वन्दिषीमहि |
प्र नूनम् पूर्णवन्धुर स्तुतो याहि वशां अनु योजा न्व् इन्द्र ते हरी ||
susaṃdṛ́śam tvā vayám mághavanvandiṣīmáhi ǀ
prá nūnám pūrṇávandhuraḥ stutó yāhi váśām̐ ánu yójā nvíndra te hárī ǁ
susaṃdṛśaṃ tvā vayam maghavan vandiṣīmahi |
pra nūnam pūrṇavandhura stuto yāhi vaśāṃ anu yojā nv indra te harī ||
Padapāṭha
सु॒ऽस॒न्दृश॑म् । त्वा॒ । व॒यम् । मघ॑ऽवन् । व॒न्दि॒षी॒महि॑ ।
प्र । नू॒नम् । पू॒र्णऽव॑न्धुरः । स्तु॒तः । या॒हि॒ । वशा॑न् । अनु॑ । योज॑ । नु । इ॒न्द्र॒ । ते॒ । हरी॒ इति॑ ॥
सुऽसन्दृशम् । त्वा । वयम् । मघऽवन् । वन्दिषीमहि ।
प्र । नूनम् । पूर्णऽवन्धुरः । स्तुतः । याहि । वशान् । अनु । योज । नु । इन्द्र । ते । हरी इति ॥
su-sandṛ́śam ǀ tvā ǀ vayám ǀ mágha-van ǀ vandiṣīmáhi ǀ
prá ǀ nūnám ǀ pūrṇá-vandhuraḥ ǀ stutáḥ ǀ yāhi ǀ váśān ǀ ánu ǀ yója ǀ nú ǀ indra ǀ te ǀ hárī íti ǁ
su-sandṛśam ǀ tvā ǀ vayam ǀ magha-van ǀ vandiṣīmahi ǀ
pra ǀ nūnam ǀ pūrṇa-vandhuraḥ ǀ stutaḥ ǀ yāhi ǀ vaśān ǀ anu ǀ yoja ǀ nu ǀ indra ǀ te ǀ harī iti ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.082.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.6.03.00
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Gotama Rāhūgaṇa
- Chandas छन्दस्
- Paṅkti, Jagatī
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.